दृष्ट्वा च विजयं विष्णोःस्तुवंति स्म समागत।८८।।
नताः स्म विष्णुं जगदादिभूतं सुरासुरेंद्रं जगतां प्रपालकम्
यन्नाभिपद्मात्किल पद्मयोनिर्बभूव तं वैशरणं गताः स्मः
नमोनमो मत्स्यवपुर्द्धराय नमोस्तु ते कच्छपरूपधारिणे
नमः प्रकुर्मश्च नृसिंहरूपिणे तथा पुनर्वामनरूपिणे नमः९०।।।
नमोस्तु ते क्षत्रविनाशनाय रामाय रामाय दशास्यनाशिने
प्रलंबहंत्रे शितिवाससे नमो नमोस्तु बुद्धाय च दैत्यमोहिने९१।
म्लेच्छांतकायापि च कल्किनाम्ने नमः पुनः क्रोडवपुर्धराय
जगद्धितार्थं च युगेयुगे भवान्बिभर्ति रूपं त्वसुराभवाय९२।
निषूदितोऽयं ह्यधुना किल त्वया दैत्यो हिरण्याक्ष इति प्रगल्भः
यश्चेंद्रमुख्यान्किललोकपालान्संहेलया चैव तिरश्चकार९३।
स वै त्वया देवहितार्थमेव निपातितो देववर प्रसीद
त्वमस्य विश्वस्य विसर्गकर्ता ब्राह्मेण रूपेण च देवदेव९४।
पाता त्वमेवास्य युगेयुगे च रूपाणि धत्से सुमनोहराणि
त्वमेव कालाग्निहरश्च भूत्वा विश्वं क्षयं नेष्यसि चांतकाले९५।
अतो भवानेव च विश्वकारणं न ते परं जीवमजीवमीश
यत्किंच भूतं च भविष्यरूपं प्रवर्त्तमानं च तथैव रूपम्९६।
सर्वं त्वमेवासि चराचराख्यं न भाति विश्वं त्वदृते च किंचित्
अस्तीति नास्तीति च भेदनिष्ठं त्वय्येव भातं सदसत्स्वरूपम्९७।
ततो भवंतं कतमोपि देव न ज्ञातुमर्हत्यविपक्वबुद्धिः
ऋते भवत्पादपरायणं जनं तेनागता स्मश्शरणं शरण्यम्९८।
(व्यास उवाच)
ततो विष्णुः प्रसन्नात्मा उवाच त्रिदिवौकसः
तुष्टोस्मि देवा भद्रं वो युष्मत्स्तोत्रेण सांप्रतम्९९।
य इदं प्रपठेद्भक्त्या विजयस्तोत्रमादरात्
न तस्य दुर्लभं देवास्त्रिषुलोकेषु किंचन१००।
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्
तत्फलं समवाप्नोति कीर्तनाच्छ्रवणान्नरः१०१।
सर्वकामप्रदं नित्यं देवदेवस्य कीर्तनम्
अतः परं महाज्ञानं न भूतं न भविष्यति१०२।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे देवासुरसंग्रामसमाप्तौ विजयस्तोत्रंनाम पंचसप्ततितमोऽध्यायः७५।
एते चांशाः कलाश्चान्ये संत्येव कतिधा मुने ।। १२ ।।
बौद्धाः पाषंण्डिनः प्रोक्ता यतो वेदविनिन्दकाः ।।
तस्माद्विजस्तान्नेक्षेत यतो धर्मबहिष्कृताः ।। १५-५२ ।।
ज्ञानतोऽज्ञानतो वापि द्विजो बोद्धालयं विशेत् ।।
ज्ञात्वा चेन्निष्कृतिर्नास्ति शास्त्राणामिति निश्वयः ।। १५-५३ ।।
एतेषां पापबाहुल्यान्नरकं कोटिकल्पकम् ।।
प्रायश्चित्तविहीनानि प्रोक्तान्यन्यानि च प्रभो ।। १५-५४ ।।
पापानि तेषां नरकान्गदतो मे निशामय ।। १५-५५ ।।
महापातकिनस्तेषु प्रत्येकं युगवासिनः ।।
तदन्ते पृथिवीमेत्य सप्तजन्मसु गर्दभाः ।। १५-५६ ।।
ततः श्वानो विद्धदेहा भवेयुर्दशजन्मसु ।।
आशताब्दं विट्कृमयः सर्पा द्वादशजन्मसु ।। १५-५७ ।।
ततः सहस्त्रजन्मानि मृगाद्याः पशवो नृप ।।
शताब्दं स्थावराश्चैव ततो गोधाशरीरिणः ।। १५-५८ ।।
ततस्तु सत्पजन्मानि चण्डालाः पापकारिणः ।।
ततः षोडश जन्मानि शूद्राद्या हीनजातयः ।। १५-५९ ।।
ततस्तु जन्मद्वितये दरिद्राव्याधिपीडिताः ।।
प्रतिग्रहपरा नित्यं ततो निरयगाः पुनः ।। १५-६० ।।?
असूयाविष्टमनसो रौरवे नरके स्मृतम् ।।
तत्र कल्पद्वयं स्थित्वा चाण्डालाः शतजन्मसु ।। १५
नतस्यनिष्कृतिर्दृष्टाप्रायश्चितशतैरपि ।। १५-५१ ।।
बौद्धाः पाषंण्डिनः प्रोक्ता यतो वेदविनिन्दकाः ।।
तस्माद्विजस्तान्नेक्षेत यतो धर्मबहिष्कृताः ।। १५-५२ ।।
ज्ञानतोऽज्ञानतो वापि द्विजो बोद्धालयं विशेत् ।।
ज्ञात्वा चेन्निष्कृतिर्नास्ति शास्त्राणामिति निश्वयः ।। १५-५३ ।।
एतेषां पापबाहुल्यान्नरकं कोटिकल्पकम् ।।
प्रायश्चित्तविहीनानि प्रोक्तान्यन्यानि च प्रभो ।। १५-५४ ।।
पापानि तेषां नरकान्गदतो मे निशामय ।। १५-५५ ।।
महापातकिनस्तेषु प्रत्येकं युगवासिनः ।।
तदन्ते पृथिवीमेत्य सप्तजन्मसु गर्दभाः ।। १५-५६ ।।
ततः श्वानो विद्धदेहा भवेयुर्दशजन्मसु ।।
आशताब्दं विट्कृमयः सर्पा द्वादशजन्मसु ।। १५-५७ ।।
ततः सहस्त्रजन्मानि मृगाद्याः पशवो नृप ।।
शताब्दं स्थावराश्चैव ततो गोधाशरीरिणः ।। १५-५८ ।।
ततस्तु सत्पजन्मानि चण्डालाः पापकारिणः ।।
ततः षोडश जन्मानि शूद्राद्या हीनजातयः ।। १५-५९ ।।
ततस्तु जन्मद्वितये दरिद्राव्याधिपीडिताः ।।
प्रतिग्रहपरा नित्यं ततो निरयगाः पुनः ।। १५-६० ।।?
असूयाविष्टमनसो रौरवे नरके स्मृतम् ।।
तत्र कल्पद्वयं स्थित्वा चाण्डालाः शतजन्मसु ।। १५
ततो दशावताराणि समभ्यर्चेत्समाहितः ।। ११९-१५ ।।
मत्स्यं कूर्मं वराहं च नरसिंहं त्रिविक्रमम् ।।
रामं रामं च कृष्णं च बौद्धं कल्किनमेव च ।। ११९-१६ ।।
बुद्धाय कल्किरूपाय क्षेत्रज्ञायाक्षराय च ।। ३२-३६ ।।
बुद्धाद्यतारकथनम्
(अग्निरुवाच)
वक्ष्ये बुद्धावतारञ्च पठतः श्रृण्वतोर्थदम्।
पुरा देवासुरे युद्धे देत्यैर्द्देवाः पपाजिताः ।। १ ।।
रक्ष रक्षेति शरणं वदन्तो जग्मुरीश्वरम्।
मायामोहस्वरूपोसौ शुद्धोदनसुतोऽभवत् ।। २ ।।
मोहयामास दैत्यांस्तांस्त्याजिता वेदधर्मकम्।
ते च बौद्धा बभूवुर्हि तेभ्योन्ये वेदवर्जिताः ।। ३ ।।
आर्हतः सोऽभवत् पश्चादार्हतानकरोत् परान्।
एवं पाषण्डिनो जाता वेदधर्म्मादिवर्जिताः ।। ४ ।।
नारकार्हं कर्म चक्रुर्ग्रहीष्यन्त्यधमादपि।
सर्वे कलियुगान्ते तु भविष्यन्ति च सङ्कराः ।। ५ ।।
दस्यवः शीलहीनाश्च वेदो वाजसनेयकः।
दश पञ्च च शाखा वै प्रमाणेन भविष्यति ।। ६ ।।
धर्म्मकञ्चुकसंवीता अधर्मरुचयस्तथा।
मानुपान् भक्षयिष्यन्ति म्लेच्छाः पार्थिवरूपिणः ।। ७ ।।
कल्की विष्णुयशः पुत्रो याज्ञवल्क्यपुरोहितः।
उत्सादयिष्यति म्लेच्छान् गृहीतास्त्रः कृतायुधः ।। ८ ।।
स्थापयिष्यति मर्यादां चातुर्वर्ण्ये यथोचिताम्।
आश्रमेषु च सर्वेषु प्रजाः सद्धर्म्मवर्त्मनि ।। ९ ।।
कल्किरूपं परित्यज्य हरिः स्वर्गं गमिष्यति।
ततः कृतयुगन्नाम पुरावत् सम्भविष्यति ।। १० ।।
वर्णाश्रमाश्च धर्मेषु स्वेषु स्थास्यन्ति सत्तम।
एवं सर्वेषु कल्पेषु सर्वमन्वन्तरेषु च ।। ११ ।।
अवतारा असङ्ख्याता अतीतानागतादयः।
विष्णोर्द्दशावताराख्यान्यः पठेत् श्रृणुयान्नरः ।। १२ ।।
सोवाप्तकामो विमलः सकुलः स्वर्गमाप्नुयात्।
धर्म्माधर्म्मव्यवस्थानमेवं वै कुरुते हरीः ।।
अवतीर्णश्च स गतः सर्गादेः कारणं हरिः ।। १३ ।।
इत्यदिमहापुराणे आग्नेये बुद्धकल्क्यवतारवर्णनं नाम षोडशोऽध्यायः ॥
______________________________________
नमो वेदरहस्याय नमस्ते वेदयोनये ।
नमो बुद्धाय शुद्धाय नमस्ते ज्ञानरूपिणे ।। ६.१५
श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षष्ठोऽध्यायः।।६।।
_________________________________
वेदान्तसारसाराय नमो वेदात्ममूर्त्तये ।।
नमो बुद्धाय शुद्धाय योगिनां गुरवे नमः ।१०.४९।
श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे अष्टमोऽध्यायः।।६।।
__________________
(श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां उत्तर भाग ४६वाँ अध्याय )
नमो बुद्धाय शुद्धाय नमो युक्ताय हेतवे ।
नमो नमो नमस्तुभ्यं मायिने वेधसे नमः ।। ४६.६१
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें