★-"इतिहास के बिखरे हुए पन्ने"-★

बुधवार, 24 मई 2023

आभीरकन्यातिकुतूहलेन सैवोर्वशी सम्प्रति नाकपृष्ठे।६१।


     मत्स्यपुराण             अध्याय-69★

   (भीमद्वादशी)

____________________________________

                   मत्स्य उवाच।
पुरा रथन्तरे कल्पे परिपृष्टो महात्मनः।
मन्दरस्थो महादेवः पिनाकी ब्रह्मणा स्वयम्।१।

                   ब्रह्मोवाच।
कथमारोग्यमैश्वर्यमनन्तममरेश्वर !।
स्वल्पेन तपसा देव ! भवेत् मोक्षोऽथवा नृणाम्।२।

किमज्ञातं महादेव !त्वत्प्रसादादधोक्षज !
स्वल्पकेनाथ तपसा महत्फलमिहोच्यताम्।३।

                  मत्स्य उवाच।
एवं पृष्टः स विश्वात्मा ब्रह्मणो लोकभावनः।
उमापतिरुवाचेदं मनसः प्रीतिकारकम्।४।

                 ईश्वर उवाच।
अस्माद्रथन्तरात्कल्पात् त्रयोविंशात् पुनर्यदा।
वाराहो भविता कल्पस्तस्य मन्वन्तरे शुभे।५।

वैवस्वताख्ये सञ्जाते सप्तमे सप्तलोककृत्।
द्वापराख्यं युगं तद्वदष्टाविंशतिमञ्जगुः।६।

तस्यान्ते स महादेवो वासुदेवो जनार्दनः।
भारावतारणार्थाय त्रिधा विष्णुर्भविष्यति।७।

द्वैपायन ऋषिस्तद्वद्रौहिणेयोऽथ केशवः।
कंसादिदर्पमथनः केशवः क्लेशनाशनः।८।

पुरीं द्वारवतीं नाम साम्प्रतं या कुशस्थली।
दिव्यानुभावसंयुक्तामधिवासाय शार्ङ्गिणः
त्वष्टा ममाज्ञया तद्वत् करिष्यति जागत्पतेः।९।

तस्यां कदाचिदासीनः सभायाममितद्युतिः।
भार्याभिर्वृष्णिभिश्चैव भूभृद्भिर्भूरिदक्षिणैः।१०।

कुरुभिर्देवगन्धर्वैरभितः कैटभार्दनः।
प्रवृत्तासु पुराणासु धर्मसम्बन्धिनीषु च।११।

कथान्ते भीमसेनेन परिपृष्टः प्रतापवान्।
त्वया पृष्टस्य धर्म्मस्य रहस्यस्यास्य भेदकृत्।१२।

भविता स तदा ब्रह्मन् ! कर्त्ता चैव वृकोदरः।
प्रवर्तकोऽस्य धर्म्मस्य पाण्डुपुत्रो महाबलः।१३।

यस्य तीक्ष्णो वृको नाम जठरे हव्यवाहनः।
मया दत्तः स धर्म्मात्मा तेन चासौ वृकोदरः।१४।

मतिमान् दानशीलश्च नागायुतबलो महान्।
भविष्यत्यरजाः श्रीमान् कन्दर्प इव रूपवान्।१५।

धार्मिकस्याप्यशक्तस्य तीव्राग्नित्वादुपोषणे।
इदं व्रतमशेषाणां व्रतानामधिकं यतः।१६।

कथयिष्यति विश्वात्मा वासुदेवो जगद्‌गुरुः।
अशेषयज्ञफलदमशेषाघविनाशनम्।१७।

अशेषदुष्टशमनमशेषसुरपूजितम्।
पवित्राणां पवित्रञ्च मङ्गलानाञ्च मङ्गलम्।
भविष्यञ्च भविष्याणां पुराणानां पुरातनम्।१८।


यद्यष्टमी चतुर्दश्यो र्द्वादशीष्वथ भारत !।
अन्येष्वपि दिनर्क्षेषु न शक्तस्त्वमुपोषितुम्।१९।

ततः पुण्यान्तिथिमिमां सर्वपापप्रणाशिनीम्।
उपोष्यविधिनानेन गच्छ विष्णोः परम्पदम्।२०।

माघमासस्य दशमी यदा शुक्ला भवेत् तदा।
घृतेनाभ्यञ्जनं कृत्वा तिलैः स्नानं समाचरेत्।२१।

तथैव विष्णुमभ्यर्च्य नमो नारायणेति च।
कृष्णाय पादौ संपूज्य शिरः सर्वात्मने नमः।२२।


वैकुण्ठायेति वैकुण्ठमुरः श्रीवत्सधारिणे।
शङ्खिने चक्रिणे तद्वद् गदिने वरदाय वै।।
सर्वे नारायणस्यैव संपूज्याः बहवः क्रमात् ।२३।

दामोदरायेत्युदरं मेढ्रं पञ्च शराय वै।
ऊरू सौभाग्यनाथाय जानुनी भूतधारिणे।२४।

नमो नीलाय वैजङ्घे पादौ विश्वसृजे नमः।
नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रियै।२५।

नमः पुष्ट्‌यै नमस्तुष्ट्‌यै धृष्ट्यै हृष्ट्यैः नमो नमः।
नमो विहङ्गनाथाय वायुवेगाय पक्षिणे।
विषप्रमाथिने नित्यं गरुड़ञ्चाभिपूजयेत्।२६।

एवं संपूज्य गोविन्दं उमापतिविनायकौ।
गन्धैर्माल्यैस्तथा धूपैर्भक्ष्यैर्नानाविधैरपि।२७।

गव्येन पयसा सिद्धङ्कृसरामथ वाग्यतः।
सर्पिषा सह भुक्त्वा च गत्वा शतपदं बुधः।२८।

न्यग्रोधं दन्तकाष्ठमथवा खादिरं बुधः।
गृहीत्वा धावयेद्दन्तानाचान्तः प्रागुदङ्‌मुखः।२९।

ब्रूयात् सायन्तनीं कृत्वा सन्ध्यामस्तमिते रवौ।
नमो नारायणायेति त्वामहं शरणङ्गतः।३०।

एकादश्यां निराहारः समभ्यर्च्य च केशवम्।
रात्रिञ्च शकलां स्थित्वा स्नानञ्च पयसा तथा।३१।

सर्पिषा चापि दहनं हुत्वा ब्राह्मणपुङ्गवैः।
सहैव पुण्डरीकाक्ष ! द्वादश्यां क्षीरभोजनम्।३२।

करिष्यामि यतात्माऽहं निर्विघ्नेनास्तु तच्च मे।
एवमुक्त्वा स्वपेद्‌ भूमावितिहास कथां पुनः।३३।

श्रुत्वा प्रभाते सञ्जाते नदीं गत्वा विशाम्पते!
स्नानं कृत्वा मृदा तद्वत् पाखण्डानभिवर्जयेत्।३४।

उपास्य सन्ध्यां विधिवत् कृत्वा च पितृतर्पणम्।
प्रणम्य च हृषीकेशं सप्तलोकैकमीश्वरम्।३५।

गृहस्य पुरतो भक्त्या मण्डपं कारयेद्‌ बुधः।
दशहस्तमथाष्टौ वा करान् कुर्याद्विशाम्पते!।३६।

चतुर्हस्तां शुभां कुर्याद्वेदीमरिनिषूदन!।
चतुर्हस्तप्रमाणञ्च विन्यसेत् तत्र तोरणम्।३७।

प्रणम्य कलशं तत्र माघ(ष) मात्रेण संयुतम्।
छिद्रेण जलसम्पूर्णमथकृष्णाजिनस्थितः।३८।

तस्य धारां च शिरसा धारयेत् सकलान्निशम्।
तथैव विष्णोः शिरसि क्षीरधारां प्रपातयेत्।३९।

अरत्निमात्रं कुण्डञ्च कुर्यात् तत्र त्रिमेखलम्।
योनिवक्त्रञ्च तत् कृत्वा ब्राह्मणैः पयसर्पिषी।४०।

_________________________
तिलांश्च विष्णुदैवत्यैर्मन्त्रैरेकाग्निवत् तदा।
हुत्वा च वैष्णवं सम्यक्‌ चरुं गोक्षीरसंयुतम्।४१।

निष्पावार्द्धप्रमाणां वै धारामाज्यस्य पातयेत्।
जलकुम्भान् महावीर्य्य ! स्थापयित्वा त्रयोदश।४२।

भक्ष्यैर्नानाविधैर्युक्तान् सितवस्त्रैरलङ्कृतान्।
युक्तानौदुम्बरैः पात्रैः पञ्चरत्नसमन्वितान्।४३।

चतुर्भिर्बह्वचैर्होमस्तत्र कार्य्य उदङ्‌मुखैः।
रुद्रजापश्चतुर्भिश्च यजुर्वेदपरायणैः।४४।

वैष्णवानि तु सामानि चतुरः सामवेदिनः।
अरिष्टवर्गसहितान्यभितः परिपाठयेत्।४५।

__________________________________
एवं द्वादश तान् विप्रान् वस्त्रमाल्यानुलेपनैः।
पूजयेदङ्गुलीयैश्च कटकैर्हेमसूत्रकैः।४६।

वासोभिः शयनीयैश्च वित्तशाठ्यविवर्जितः।
एवं क्षपातिवाह्या च गीतमङ्गल निस्वनैः।४७।

उपाध्यायस्य च पुनर्द्विगुणं सर्वमेव तु।
ततः प्रभाते विमले समुत्थाय त्रयोदश।४८।

गावो दद्यात्‌ कुरुश्रेष्ठ ! सौवर्णमुखसंयुताः।
पयस्विन्यः शीलवत्यः कांस्य दोहसमन्विताः।४९।

रौप्यखुराः सवस्त्राश्च चन्दनेनाभिषेचिताः।
तास्तु तेषां ततो भक्त्या भक्ष्यभोज्यान्नतर्पितान्।५०।
________
कृत्वा वै ब्राह्मणान् सर्वानन्नैर्नानाविधैस्तथा।
भुक्त्वा चाक्षारलवणमात्मना च विसर्जयेत्।५१।

______

अनुगम्य पदान्नष्टौ पुत्रभार्यासमन्वितः।
प्रीयतामत्र देवेशः केशवः क्लेशनाशनः।५२।

शिवस्य हृदये विष्णुर्विष्णोश्च हृदये शिवः।
यथान्तरं न पश्यामि तथा मे स्वस्ति चायुषः।५३।

एवमुच्चार्य तान् कुम्भान् गाश्चैव शयनानि च।
वासां दद्याद्‌ द्विजातेश्च सर्वोपस्करसंयुताम्।५४।

अभावे बहुशय्यानामेकामपि सुसंस्कृताम्।
शय्यां दद्याद्‌ द्विजातेश्च सर्वोपस्करसंयुताम्।५५।

इतिहासपुराणानि वाचयित्वातिवाहयेत्।
तद्दिनं नरशार्दूल! य इच्छेद्विपुलां श्रियम्।५६।

तस्मात्त्वं सत्वमालम्ब्य भीमसेन ! विमत्सरः।
कुरु व्रतमिदं सम्यक्‌ स्नेहात् तव मयेरितम्।५७।
____________________
त्वया कृतमिदं वीर ! त्वन्नामाख्यं भविष्यति।
सा भीमद्वादशीह्येषा सर्वपापहरा शुभा।५८।


या तु कल्याणिनी नाम पुरा कल्पेषु पठ्यते।
त्वमादिकर्ता भव सौकरेऽस्मिन् कल्पे महावीर वरप्रधान।५९।

यस्याः स्मरन् कीर्तनमप्यशेषं विनष्टपापस्त्रिदशाधिपः स्यात्।६०।
______________________________
कृत्वा च यामप्सरसामधीशा वेश्याकृता ह्यन्यभवान्तरेषु।
आभीरकन्यातिकुतूहलेन सैवोर्वशी सम्प्रति नाकपृष्ठे।६१।

जाताथवा वैश्यकुलोद्भवापि पुलोमकन्या पुरुहूतपत्नी।

तत्रापि तस्याः परिचारिकेयं मम प्रिया सम्प्रति सत्यकामा।६२।

___________________________________

स्नातः पुरा मण्डलमेष तद्वत् तेजोमयं वेदशरीरमाप।
अस्याञ्च कल्याणतिथौ विवस्वान् सहस्रधारेण सहस्ररश्मिः।। ६९.६३ ।।

इदमेव कृतं महेन्द्रमुख्यैर्वसुभिर्देवसुरारिभिस्तथा तु।
फलमस्य न शक्यतेऽभिवक्तुं यदि जिह्वायुतकोटयो मुखे स्युः।६४।

कलिकलुषविदारिणीमनन्तामिति कथयिष्यति यादवेन्द्रसूनुः।
अपि नरकगतान् पितॄनशेषानलमुद्धर्तुमिहैव यः करोति।६५।

य इदमघविदारणं श्रृणोति भक्त्या परिपठतीह परोपकारहेतोः।
तिथिमिहसकलार्थभाङ् नरेन्द्रस्तव चतुरानन ! साम्यतामुपैति।६६।

कल्याणिनी नाम पूरा बभूव या द्वादशी माघदिनेषु पूज्या।
सा पाण्डुपुत्रेण कृता भविष्यत्यनन्तपुण्यानघ! भीमपूर्वा।६७।

★-Yadav Yogesh Kumar "Rohi"-★ पर 8:06 am
शेयर करें

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

‹
›
मुख्यपृष्ठ
वेब वर्शन देखें

यादव योगेश कुमार "रोहि" ग्राम - आज़ादपुर-पत्रालय-पहाड़ीपुर जनपद अलीगढ़---उ०प्र० दूरभाष 807716029

मेरी फ़ोटो
★-Yadav Yogesh Kumar "Rohi"-★
Yadav Yogesh Kumar Rohi village Azadpur post Paharipur district Aligarh U.P. 8077160219
मेरा पूरा प्रोफ़ाइल देखें
Blogger द्वारा संचालित.