सोमवार, 26 अगस्त 2024

अशोक सुन्दरी-

कुञ्जल उवाच-
"अशोकसुन्दरी जाता सर्वयोषिद्वरा तदा।
रेमे सुनन्दने पुण्ये सर्वकामगुणान्विते।१।

सुरूपाभिः सुकन्याभिर्देवानां चारुहासिनी ।
सर्वान्भोगान्प्रभुं जाना गीतनृत्यविचक्षणा ।२।

विप्रचित्तेः सुतो हुण्डो रौद्रस्तीव्रश्च सर्वदा ।
स्वेच्छाचारो महाकामी नन्दनं प्रविवेश ह ।३।

अशोकसुन्दरीं दृष्ट्वा सर्वालङ्कारसंयुताम् ।
तस्यास्तु दर्शनाद्दैत्यो विद्धः कामस्य मार्गणैः ४।

तामुवाच महाकायः का त्वं कस्यासि वा शुभे ।
कस्मात्त्वं कारणाच्चात्र आगतासि वनोत्तमम् ।५।    "अशोकसुन्दर्युवाच-
शिवस्यापि सुपुण्यस्य सुताहं शृणु साम्प्रतम् ।
स्वसाहं कार्तिकेयस्य जननी गोत्रजापि मे ।६।

बालभावेन सम्प्राप्ता लीलया नन्दनं वनम् ।
भवान्कोहि किमर्थं तु मामेवं परिपृच्छति ।७।   'हुण्ड उवाच-
विप्रचित्तेः सुतश्चाहं गुणलक्षणसंयुतः ।
 हुण्डेति नाम्ना विख्यातो बलवीर्यमदोद्धतः ।८।

दैत्यानामप्यहं श्रेष्ठो मत्समो नास्ति राक्षसः।
 देवेषु मर्त्यलोकेषु तपसा यशसा कुले ।९।

अन्येषु नागलोकेषु धनभोगैर्वरानने ।
दर्शनात्ते विशालाक्षि हतः कन्दप्रमार्गैण ।१०।

शरणं ते ह्यहं प्राप्तः प्रसादसुमुखी भव ।
भव स्ववल्लभा भार्या मम प्राणसमा प्रिया।११।

  'अशोकसुन्दर्युवाच-
श्रूयतामभिधास्यामि सर्वसम्बन्धकारणम् ।
भवितव्या सुजातस्य लोके स्त्री पुरुषस्य हि ।१२।

भवितव्यस्तथा भर्ता स्त्रिया यः सदृशो गुणैः ।
संसारे लोकमार्गोयं शृणु हुणड यथाविधि ।१३।

अस्त्येव कारणं चात्र यथा तेन भवाम्यहम् ।
सुभार्या दैत्यराजेंद्र शृणुष्व यतमानसः।१४।

वृक्षराजादहं जाता यदा काले महामते ।  
शम्भोर्भावं सुसंगृह्य पार्वत्या कल्पिता ह्यहम् ।१५।

देवस्यानुमते देव्या सृष्टो भर्ता ममैव हि ।      
सोमवंशे महाप्राज्ञः स धर्मात्मा भविष्यति ।१६।

जिष्णुर्विष्णुर्समो वीर्ये तेजसा पावकोपमः।  
  सर्वज्ञः सत्यसन्धश्च त्यागे वैष्णवोपमम् ।१७।

यज्वा दानपतिः सोपि रूपेण मन्मथोपमः।
नहुषोनाम धर्मात्मा गुणशील महानिधिः।१८।

देव्या देवेन मे दत्तःख्यातोभर्ताभविष्यति ।
 पुत्रमाप्स्यामि सुन्दरम्।१९।

इन्द्रोपेन्द्र समं लोके ययातिं जनवल्लभम् ।
लप्स्याम्यहं रणे धीरं तस्माच्छम्भोः प्रसादतः।२०।

अहं पतिव्रता वीर परभार्या विशेषतः ।      
  अतस्त्वं सर्वथा हुणड त्यज भ्रान्तिमितो व्रज ।२१।

प्रहस्यैव वचो ब्रूते अशोकसुन्दरीं प्रति ।            हुण्ड उवाच-नैव युक्तं त्वया प्रोक्तं देव्या देवेन.       चैव हि ।२२।

नहुषोनाम धर्मात्मा सोमवंशे भविष्यति ।        भवती वयसा श्रेष्ठा कनिष्ठो न स युज्यते ।२३।

कनिष्ठा स्त्री प्रशस्ता तु पुरुषो न प्रशस्यते ।        कदा स पुरुषो भद्रे तव भर्ता भविष्यति।२४।

तारुण्यं यौवनं चापि नाशमेवं प्रयास्यति ।  यौवनस्य बलेनापि रूपवत्यः सदा स्त्रियः।२५।

पुरुषाणां वल्लभत्वं प्रयान्ति वरवर्णिनि ।      तारुण्यं हि महामूलं युवतीनां वरानने।२६।

तस्या धारेण भुञ्जन्ति भोगान्कामान्मनोनुगान् ।कदा सोभ्येष्यते भद्रे आयोः पुत्रः शृणुष्व मे।२७।

यौवनं वर्ततेऽद्यैव वृथा चैव भविष्यति ।           गर्भत्वं च शिशुत्वं च कौमारं च निशामय ।२८।

कदासौ यौवनोपेतस्तव योग्यो भविष्यति ।
यौवनस्य प्रभावेन पिबस्व मधुमाधवीम्।२९।

मया सह विशालाक्षि रमस्व त्वं सुखेन वै ।
हुण्डस्य वचनं श्रुत्वा शिवस्य तनया पुनः ।३०।

उवाच दानवेन्द्रं तं साध्वसेन समन्विता ।
अष्टाविंशतिके प्राप्ते द्वापराख्ये युगे तदा ।३१।

शेषावतारो धर्मात्मा वसुदेवसुतो बलः ।
रेवतस्य सुतां दिव्यां भार्यां स च करिष्यति।३२।

सापि जाता महाभाग कृताख्ये हि युगोत्तमे ।
युगत्रयप्रमाणेन सा हि ज्येष्ठा बलादपि ।३३।

बलस्य सा प्रिया जाता रेवती प्राणसंमिता ।
भविष्यद्वापरे प्राप्त इह सा तु भविष्यति ।३४।

मायावती पुरा जाता गन्धर्वतनया वरा ।
अपहृत्य नियम्यैव शम्बरो दानवोत्तमः ।३५।

तस्या भर्ता समाख्यातो माधवस्य सुतो बली ।
प्रद्युम्नो नाम वीरेशो यादवेश्वरनन्दनः ।३६।

तस्मिन्युगे भविष्येत भाव्यं दृष्टं पुरातनैः ।
व्यासादिभिर्महाभागैर्ज्ञानवद्भिर्महात्मभिः ।३७।

एवं हि दृश्यते दैत्य वाक्यं देव्या तदोदितम् ।
मां प्रति हि जगद्धात्र्या पुत्र्या हिमवतस्तदा ।३८।

त्वं तु लोभेन कामेन लुब्धो वदसि दुष्कृतम् ।
किल्बिषेण समाजुष्टं वेदशास्त्रविवर्जितम् ।३९।

यद्यस्यदिष्टमेवास्ति शुभं वाप्यशुभं दृढम् ।
पूर्वकर्मानुसारेण तत्तस्य परिजायते ।४०।

देवानां ब्राह्मणानां च वदने यत्सुभाषितम् ।
निः सरेद्यदि सत्यं तदन्यथा नैव जायते ।४१।

मद्भाग्यादेवमाज्ञातं नहुषस्यापि तस्य च ।
समायोगं विचार्यैवं देव्या प्रोक्तं शिवेन च ।४२।

एवं ज्ञात्वा शमं गच्छ त्यज भ्रान्तिं मनःस्थिताम् ।
नैव शक्तो भवान्दैत्य मे मनश्चालितुं ध्रुवम् ।४३।

पतिव्रता दृढा चित्ते स को मे चालितुं क्षमः ।
महाशापेन धक्ष्यामि इतो गच्छ महासुर ।४४।

एवमाकर्ण्य तद्वाक्यं हुण्डो वै दानवो बली ।
मनसा चिन्तयामास कथं भार्या भवेदियम् ।४५।

विचिन्त्य हुण्डो मायावी अन्तर्धानं समागतः ।
ततो निष्क्रम्य वेगेन तस्मात्स्थानाद्विहाय ताम् ।
अन्यस्मिन्दिवसे प्राप्ते मायां कृत्वा तमोमयीम् ।४६।

दिव्यं मायामयं रूपं कृत्वा नार्यास्तु दानवः ।
मायया कन्यका रूपो बभूव मम नन्दन ।४७।

सा कन्यापि वरारोहा मायारूपागमत्ततः ।
हास्यलीला समायुक्ता यत्रास्ते भवनन्दिनी ।४८।

उवाच वाक्यं स्निग्धेव अशोकसुन्दरीं प्रति ।
कासि कस्यासि सुभगे तिष्ठसि त्वं तपोवने ।४९।

किमर्थं क्रियते बाले कामशोषणकं तपः ।
तन्ममाचक्ष्व सुभगे किम्निमित्तं सुदुष्करम् ।५०।

तन्निशम्य शुभं वाक्यं दानवेनापि भाषितम् ।
मायारूपेण छन्नेन साभिलाषेण सत्वरम् ।५१।

आत्मसृष्टि सुवृत्तान्तं प्रवृत्तं तु यथा पुरा ।
तपसः कारणं सर्वं समाचष्ट सुदुःखिता ।५२।

उपप्लवं तु तस्यापि दानवस्य दुरात्मनः।
मायारूपं न जानाति सौहृदात्कथितं तया ।५।

        "हुण्ड उवाच-
पतिव्रतासि हे देवि साधुव्रतपरायणा ।
साधुशीलसमाचारा साधुचारा महासती ।५४।

अहं पतिव्रता भद्रे पतिव्रतपरायणा ।
तपश्चरामि सुभगे भर्तुरर्थे महासती ।५५।

मम भर्ता हतस्तेन हुण्डेनापि दुरात्मना ।
तस्य नाशाय वै घोरं तपस्यामि महत्तपः ।५६।

एहि मे स्वाश्रमे पुण्ये गङ्गातीरे वसाम्यहम् ।
अन्यैर्मनोहरैर्वाक्यैरुक्ता प्रत्ययकारकैः ।५७।

हुण्डेन सखिभावेन मोहिता शिवनन्दिनी ।
समाकृष्टा सुवेगेन महामोहेन मोहिता ।५८।

आनीतात्मगृहं दिव्यमनौपम्यं सुशोभनम् ।
मेरोस्तु शिखरे पुत्र वैडूर्याख्यं पुरोत्तमम् ।५९।

अस्ति सर्वगुणोपेतं काञ्चनाख्यं महाशिवम् ।
तुङ्गप्रासादसंबाधैः कलशैर्दंडचामरैः ।६०।

नानवृक्षसमोपेतैर्वनैर्नीलैर्घनोपमैः ।
वापीकूपतडागैश्च नदीभिस्तु जलाशयैः ।६१।

शोभमानं महारत्नैः प्राकारैर्हेमसंयतैः ।
सर्वकामसमृद्धार्थं सम्पूर्णं दानवस्य हि ।६२।

ददृशे सा पुरं रम्यमशोकसुंदरी तदा ।
कस्य देवस्य संस्थानं कथयस्व सखे मम ।६३।

सोवाच दानवेंद्रस्य दृष्टपूर्वस्य वै त्वया ।
तस्य स्थानं महाभागे सोऽहं दानवपुङ्गवः ।६४।

मया त्वं तु समानीता मायया वरवर्णिनि ।
तामाभाष्य गृहं नीता शातकौंभं सुशोभनम् ।६५।

नानावेश्मैः समाजुष्टं कैलासशिखरोपमम् ।
निवेश्य सुन्दरीं तत्र दोलायां कामपीडितः ।६६।

पुनः स्वरूपी दैत्येन्द्रः कामबाणप्रपीडितः ।
करसम्पुटमाबध्य उवाच वचनं तदा ।६७।

यं यं त्वं वाञ्छसे भद्रे तं तं दद्मि न संशयः ।
भज मां त्वं विशालाक्षि भजन्तं कामपीडितम् ।६८।

      "श्रीदेव्युवाच-
नैव चालयितुं शक्तो भवान्मां दानवेश्वरः ।
मनसापि न वै धार्यं मम मोहं समागतम् ।६९।

भवादृशैर्महापापैर्देवैर्वा दानवाधमैः ।
दुष्प्राप्याहं न सन्देहो मा वदस्व पुनः पुनः।७०।

स्कन्दानुजा सा तपसाभियुक्ता जाज्वल्यमाना महता रुषा च ।
संहर्तुकामा परि दानवं तं कालस्य जिह्वेव यथा स्फुरन्ती ।७१।

पुनरुवाच सा देवी तमेवं दानवाधमम् ।
उग्रं कर्म कृतं पाप चात्मनाशनहेतवे ।७२।

आत्मवंशस्य नाशाय स्वजनस्यास्य वै त्वया ।
दीप्ता स्वगृहमानीता सुशिखा कृष्णवर्त्मनः ।७३।

यथाऽशुभः कूटपक्षी सर्वशोकैः समुद्गतः ।
गृहं तु विशते यस्य तस्य नाशं प्रयच्छति ।७४।

स्वजनस्य च सर्वस्य सधनस्य कुलस्य च ।
स द्विजो नाशमिच्छेत विशत्येव यदा गृहम् ।७५।

तथा तेहं गृहं प्राप्ता तव नाशं समीहती ।
पुत्राणां धनधान्यस्य तव वंशस्य साम्प्रतम्।७६।

जीवं कुलं धनं धान्यं पुत्रपौत्रादिकं तव ।
सर्वं ते नाशयित्वाहं यास्यामि च न संशयः ।७७।

यथा त्वयाहमानीता चरन्ती परमं तपः ।
पतिकामा प्रवाञ्च्छन्ती नहुषं चायुनन्दनम् ।७८।

तथा त्वां मम भर्ता च नाशयिष्यति दानव ।
मन्निमित्तउपायोऽयं दृष्टो देवेन वै पुरा ।७९।

सत्येयं लौकिकी गाथा यां गायन्ति विदो जनाः।
प्रत्यक्षं दृश्यते लोके न विन्दन्ति कुबुद्धयः ।८०।

येन यत्र प्रभोक्तव्यं यस्माद्दुःखसुखादिकम् ।
स एव भुञ्जते तत्र तस्मादेव न संशयः ।८१।

कर्मणोस्य फलं भुङ्क्ष्व  स्वकीयस्य महीतले ।
यास्यसे निरयस्थानं परदाराभिमर्शनात् ।८२।

सुतीक्ष्णं हि सुधारं तु सुखड्गं च विघट्टति ।
अङ्गुल्यग्रेण कोपाय तथा मां विद्धि साम्प्रतम् ।८३।

सिंहस्य सम्मुखं गत्वा क्रुद्धस्य गर्जितस्य च ।
को लुनाति मुखात्केशान्साहसाकारसंयुतः ।८४।

सत्याचारां दमोपेतां नियतां तपसि स्थिताम् ।
निधनं चेच्छते यो वै स वै मां भोक्तुमिच्छति ।८५।

समणिं कृष्णसर्पस्य जीवमानस्य साम्प्रतम् ।
गृहीतुमिच्छते सो हि यथा कालेन प्रेषितः ।८६।

भवांस्तु प्रेषितो मूढ कालेन कालमोहितः ।
तदा ते ईदृशी जाता कुमतिः किं नपश्यसि ।८७।

ऋते तु आयुपुत्रेण समालोकयते हि कः ।
अन्यो हि निधनं याति ममरूपावलोकनात् ।८८।

एवमाभाषयित्वा तं गङ्गातीरं गता सती ।
सशोका दुःखसंविग्ना नियतानि यमान्विता ।८९।

पूर्वमाचरितं घोरं पतिकामनया तपः ।
तव नाशार्थमिच्छंती चरिष्ये दारुणं पुनः ।९०।

यदा त्वां निहतं दुष्टं नहुषेण महात्मना ।
निशितैर्वज्रसंकाशैर्बाणैराशीविषोपमैः ।९१।

रणे निपतितं पाप मुक्तकेशं सलोहितम् ।
गतासुं च प्रपश्यामि तदा यास्याम्यहं पतिम् ।९२।

एवं सुनियमं कृत्वा गङ्गातीरमनुत्तमम् ।     
 संस्थिता हुण्डनाशाय निश्चला शिवनन्दिनी ।९३।

वह्नेर्यथादीप्तिमती शिखोज्ज्वला तेजोभियुक्ता प्रदहेत्सुलोकान् 
क्रोधेन दीप्ता विबुधेशपुत्री गङ्गातटे दुश्चरमाचरत्तपः।९४।

कुञ्जल उवाच-
एवमुक्ता महाभाग शिवस्य तनया गता ।
गङ्गााम्बसि ततः स्नात्वा स्वपुरे काञ्चनाह्वये ।९५।

तपश्चचार तन्वङ्गीहुण्डस्य वधहेतवे ।
अशोकसुन्दरी बाला सत्येन च समन्विता ।९६।

हुण्डोपि दुःखितोभूतः शापदग्धेन चेतसा ।
चिन्तयामास सन्तप्त अतीव वचनानलैः ।९७।

समाहूय अमात्यं तं कम्पनाख्यमथाब्रवीत् ।
समाचष्ट स वृत्तान्तं तस्याः शापोद्भवं महत् ।९८।

शप्तोस्म्यशोकसुन्दर्या शिवस्यापि सुकन्यया ।
नहुषस्यापि मे भर्त्तुस्त्वं तु हस्तान्मरिष्यसि ।९९।

नैव जातस्त्वसौ गर्भ आयोर्भार्या च गुर्विणी ।
यथा सत्याद्व्यलीकस्तु तस्याः शापस्तथा कुरु १००।
 
  "कम्पन उवाच-
अपहृत्य प्रियां तस्य आयोश्चापि समानय ।
अनेनापि प्रकारेण तव शत्रुर्न जायते ।१०१।

नो वा प्रपातयस्व त्वं गर्भं तस्याः प्रभीषणैः ।
अनेनापि प्रकारेण तव शत्रुर्न जायते ।१०२।

जन्मकालं प्रतीक्षस्व नहुषस्य दुरात्मनः ।
अपहृत्य समानीय जहि त्वं पापचेतनम् ।१०३।

एवं सम्मन्त्र्य तेनापि कम्पनेन स दानवः ।
अभूत्स उद्यमोपेतो नहुषस्य प्रणाशने ।१०४।

                  "विष्णुरुवाच-
एलपुत्रो महाभाग आयुर्नाम क्षितीश्वरः ।
सार्वभौमः स धर्मात्मा सत्यव्रतपरायणः ।१०५।

इन्द्रोपेन्द्रसमो राजा तपसा यशसा बलैः ।
दानयज्ञैः सुपुण्यैश्च सत्येन नियमेन च ।१०६।

एकच्छत्रेण वै राज्यं चक्रे भूपतिसत्तमः ।
पृथिव्यां सर्वधर्मज्ञः सोमवंशस्य भूषणम् ।१०७।

पुत्रं न विंदते राजा तेन दुःखी व्यजायत ।
चिन्तयामास धर्मात्मा कथं मे जायते सुतः ।१०८।

इति चिन्तां समापेदे आयुश्च पृथिवीपतिः ।
पुत्रार्थं परमं यत्नमकरोत्सुसमाहितः ।१०९।

अत्रिपुत्रो महात्मा वै दत्तात्रेयो महामुनिः ।
क्रीडमानः स्त्रिया सार्द्धं मदिरारुणलोचनः ।११०।

वारुण्या मत्त धर्मात्मा स्त्रीवृन्दैश्च समावृतः ।
अङ्के युवतिमाधाय सर्वयोषिद्वरां शुभाम् ।१११।

गायते नृत्यते विप्रः सुरां च पिबते भृशम् ।
विना यज्ञोपवीतेन महायोगीश्वरोत्तमः ।११२।

पुष्पमालाभिर्दिव्याभिर्मुक्ताहारपरिच्छदैः ।
चन्दनागुरुदिग्धाङ्गो राजमानो मुनीश्वरः ।११३।

तस्याश्रमं नृपो गत्वा तं दृष्ट्वा द्विजसत्तमम् ।
प्रणाममकरोन्मूर्ध्ना दण्डवत्सुसमाहितः ।११४।

अत्रिपुत्रः स धर्मात्मा समालोक्य नृपोत्तमम् ।
आगतं पुरतो भक्त्या अथ ध्यानं समास्थितः ।११५।

एवं वर्षशतं प्राप्तं तस्य भूपस्य सत्तम ।
निश्चलं शांतिमापन्नं मानसं भक्तितत्परम् ।११६।

समाहूय उवाचेदं किमर्थं क्लिश्यसे नृप ।
ब्रह्माचारेण हीनोस्मि ब्रह्मत्वं नास्ति मे कदा ।।११७।

सुरामांसप्रलुब्धोऽस्मि स्त्रियासक्तः सदैव हि ।
वरदाने न मे शक्तिरन्यं शुश्रूष ब्राह्मणम् ।११८। 

  "आयुरुवाच-
भवादृशो महाभाग नास्ति ब्राह्मणसत्तमः ।
सर्वकामप्रदाता वै त्रैलोक्ये परमेश्वरः ।११९।

अत्रिवंशे महाभाग गोविंदः परमेश्वरः ।
ब्राह्मणस्य स्वरूपेण भवान्वै गरुडध्वजः ।१२०।

नमोऽस्तु देवदेवेश नमोऽस्तु परमेश्वर ।
त्वामहं शरणं प्राप्तः शरणागतवत्सल ।१२१।

उद्धरस्व हृषीकेश मायां कृत्वा प्रतिष्ठसि ।
विश्वस्थानां प्रजानां तु विद्वांसं विश्वनायकम् ।१२२।

जानाम्यहं जगन्नाथं भवन्तं मधुसूदनम् ।
मामेव रक्ष गोविन्द विश्वरूप नमोस्तु ते ।१२३।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें