गुरुवार, 29 अगस्त 2024

पद्मपुराण पाताल-खण्ड

ब्रह्मकायीद्भवो यस्मात् कायस्थी वर्ण उच्यते । नानागोत्राश्च तद्वंश्याः कायस्था भुवि सन्ति वै” । इति पद्मपुराणे सृष्टिखण्डम् ।* ।

इत्याकर्ण्य ततो ब्रह्मा पुरुषं स्वशरीरजम् । प्रहृष्य प्रत्युवाचेदमानन्दितमतिः पुनः ।स्थिरचित्तं समाधाय ध्यानस्थमतिसुन्दरम् । मच्छरीरात् समुद्भूतस्तस्मात् कायस्थसंज्ञकः ।चित्रगुप्तेति नाम्ना वै ख्यातो भुवि भविष्यसि ।धर्म्माधर्मविवेकार्थं धर्मराजपुरे सदा ।


पुलस्त्य उवाच ।“चित्रगुप्तान्वये जाताः शृणु तान् कथयामि ते । 
मद्रा नागरा गौराः श्रौवत्सश्चैव माथुराः ।अहिफणाः सौरसेनाः शैवसेनास्तथैव च । वर्णावर्णद्वयञ्चैव अम्बष्ठाद्याश्च सत्तम् !


न राधिका समा नारी न कृष्णसदृशः पुमान् ।
वयः परं न कैशोरात्स्वभावः प्रकृतेः परः ५२।
ध्येयं कैशोरकं ध्येयं वनं वृंदावनं वनम् ।
श्याममेव परं रूपमादिदेवं परो रसः ५३।
बाल्यं पंचमवर्षांतं पौगंडं दशमावधि ।
अष्टपंचककैशोरं सीमा पंचदशावधि ५४।
यौवनोद्भिन्नकैशोरं नवयौवनमुच्यते ।
तद्वयस्तस्य सर्वस्वं प्रपंचमितरद्वयः ५५।
बाल्यपौगंडकैशोरं वयो वंदे मनोहरम् ।
बालगोपालगोपालं स्मरगोपालरूपिणम् ५६।
वंदे मदनगोपालं कैशोराकारमद्भुतम् ।
यमाहुर्यौवनोद्भिन्न श्रीमन्मदनमोहनम् ५७।


न राधिका समा नारी न कृष्णसदृशः पुमान् ।
वयः परं न कैशोरात्स्वभावः प्रकृतेः परः ५२।
ध्येयं कैशोरकं ध्येयं वनं वृंदावनं वनम् ।
श्याममेव परं रूपमादिदेवं परो रसः ५३।
बाल्यं पंचमवर्षांतं पौगंडं दशमावधि ।
अष्टपंचककैशोरं सीमा पंचदशावधि ५४।
यौवनोद्भिन्नकैशोरं नवयौवनमुच्यते ।
तद्वयस्तस्य सर्वस्वं प्रपंचमितरद्वयः ५५।
बाल्यपौगंडकैशोरं वयो वंदे मनोहरम् ।
बालगोपालगोपालं स्मरगोपालरूपिणम् ५६।
वंदे मदनगोपालं कैशोराकारमद्भुतम् ।
यमाहुर्यौवनोद्भिन्न श्रीमन्मदनमोहनम् ५७।

वामपार्श्वे स्थितां तस्य राधिकां च स्मरेत्ततः ।
नीलचोलकसंवीतां तप्तहेमसमप्रभाम् ४४।

     वैष्णव के लक्षण- दास होना
वामदक्षिणयोर्विप्र शंखचक्रे यथाक्रमम् १३।
ऊर्द्ध्वपुंड्रं ततः कुर्याद्भालादिषु विधानतः ।
ततोमंत्रद्वयं तस्य दक्षकर्णे विनिर्दिशेत् १४।
मंत्रार्थं च वदेत्तस्मै यथावदनुपूर्वशः ।
दासशब्दयुतं नाम धार्यं तस्य प्रयत्नतः १५।
ततोऽतिभक्त्या सस्नेहं वैष्णवान्भोजयेद्बुधः ।
श्रीगुरुं पूजयेच्चापि वस्त्रालंकरणादिभिः १६


गोपा गावो गोपिकाश्च सदा वृंदावनं मम ।
सर्वमेतन्नित्यमेव चिदानंदरसात्मकम् ७५।


नाशौचं कीर्तने तस्य स पवित्रकरो यतः ।
वर्णाश्रमाचारवता पुरुषेण परः पुमान् ४६।
विष्णुराराध्यते पंथा नान्यः संतोषकारणम् ।
पतिप्रियहिताभिश्च मनोवाक्कायसंयमैः ४७।
व्रतैराराध्यते स्त्रीभिर्वासुदेवो दयानिधिः ।
आगमोक्तेन मार्गेण स्त्रीशूद्रैरपिपूजनम् ४८।
कर्तव्यं कृष्णचंद्रस्य द्विजातिवररूपिणः ।
त्रयोवर्णास्तु वेदोक्तमार्गाराधनतत्पराः ४९।
स्त्रीशूद्रादय एव स्युर्नाम्नाऽराधनतत्पराः ।
न पूजनैर्न यजनैर्न व्रतैरपि माधवः ५०।


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें