सोमवार, 18 जनवरी 2021

(भविष्यपुराणम् प्रतिसर्गपर्वे संस्कृत श्लोकान्वितम् )

भविष्यपुराणम् पर्व तृतीय (प्रतिसर्गपर्व)/खण्डः प्रथम/अध्यायः चतुर्थ

                 द्वापरयुगभूपाख्यानवर्णनम्

                  ।। शौनक उवाच ।। 
कथं यज्ञः कृतस्तेन प्रद्योतेन विचक्षण ।।
सर्वं कथय मे तात त्रिकालज्ञ महामुने ।। १ ।।


                  ।। सूत उवाच ।। ।।
एकदा हस्तिनगरे प्रद्योतः क्षेमकात्मजः ।।
आस्थितः स कथामध्ये नारदोऽभ्यागमत्तदा ।। २ ।।


तं दृष्ट्वा हर्षितो राजा पूजयामास धर्मवित् ।।
सुखोपविष्टः स मुनिः प्रद्योतं नृपमब्रवीत् ।। ३ ।।


म्लेच्छैर्हतस्तव पिता यमलोकमतो गतः ।।
म्लेच्छयज्ञप्रभावेण स्वर्गतिर्भविता हि सः ।।४।।


तच्छ्रुत्वा क्रोधताम्राक्षो ब्राह्मणान्वेदवित्तमान् ।।
आहूय स कुरुक्षेत्रे म्लेच्छयज्ञं समारभत् ।। ५ ।।


यज्ञकुंडं चतुष्कोणं योजनान्येव षोडश ।।
रचित्वा देवता ध्यात्वा म्लेच्छांश्च जुहुयान्नृपः।।६ ।।

__________________________________

(°¶•)
हारहूणान्बर्बरांश्च गुरुंडांश्च शकान्खसान् ।।
यवनान्पल्लवांश्चैव रोमजान्खरसंभवान् ।। ७ ।।


द्वीप स्थितान्कामरूश्च चीनान्सागरमध्यगान्।।
प्राहूय भस्मसात्कुर्वन्वेदमंत्रप्रभावतः ।। ८ ।।


ब्राह्मणान्दक्षिणां दत्त्वा अभिषेकमकारयत् ।।
क्षेमको नाम नृपतिः स्वर्गलोकं ततो गतः ।। ९ ।।


म्लेच्छहंता नाम तस्य विख्यातं भुवि सर्वतः ।।
राज्यं दशसहस्राब्दं कृतं तेन महात्मना ।।3.1.4.(१०)।।

___________________________________
स्वर्गलोकं गतो राजा तत्पुत्रो वेदवान्स्मृतः।।
द्विसहस्रं कृतं राज्यं तदा म्लेच्छः कलिः स्वयम् ।।
नारायणं पूजयित्वा दिव्यां स्तुतिमथाकरोत् ।। ।। ११ ।।


                 ।। कलिरुवाच ।। 
नमोऽनंताय महते सर्वकालप्रवर्तिने ।। १२ ।।


चतुर्युगकृते तुभ्यं वासुदेवाय साक्षिणे ।।
दशावताराय हरे नमस्तुभ्यं नमोनमः ।।१३।।


नमः शक्त्यवताराय रामकृष्णाय ते नमः ।।
नमो मत्स्यावताराय महते गौरवासिने ।। १४ ।।


नमो भक्तावताराय कल्पक्षेत्रनिवासिने ।।
राज्ञा वेदवता नाथ मम स्थानं विनाशितम् ।।
मम प्रियस्य म्लेच्छस्य तत्पित्रा वंशनाशनम् ।। १५ ।।


                  ।। सूत उवाच ।। 
इति स्तुतस्तु कलिना म्लेच्छस्य सह भार्यया ।।१६।।


प्राप्तवान्स हरिः साक्षाद्भगवान्भक्तवत्सलः ।।
कलिं प्रोवाच स हरिर्युष्मदर्थे युगोत्तमम् ।। १७ ।।

_____________________________________
बहुरूपमहं कृत्वा तवेच्छां पूरयाम्यहम् ।। (°¶•)
आदमो नाम पुरुषः पत्नी हव्यवती तथा ।। १८ ।।


विष्णुकर्दमतो जातौ .म्लेच्छवंशप्रवर्धनौ ।।
हरिस्त्वन्तर्दधे तत्र कलिरानंदसंकुलः ।। १९ ।।


गिरिं नीलाचलं प्राप्य किंचित्कालमवासयत् ।।
पुत्रो वेदवतो जातः सुनंदो नाम भूपतिः ।। 3.1.4.२० ।।


पितुस्तुल्यं कृतं राज्यमनपत्यो मृतिं गतः ।।
आर्यदेशाः क्षीणवंतो म्लेच्छवंशा बलान्विताः ।। २१।।


भविष्यंति भृगुश्रेष्ठ तस्माच्च तुहिनाचलम् ।।
गत्वा विष्णुं समाराध्य गमिष्यामो हरेः पदम् ।। २२ ।।


इति श्रुत्वा द्विजाः सर्वे नैमिषारण्यवासिनः ।।
अष्टाशीतिसहस्राणि गतास्ते तुहिनाचलम् ।। २३।।


विशालायां समासाद्य विष्णुगाथां प्रचक्षिरे ।।
इति व्यासेन कथितं वाक्यं कलिविशारदम् ।।
श्रोतारं स मनः कृत्वा भविष्यं समुदीरयत् ।। २४ ।।


               ।। व्यास उवाच ।। 
मनः शृणु ततो गाथां भावी सूतेन वर्णिताम् ।।
कलेर्युगस्य पूर्णां तां तच्छ्रुत्वा तृप्तिमावह ।। २५ ।। 


                ।। सूत उवाच ।।
षोडशाब्दसहस्रे च शेषे तद्द्वापरे युगे ।।
बहुकीर्तिमती भूमिरार्यदेशस्य कीर्तिता ।।२६।।


क्वचिद्विप्राः स्मृता भूपाः क्वचिद्राजन्यवंशजाः ।।
क्वचिद्वैश्याः क्वचिच्छूद्राः कुत्रचिद्वर्णसंकराः।।२७।।


द्विशताष्टसहस्रे द्वे शेषे तु द्वापरे युगे ।।
म्लेच्छदेशस्य याभूमिर्भविता कीर्तिमालिनी ।। २८ ।।

                      (हब्बा  वर्णन)
इन्द्रियाणि दमित्वा यो ह्यात्मध्यानपरायणः ।।
तस्मादादमनामासौ पत्नी हव्यवती स्मृता ।। २९ ।।


प्रदाननगरस्यैव पूर्वभागे महावनम् ।।
ईश्वरेण कृतं रम्यं चतुःक्रोशायतं स्मृतम् ।। 3.1.4.३०।।


पापवृक्षतले गत्वा पत्नीदर्शनतत्परः ।।
कलिस्तत्रागतस्तूर्णं सर्परूपं हि तत्कृतम्।। ३१ ।।


वंचिता तेन धूर्तेन विष्ण्वाज्ञा भंगतां गता ।।
खादित्वा तत्फलं रम्यं लोकमार्गप्रदं पतिः ।।३२ ।।


उदुंबरस्य पत्रैश्च ताभ्यां वाय्वशनं कृतम् ।।
सुताः पुत्रास्ततो जाताः सर्वे म्लेच्छा बभूविरे ।।३३ ।।


त्रिंशोत्तरं नवशतं तस्यायुः परिकीर्तितम् ।।
फलानां हवनं कुर्वन्पत्न्या सह दिवं गतः ।। ३४ ।।


तस्माज्जातः सुतः श्रेष्ठः श्वेतनामेति विश्रुतः ।।
द्वादशोत्तरवर्षं च तस्यायुः परिकीर्तितम् ।। ३५ ।।


अनुहस्तस्य तनयः शतहीनं कृतं पदम् ।।
कीनाशस्तस्य तनयः पितामहसमं पदम् ।। ३६ ।।


महल्ललस्तस्य सुतः पंचहीनं शतं नव ।।
तेन राज्यं कृतं तत्र तस्मान्मानगरं स्मृतम् ।। ३७ ।।


तस्माच्च विरदो जातो राज्यं षष्ट्युत्तरं समाः ।।
ज्ञेयं नवशतं तस्य स्वनाम्ना नगरं कृतम् ।। ३८ ।।


हनूकस्तस्य तनयो विष्णु भक्तिपरायणः ।।
फलानां हवनं कुर्वंस्तत्त्वं ह्यसि जयन्सदा।।३९।।


त्रिशतं पंचषष्टिश्च राज्यं वर्षाणि तत्स्मृतम् ।।
सदेहः स्वर्गमायातो म्लेच्छधर्मपरायणः।।3.1.4.४०।।


आचारश्च विवेकश्च द्विजता देवपूजनम्।।
कृतान्येतानि तेनैव तस्मान्म्लेच्छः स्मृतो बुधैः ।।४१।।


विष्णुभक्त्यग्निपूजा च ह्यहिंसा च तपो दमः ।।
धर्माण्येतानि मुनिभिर्म्लेच्छानां हि स्मृतानि वै ।। ४२ ।।


मतोच्छिलस्तस्य सुतो हनुकस्यैव भार्गव।।
राज्यं नवशतं तस्य सप्ततिश्च स्मृताः समाः ।।४३।।


लोमकस्तस्य तनयो राज्यं सप्तशतं समाः ।।
सप्तसप्ततिरेवास्य तत्पश्चात्स्वर्गतिं गतः ।।४४।।


तस्माज्जातः सुतो (न्यूहो) निर्गतस्तूह एव सः ।।
तस्मान्न्यूहः स्मृतः प्राज्ञै राज्यं पंचशतं कृतम् ।। ४५ ।।


सीमः शमश्च भावश्च त्रयः पुत्रा बभूविरे ।।
न्यूहः स्मृतो विष्णुभक्तस्सोऽहं ध्यानपरायणः।।४६।।


एकदा भगवान्विष्णुस्तत्स्वप्ने तु समागतः ।। ४७ ।।


वत्स न्यूह शृणुष्वेदं प्रलयः सप्तमेऽहनि ।।
भविता त्वं जनैस्सार्धं नावमारुह्य सत्वरम् ।। ४८ ।।


जीवनं कुरु भक्तेषु सर्वश्रेष्ठो भविष्यसि ।।
तथेति मत्वा स मुनिर्नावं कृत्वा सुपुष्टिताम् ।। ४९ ।।


हस्तत्रिशतलम्बां च पंचाशद्धस्तविस्तृताम् ।।
त्रिंशद्धस्तोच्छ्रितां रम्यां सर्वजीवसमन्विताम् ।3.1.4.५० 


आरुह्य स्वकुलैस्सार्द्धं विष्णुध्यानपरोऽभवत् ।।
सांवर्तको मेघगणो महेंद्रेण समन्वितः ।। ५१ ।।


चत्वारिंशद्दिनान्येव महावृष्टिमकारयत् ।।
सर्वं तु भारतं वर्षं जलैः प्लाव्य तु सिंधवः ।। ५२ ।।


 चत्वारो मिलिताः सर्वे विशालायां न चागताः ।।
अष्टाशीतिसहस्राणि मुनयो ब्रह्मवादिनः ।। ५३ ।।


न्यूहश्च स्वकुलैस्सार्धं शेषास्सर्वे विनाशिताः ।।
तदा च मुनयस्सर्वे विष्णुमायां प्रतुष्टुवुः ।। ५४ ।।


                  ।। मुनय ऊचुः ।।
नमो देव्यै महाकाल्यै देवक्यै च नमोनमः ।।
महालक्ष्म्यै विष्णुमात्रे राधा देव्यै नमोनमः ।। ५५ ।।


रेवत्यै पुष्पवत्यै च स्वर्णवत्यै नमोनमः ।।
कामाक्षायै च मायायै नमो मात्रे नमोनमः ।। ५६ ।।


महावातप्रभावेन महा मेघरवेण च ।।
जलधाराभिरुग्राभिर्भयं जातं हि दारुणम् ।।५७।।


तस्माद्भयाद्भैरवि त्वमस्मान्संरक्ष किंकरान् ।।
तदा प्रसन्ना सा देवी जलं शांत तया कृतम् ।। ५८ ।।


अब्दांतरे मही सर्वा स्थली भूत्वा प्रदृश्यते ।।
आराच्च शिषिणा नाम हिमाद्रेस्तटभूमयः ।। ५९ ।।


न्यूहस्तत्र स्थितो नावमारुह्य स्वकुलैस्सह ।।
जलांते भूमिमागत्य तत्र वासं करोति सः ।। 3.1.4.६० ।।

____________________________________


इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये द्वापरनृपोपाख्यानं नाम चतुर्थोऽध्यायः ।। ४ ।।



भविष्यपुराणम् /पर्व 3 (प्रतिसर्गपर्व)/खण्डः 1/अध्यायः5 < भविष्यपुराणम् ‎ | पर्व ३ (प्रतिसर्गपर्व)/खण्डः १

             (कलियुगभूपाख्यानवर्णनम्)

                 ।। शौनक उवाच ।।
सांप्रतं वर्तते यो वै प्रलयांते मुनीश्वर ।।
दिव्यदृष्टिप्रभावेन ज्ञातं ब्रूहि ततः परम् ।। १ ।।


                ।। सूत उवाच ।।
न्यूहो नाम स्मृतो म्लेच्छो विष्णुमोहं तदाकरोत् ।।
तदा प्रसन्नो भगवांस्तस्य वंशः प्रवर्द्धितः ।।२।।


म्लेच्छभाषा कृता तेन वेदवाक्यपराङ्मुखा ।।
कलेश्च वृद्धये ब्राह्मीं भाषां कृत्वाऽपशब्दगाम् ।।.३ ।।


न्यूहाय दत्तवान्देवो बुद्धीशो बुद्धिगः स्वयम् ।।
विलोमं च कृतं नाम न्यूहेन त्रिसुतस्य वै ।। ४ ।।


सिमश्च हामश्च तथा याकूतो नाम विश्रुतः ।।
याकूतः सप्तपुत्रश्च जुम्रो माजूज एव सः ।।५।।


मादी तथा च यूनानस्तूवलोमसकस्तथा ।।
तीरासश्च तथा तेषां नामभिर्देश उच्यते ।।६।।


जुम्रा दश कनाब्जश्च रिफतश्च तजर्रुमः ।।
तन्नाम्ना च स्मृता देशा यूनाद्या ये सुताः स्मृताः।। ७ ।।


इलीशस्तरलीशश्च कित्तीहूदानिरुच्यते ।।
चतुर्भिर्नामभिर्देशास्तेषां तेषां प्रचक्रिरे ।। ८ ।।


द्वितीयतनयाद्धामात्सुताश्चत्वार एव ते ।।
कुशो मिश्रश्च कूजश्च कनआंस्तत्र नामभिः ।। ९ ।।


देशाः प्रसिद्धा म्लेच्छानां कुशात्षट्तनयाः स्मृताः ।।
स वा चैव हवीलश्च सर्वतोरगमस्तथा ।। 3.1.5.१० ।।


तथा सवतिका नाम निमरूहो महाबलः ।।
तेषां पुत्राश्च कलनः सिंनारोरक उच्यते ।। ११ ।।


अक्कदो वावुनश्चैव रसनादेशकाश्च ते ।।
श्रावयित्वा मुनीन्सूतो योगनिद्रावशं गतः ।। १२ ।।


द्विसहस्रे शताब्दान्ते बुद्ध्वा पुनरथाब्रवीत ।।
सिमवंशं प्रवक्ष्यामि सिमो ज्येष्ठः स भूपतिः ।। १३ ।।


राज्यं पंचशतं वर्षं तेन म्लेच्छेन सत्कृतम् ।।
अर्कन्सदस्तस्य सुतश्चतुस्त्रिंशच्च राज्यकम् ।। १४ ।।


चतुश्शतं पुनर्ज्ञेयं सिंहस्तत्तनयोऽभवत् ।।
राज्यं तस्य स्मृतं तत्र षष्ट्युत्तर चतुः शतम् ।। १५ ।।


इव्रतस्य सुतो ज्ञेयः पितुस्तुल्यं कृतं पदम् ।।
फलजस्तस्य तनयश्चत्वारिंशद्द्वयं शतम् ।। १६ ।।


राज्यं कृतं तु तस्माच्च रऊ नाम सुतः स्मृतः ।।
सप्तत्रिंशच्च द्विशतं तस्य राज्यं प्रकीर्तितम् ।। १७ ।।


तस्माच्च जूज उत्पन्नः पितुस्तुल्यं कृतं पदम् ।।
नहूरस्तस्य तनयो वयः षष्ट्युत्तरं शतम् ।।
राज्यं चकार नृपतिर्बहुशत्रून्विहिंसयन् ।। १८ ।।


ताहरस्तस्य तनयः पितुस्तुल्यं कृतं पदम् ।।
तस्मात्पुत्रोऽविरामश्च नहूरो हारनस्त्रयः ।। १९।।


एवं तेषां स्मृता वंशा नाममात्रेण कीर्तिताः ।।
सरस्वत्याश्च शापेन म्लेच्छभाषा महाधमाः ।।3.1.5.२०।


तेषां वृद्धिः कलौ चासीत्संक्षेपेण प्रकीर्तिता ।।
संस्कृतस्यैव वाणी तु भारतं वर्षमूह्यताम् ।। २१ ।।


अन्यखंडे गता सैव म्लेच्छा ह्यानंदिनोऽभवन् ।।
एवं ते विप्र कथितं विष्णुभक्तद्विजैस्सह ।। २२ ।। ।।


                ।। व्यास उवाच ।। 
तच्छ्रुत्वा मुनयस्सर्वे विशालायां निवासिनः ।।
नरं नारायणं देवं संपूज्य विनयान्विताः ।।२३।।


ध्यानं चक्रुर्मुदा युक्ता द्विशतं परिवत्सरान् ।।
तत्पश्चाद्बोधितास्सर्वे शौनकाद्या मुनीश्वराः ।। २४ ।।


संध्यातर्पणदेवार्चाः कृत्वा ध्यात्वा जनार्द्दनम् ।।
लोमहर्षणमासीनं पप्रच्छुर्विनयान्विताः ।। २५ ।।


व्यासशिष्य महाभाग चिरं जीव महामते ।।
सांप्रतं वर्तते यो वै राजा तन्मे वद प्रभो ।। २६ ।।


               ।।सूत उवाच ।। 
त्रिसहस्राब्दसंप्राप्ते कलौ भार्गवनंदन ।।
आवन्ते शंखनामाऽसौ सांप्रतं वर्तते नृपः ।।२७।।


म्लेच्छदेशे शकपतिरथ राज्यं करोति वै ।।
शृणु तत्कारणं सर्वे यथा यस्य विवर्धनम् ।। २८ ।।


द्विसहस्रे कलौ प्राप्ते म्लेच्छवंशविवर्द्धिता ।।
भूमिर्म्लेच्छमयी सर्वा नानापथविवर्द्धिता।।२९।।


ब्रह्मावर्तमृते तत्र सरस्वत्यास्तटं शुभम् ।।(°¶•)
म्लेच्छाचार्यश्च मूशाख्यस्तन्मतैः पूरितं जगत् ।। 3.1.5.३० ।।


देवार्चनं वेदभाषा नष्टा प्राप्ते कलौ युगे ।।
तल्लक्षणं शृणु मुने म्लेच्छभाषाश्चतुर्विधाः ।। ३१।।


व्रजभाषा महाराष्ट्री यावनी च गुरुंडिका ।।(°¶•)
तासां चतुर्लक्षविधा भाषाश्चान्यास्तथैव च ।।३२।।


पानीयं च स्मृतं पानी बुभुक्षा भूख उच्यते ।।
पानीयं पापडी भाषा भोजनं कक्कनं स्मृतम् ।।३३।।


इष्टिशुद्धरवः प्रोक्त इस्तिनी मसपावनी
आहुतिर्वै आजु इति ददाति च दधाति च ।। ३४ ।।


पितृपैतरभ्राता च बादरः पतिरेव च ।।
सेति सा यावनी भाषा ह्यश्वश्चास्पस्तथा पुनः।।३५।।

 _____________________________________
जानुस्थाने जैनुशब्दः सप्तसिंधुस्तथैव च ।।(°¶•)
सप्तहिन्दुर्यावनी च पुनर्ज्ञेया गुरुंडिका ।। ३६ ।।


रविवारे च संडे च फाल्गुने चैव फर्वरी ।।(°¶•)
षष्टिश्च सिक्सटी ज्ञेया तदुदाहारमीदृशम् ।।३७।।


या पवित्रा सप्तपुरी तासु हिंसा प्रवर्तते ।।
दस्यवः शबरा भिल्ला मूर्खा आर्ये स्थिता नराः।। ३८ ।।


म्लेच्छदेशे बुद्धिमतो नरा वै म्लेच्छधर्मिणः ।।
म्लेच्छाधीना गुणाः सर्वेऽवगुणा आर्यदेशके ।। ३९ ।।


म्लेच्छराज्यं भारते च तद्द्वीपेषु स्मृतं तथा ।।
एवं ज्ञात्वा मुनिश्रेष्ठ हरिं भज महामते ।। 3.1.5.४० ।।


तच्छ्रुत्वा मुनयः सर्वे रोदनं चक्रिरे बहु ।। ४१ ।।

_____________________________________


इति श्रीभविष्ये महापुराणे प्रतिसर्गं पर्वणि चतुर्युगखंडापरपर्याये कलियुगभूपवर्णनंनाम पंचमोऽध्यायः ।। ५ ।।


भविष्यपुराणम् /पर्व 3 (प्रतिसर्गपर्व)/खण्डः 1/अध्यायः 06 < भविष्यपुराणम् ‎ | पर्व ३ (प्रतिसर्गपर्व)/खण्डः १

            (कलियुगभूपाख्यानवर्णनम्)

               ।। शौनक उवाच ।। 
ब्रह्मावर्ते कथं म्लेच्छा न प्राप्ताः कारणं वद।।
सूतः प्राह शृणुष्वेदं सरस्वत्याः प्रभावतः ।।१।।


म्लेच्छाः प्राप्ता न तत्स्थाने काश्यपो नाम वै द्विजः ।।
कलौ प्राप्ते सहस्राब्दे स्वर्गात्प्राप्तः सुराज्ञया ।। २ ।।


आर्यावती च तत्पत्नी दश पुत्रानकल्मषान् ।।
काश्यपात्सा लब्धवती तेषां नामानि मे शृणु ।। ३ ।।


उपाध्यायो दीक्षितश्च पाठकः शुक्लमिश्रकौ ।। (°¶•)
अग्निहोत्री द्विवेदी च त्रिवेदी पाण्ड्य एव च ।। ४ ।।


चतुर्वेदीति कथिता नामतुल्यगुणाः स्मृताः ।। 
(°¶•)
तेषां मध्ये काश्यपश्च सर्वज्ञानमसमन्वितः ।। ५ ।।


काश्मीरे प्राप्तवान्सोऽपि जगदम्बां सरस्वतीम् ।।
तुष्टाव पूजनं कृत्वा रक्तपुष्पैस्त्वथाक्षतैः ।। ६ ।।


धूपैर्दीपैश्च नैवेद्यैः पुष्पांजलिसमन्वितः।।७।


             ।। काश्यप उवाच ।। 
मातः शंकरदयिते मयि ते करुणा कुतो नास्ति।।
भोऽसि त्वं जगदंबा जगतः किं मां बहिर्न यसि ।।८।।


देवि त्वं सुरहेतोर्धर्मद्रोहिणमाशु हंसि मातः ।।
उत्तमसंस्कृतभाषां त्वं कुरु म्लेच्छांश्च मोहयेः शीघ्रम् |९ ।।


अंब त्वं बहुरूपा हुंकारा द्धूम्रलोचनं हसि ।।
भीमं दुर्गा दैत्यं हत्वा जगतां सुखं नयसि ।।3.1.6.१० ।।


दंभं मोहं घोरं गर्वं हत्वा सदा सुखं शेषे ।।
बोधय मातर्जगतो दुष्टान्नष्टान्कुरु त्वं वै ।।
तदा प्रसन्ना सा देवी भो मुनेस्तस्य मानसे ।। ११ ।।


वासं कृत्वा ददौ ज्ञानं मिश्रदेशे मुनिर्गतः ।।
सर्वान्म्लेच्छान्मोहयित्वा कृत्वाथ तान्द्विजन्मनः।।१२।

 
संख्यादशसहस्रं च नरवृन्दं द्विजन्मनाम् ।।
द्विसहस्रं स्मृता वैश्याः शेषाः शूद्रसुताः स्मृताः ।।१३ ।।


तैः सार्द्धमार्यदेशे स सरस्वत्याः प्रसादतः ।।
अवसद्वै मुनिश्रेष्ठो मुनिकार्यरतः सदा ।। १४ ।।


तेषामार्यसमूहानां देव्याश्च वरदानतः ।।
वृद्धिर्भवति बहुला चतुष्कोटिनराः स्त्रियः ।। १५ ।।


तेषां पुत्राश्च पौत्राश्च तद्भूपः काश्यपो मुनिः ।।
विंशोत्तरशतं वर्षं तस्य राज्यं प्रकीर्तितम् ।। १६ ।।


राज्यपुत्राख्यदेशे च शूद्राश्चाष्टसहस्रकाः ।।
तेषां भूपश्चार्यपृथुस्तस्माज्जातस्स मागधः ।। १७ ।।


मागधं नाम तत्पुत्रमभिषिच्य ययौ मुनिः ।।
इति श्रुत्वा भृगुश्रेष्ठः शौनको हर्षमागतः ।। १८ ।।


सूतं पौराणिकं नत्वा विष्णुध्यानपरोऽभवत् ।।
पुनश्च श्रुतिवर्षान्ते बोधिता मुनयस्तथा ।। १९।।


नित्यनैमित्तिकं कृत्वा पप्रच्छुरिदमादरात् ।।
लोमहर्षण मे ब्रूहि के राजानश्च मागधात् ।।
कलौ राज्यं कृतं यैस्तु व्यासशिष्य वदस्व नः ।।3.1.6.२०।।


                 ।। सूत उवाच ।। 
मागधो मागधे देशे प्राप्तवान्काश्यपात्मजः।।२१।।
पितृराज्यं स्मृतं तेन त्वार्यदेशः पृथक्कृतः।।
पाञ्चालात्पूर्वतो देशो मागधः परिकीर्तितः ।। २२ ।।


आग्नेय्यां च कलिंगश्च तथावन्तस्तु दक्षिणे ।।
आनर्तदेशा नैर्ऋत्यां सिंधुदेशस्तु पश्चिमे ।। २१ ।।


वायव्यां कैकयो देशो मद्रदेशस्तथोत्तरे ।।
ईशाने चैव कोणिन्दश्चार्यदेशश्च तत्कृतः ।।२४।।


देशनाम्ना तस्य सुता मगधस्य महात्मनः ।।
तेभ्योंशानि प्रदत्तानि तत्पश्चात्क्रतुमुद्वहन् ।।२५।।


बलभद्रस्तदा तुष्टो यज्ञभावेन भावितः ।।
शिशुनागः क्रतोर्जातो बलभद्रांशसंभवः ।।२६।।


शतवर्षं कृतं राज्यं काकवर्मा सुतोऽभवत् ।।
तद्राज्यं नवतिवर्षं क्षेमधर्मा ततोऽभवत् ।। २७ ।।


अशीतिवर्षं राज्यं तत्क्षेत्रौजास्तत्सुतोऽभवत् ।।
दशहीनं कृतं राज्यं वेदमिश्रस्ततोऽभवत् ।। २८ ।।


दशहीनं कृतं राज्यं ततोऽजातरिपुस्सुतः ।।
दशहीनं कृतं राज्यं दर्भकस्तनयोऽभवत् ।। २९ ।।


दशहीनं कृतं राज्यमुदयाश्वस्ततोऽभवत् ।।
दशहीनं कृतं राज्यं नंदवर्धन एव तत् ।। 3.1.6.३० ।।


दशहीनं कृतं राज्यं तस्मान्नंदसुतोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं शूद्रीगर्भसमुद्भवः ।। ३१ ।।


नन्दाज्जातः प्रनन्दश्च दशवर्षं कृतं पदम् ।।(°¶•)
तस्माजातः परानन्दः पितुस्तुल्यं कृतं पदम् ।। ३२ ।।


तस्माज्जातस्समानंदो विंशद्वर्षं कृतं पदम् ।।
तस्माजातः प्रियानंदः पितुस्तुल्यं कृतं पदम् ।। ३३ ।।


देवानंदस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।।
यज्ञभंगः सुतस्तस्मात्पितुरर्द्धं कृतं पदम् ।। ३४।।


मौर्यानंदस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।।(°¶•)
महानन्दस्ततो जातः पितुस्तुल्यं कृतं पदम् ।। ३५ ।।


एतस्मिन्नेव काले तु कलिना संस्मृतो हरिः ।।
काश्यपादुद्भवो देवो गौतमो नाम विश्रुतः ।। ३६ ।।


बौद्धधर्मं च संस्कत्य पट्टणे प्राप्तवान्हरिः ।।(°¶•)
दशवर्षं कृतं राज्यं तस्माच्छाक्यमुनिः स्मृतः ।। ३७ ।।


विंशद्वर्षं कृतं राज्यं तस्माच्छुद्धोदनोऽभवत् ।।
त्रिंशद्वर्षं कृतं राज्यं शाक्य सिंहस्ततोऽभवत् ।।३८।।


शताद्रौ द्विसहस्रेऽब्दे व्यतीते सोऽभवन्नृपः ।।
कलेः प्रथमचरणे वेदमार्गो विनाशितः ।। ३९ ।।


षष्टिवर्षं कृतं राज्यं सर्वबौद्धा नराः स्मृताः।।
नरेषु विष्णुर्नृपतिर्यथा राजा तथा प्रजाः।।3.1.6.४०।।


विष्णोर्वीर्यानुसारेण जगद्धर्मः प्रवर्त्तते ।।
तस्मिन्हरौ ये शरणं प्राप्ता मायापतौ नराः ।। ४१ ।।


अपि पापसमाचारा मोक्षवंतः प्रकीर्तिताः ।।(°¶•)
शक्यसिंहाद्बुद्धसिंहः पितुरर्थं कृतं पदम् ।। ४२ ।।


चंद्रगुप्तस्तस्य सुतः पौरसा धिपतेः सुताम् ।।(°¶•)
सुलूवस्य तथोद्वाह्य यावनीबौद्धतत्परः ।। ४३ ।।


षष्टिवर्षं कृतं राज्यं बिंदुसारस्ततोऽभवत् ।।
पितृस्तुल्य कृतं राज्यमशोकस्तनयोऽभवत् ।।४४।।


एतस्मिन्नेव काले तु कान्यकुब्जो द्विजोत्तमः ।।
अर्बुदं शिखरं प्राप्य ब्रह्महोममथाकरोत् ।।४५।।


वेदमंत्रप्रभावाच्च जाताश्चत्वारि क्षत्रियाः ।।
प्रमरस्सामवेदी च चपहानिर्यजुर्विदः।।४६।।


त्रिवेदी च तथा शुक्लोथर्वा स परिहारकः ।।
ऐरावतकुले जातान्गजानारुह्य ते पृथक् ।।४७।।


अशोकं स्ववशं चकुस्सर्वे बौद्धा विनाशिताः ।।(°¶•)
चतुर्लक्षाः स्मृता बौद्धाः दिव्यशस्त्रैः प्रहारिताः ।। ४८ ।।


अवन्ते प्रमरो भूपश्चतुर्योजनविस्तृताम् ।।(°¶•)
अम्बावतीं नाम पुरीमध्यास्य सुखितोऽभवत् ।। ४९ ।।

_____________________________________
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगभूपवर्णनो पाख्याने षष्ठोध्यायः ।। ६ ।।

भविष्यपुराणम् /पर्व 3 (प्रतिसर्गपर्व)/खण्डः 1/अध्यायः ०7< भविष्यपुराणम् ‎ | पर्व ३ (प्रतिसर्गपर्व)/खण्डः १

                ।। सूत उवाच ।। 
चित्रकूटगिरेर्देशे परिहारो महीपतिः ।।(°¶•)
कलिंजरपुरं रम्यमक्रोशायतनं स्मृतम् ।। १ ।।


अध्यास्य बौद्धहंता स सुखितोभवदूर्जितः ।।(°¶•)
राजपुत्राख्यदेशे च चपहानिर्महीपतिः ।। २ ।।


अजमेरपुरं रम्यं विधिशोभासमन्वितम् ।।(°¶•)
चातुर्वर्ण्ययुतं दिव्यमध्यास्य सुखितोऽभवत् ।। ३ ।।


शुक्लो नाम महीपालो गत आनर्तऽमंडले ।।
द्वारकां नाम नगरीमध्यास्य सुखितोऽभवत् ।। ४ ।।


             ।। शौनक उवाच ।।
तेषामग्न्युद्भवानां च ये भूपा राज्यसत्कृताः ।।
तान्मे ब्रूहि महाभाग सूतो वाक्यमथाब्रवीत् ।। ५ ।।


गच्छध्वं ब्राह्मणाः सर्वे योगनिद्रावशो ह्यहम् ।।
तच्छुत्वा मुनयः सर्वे विष्णोर्ध्यानं प्रचक्रिरे ।। ६ ।।


पूर्णे द्वे च सहस्रान्ते सूतो वचनमब्रवीत् ।।
सप्तत्रिंशशते वर्षे दशाब्दे चाधिके कलौ ।। ७ ।।


प्रमरो नाम भूपालः कृतं राज्यं च षट्समाः।।(°¶•)
महामदस्ततो जातः पितुरर्धं कृतं पदम् ।।८।।


देवापिस्तनयस्तस्य पितु स्तुल्यं कृतं पदम् ।।
देवदूतस्तस्य सुतः पितुस्तुल्यं स्मृतं पदम् ।। ९ ।।


तस्माद्गंधर्वसेनश्च पंचाशदब्दभूपदम् ।।
कृत्वा च स्वसुतं शंखमभिषिच्य वनं गतः ।।3.1.7.१०।।


शंखेन तत्पदं प्राप्तं राज्यं त्रिंशत्समाः कृतम् ।।
देवांगना वीरमती शक्रेण प्रेषिता तदा ।। ११ ।।


गंधर्वसेनं संप्राप्य पुत्ररत्नमजीजनत् ।।
सुतस्य जन्मकाले तु नभसः पुष्पवृष्टयः ।। १२ ।।


पेतुर्दुंदुभयो नेदुर्वांति वाताः सुखप्रदाः ।।
शिवदृष्टिर्द्विजो नाम शिष्यैस्सार्द्धं वनं गतः ।।१३।


              ( विक्रमादित्य वर्णन )
विंशद्भिः कर्मयोगं च समाराध्य शिवोऽभवत् ।।
पूर्णे त्रिंशच्छते वर्षे कलौ प्राप्ते भयंकरे ।। १४ ।।


शकानां च विनाशार्थमार्यधर्मविवृद्धये ।।(°¶•)
जातश्शिवाज्ञया सोऽपि कैलासाद्गुह्यकालयात् ।। १५।।


विक्रमादित्यनामानं पिता कृत्वा मुमोद ह ।।
(°¶•)
स बालोऽपि महाप्राज्ञः पितृ मातृप्रियंकरः ।। १६ ।।


पञ्चवर्षे वयःप्राप्ते तपसोऽर्थे वनं गतः ।।
(°¶•)
द्वादशाब्दं प्रयत्नेन विक्रमेण कृतं तपः ।। १७ ।।


पश्चादम्बावतीं दिव्यां पुरीं यातः श्रियान्वितः ।।
दिव्यं सिंहासनं रम्यं द्वात्रिंशन्मूर्तिसंयुतम् ।। १८ ।।


शिवेन प्रेषितं तस्मै सोपि तत्पदमग्रहीत् ।।(°¶•)
वैतालस्तस्य रक्षार्थं पार्वत्या निर्मितो गतः ।। १९ ।।


एकदा स नृपो वीरो महाकालेशश्वरस्थलम् ।।
गत्वा सम्पूजयामास देवदेवं पिनाकिनम् ।। 3.1.7.२०
।।


सभा धर्ममयी तत्र निर्मिता व्यूहविस्तरा ।।
नानाधातुकृतस्तम्भा नानामणिविभूषिता ।।२१।।


नानाद्रुमलताकीर्णा पुष्पवल्लीभिरन्विता ।।
तत्र सिंहासनं दिव्यं स्था पितं तेन शौनक ।। २२ ।।


आहूय ब्राह्मणान्मुख्यान्वेदवेदांगपारगान् ।।
पूजयित्वा विधानेन धर्मगाथामथाऽशृणोत् ।। २३ ।।


एतस्मिन्नन्तरे तत्र वैतालो नाम देवता ।।
स कृत्वा ब्राह्मणं रूप जयाशीर्भिः प्रशस्य तम् ।। २४ ।।


उपविश्यासने विप्रो राजानमिदमब्रवीत् ।।
यदि ते श्रवणे श्रद्धा विक्रमादित्यभूपते ।। २५ ।।


वर्णयामि महाख्यानमितिहाससमुच्चयम् ।। २६ ।।

__________________________________
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापर पर्याये कलियुगसंभूतरविशशिवंशभूपवर्णनं नामसप्तमोऽध्यायः ।। ७।।

इति प्रथमखंडः संपूर्णः ।। १ ।।


__________________________________________

भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ०१ < भविष्यपुराणम् ‎ | पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३

                ।। ऋषयः ऊचुः ।। 
भगवन्विक्रमाख्यानकालोऽयं भवतोदितः ।।
शतद्वादशमर्यादो द्वापरस्य समो भुवि ।। ।। १ ।।


अस्मिन्काले महाभाग लीला भगवता कृता ।।
तामेतां कथयास्मान्वै सर्वज्ञोऽस्ति भवान्सदा ।। २ ।।


                 ।। सूत उवाच ।।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।। ३ ।।


भविष्याख्ये महाकल्पे प्राप्ते वैवस्वतेन्तरे ।।
अष्टाविंशद्द्वापरान्ते कुरुक्षेत्रे रणोऽभवत् ।। ४ ।।


पांडवैर्निर्जिताः सर्वे कौरवाः युद्धदुर्मदाः ।।
अष्टादशे च दिवसे पांडवानां जयोऽभवत् ।। ५ ।।


दिनान्ते भग वान्कृष्णो ज्ञात्वा कालस्य दुर्गतिम् ।।
शिवं तुष्टाव मनसा योगरूपं सनातनम् ।। ६ ।।


                ।। कृष्ण उवाच ।। 
नमः शांताय रुद्राय भूते शाय कपर्दिने।।
कालकर्त्रे जगद्भर्त्रे पापहर्त्रे नमोनमः ।। ७ ।।


पांडवान्रक्ष भगवन्मद्भक्तान्भूतभीरुकान् ।।
इति श्रुत्वा स्तवं रुद्रो नंदियानोपरिस्थितः ।।
रक्षार्थं शिबिराणां च प्राप्तवाञ्छूलहस्तधृक् ।। ८ ।।


तदा नृपाज्ञया कृष्णः स गतो गजसाह्वयम् ।।
पांडवाः पंच निर्गत्य सरस्वत्या स्तटेऽवसन् ।। ९ ।।


निशीथे द्रौणिभोजौ च कृपस्तत्र समाययुः ।।
तुष्टुवुर्मनसा रुद्रं तेभ्यो मार्गं शिवोददात् ।। 3.3.1.१० ।।


अश्वत्थामा तु बलवाञ्छिवदत्तमसिं तदा ।।
गृहीत्वा स जघानाशु धृष्टद्युम्नपुरःसरान् ।। ११ ।।


हत्वा यथेष्टमगमद्द्रौणिस्ताभ्यां समन्वितः ।। १२ ।।


पार्षतस्यैव सूतश्च हतशेषो भयातुरः ।।
पांडवान्वर्णयामास यथा जातो जनक्षयः ।। १३ ।।


आगस्कृतं शिवं ज्ञात्वा भीमाद्याः क्रोधमूर्च्छिताः ।।
स्वायुधैस्ता डयामास देवदेवं पिनाकिनम् ।। १४ ।।


अस्त्रशस्त्राणि तेषां तु शिवदेहे समाविशन् ।।
दृष्ट्वा ते विस्मिताः सर्वे प्रजघ्नुस्तलमुष्टिभिः ।। १५।।


ताञ्छशाप तदा रुद्रो यूयं कृष्णप्रपूजकाः ।।
अतोऽस्माभी रक्षिणीया वधयोग्याश्च वै भुवि ।। १६ ।।


पुनर्जन्म कलौ प्राप्य भोक्ष्यते चापराधकम् ।।
इत्युक्त्वान्तर्दधे देवः पांडवा दुःखितास्तदा ।। १७ ।।


हरिं शरणमाजग्मुरपराधनिवृत्तये ।।
तदा कृष्णयुताः सर्वे पांडवाः शस्त्रवर्जिताः ।। १८ ।।


तुष्टुवुर्मनसा रुद्रं तदा प्रादुरभूच्छिवः ।।
वरं वरयत प्राह कृष्णः श्रुत्वाब्रवीदिदम् ।। १९ ।।


शस्त्राण्यस्त्राणि यान्येव त्वदंगे क्षपितानि वै।।
पांडवेभ्यश्च देहि त्वं शापस्यानुग्रहं कुरु ।। 3.3.1.२०।।


इति श्रुत्वा शिवः प्राह कृष्णदेव नमोऽस्तु ते ।।
अपराधो न मे स्वामिन्मोहितोऽहं तवाज्ञया ।। २१ ।।


तद्वशेन मया स्वामिन्दत्तः शापो भयंकरः ।।
नान्यथा वचनं मे स्यादंशावतरणं भवेत् ।। २२ ।।


                   (मलखान वर्णन )
वत्सराजस्य पुत्रत्वं गमिष्यति युधिष्ठिरः ।।

बलखानिरिति ख्यातः शिरीषाख्यपुराधिपः ।। २३ ।।


भीमो दुर्वचनाद्दुष्टो म्लेच्छयोनौ भविष्यति ।।
वीरणो नाम विख्यातः स वै वनरसाधिपः ।। २४ ।।


अर्जुनांशश्च मद्भक्तो जनिष्यति महामतिः ।।
पुत्रः परिमलस्यैव ब्रह्मानन्द इति स्मृतः।।२५।।


कान्यकुब्जे हि नकुलो भविष्यति महाबलः।।
रत्नभानुसुतो सौ वै लक्ष्मणो नाम विश्रुतः।।२६।।


सहदेवस्तु वलवाञ्जनिष्यति महामतिः।।
भीष्मसिंह सुतो जातो देवसिंह इति स्मृतः ।।२७।।


धृतराष्ट्रांश एवासौ जनिष्यत्यजमेरके ।।
पृथिवीराज इति स द्रोपदी तत्सुता स्मृता ।।२८।।


वेला नाम्ना च विख्याता तारकः कर्ण एव हि ।।
रक्तबीजस्तथा रुद्रो भविष्यति महीतले ।।२९।।


कौरवाश्च भविष्यन्ति मायायुद्धविशारदाः।।
पांडुपक्षाश्च ते सर्वे धर्मिणो बलशालिनः ।।3.3.1.३०।।


                 ।। सूत उवाच ।।
इति श्रुत्वा हरिः प्राह विहस्य परमेश्वरम् ।।
मया शक्त्यवतारेण रक्षणीया हि पांडवाः ।।३१।।


महावती पुरी रम्या मायादेवीविनिर्मिता ।।
देशराजसुतस्तत्र ममांशो हि जनिष्यते ।। ३२ ।।


देवकीजठरे जन्मोदयसिंह इति स्मृतः ।।
आह्लादो मम धामांशो जनिष्यति गुरुर्मम ।।३३ ।।


हत्वाग्निवंशजान्भूपान्स्थापयिष्यामि वै कलिम् ।।
इति श्रुत्वा शिवो देवस्तत्रैवांतरधीयत ।। ३४ ।।


इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये विक्रमाख्यानकाले प्रथमोऽध्यायः ।। १ ।।

भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ०२< भविष्यपुराणम् ‎ | पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३

                  ।। सूत उवाच ।।
प्रातः काले च संप्राप्ते पांडवाः पुत्रशोकिनः ।।
प्रेतकार्याणि ते कृत्वा भीष्मान्तिकमुपाययुः ।। १ ।।


राजधर्मान्मोक्षधर्मान्दानधर्मान्विभागशः ।।
श्रुत्वायजन्नश्वमेधैस्त्रिभिरुत्तमकर्मभिः ।।२।।


षट्त्रिंशदब्दराज्यं हि कृत्वा स्वर्गपुरं ययुः ।।
जनिष्यन्ते तदंशा वै कलिधर्म विवृद्धये ।। ३ ।।


                ।। व्यास उवाच ।। 
इत्युक्त्वा स मुनिः सर्वान्पुनः सूतो वदिष्यति ।।
गच्छध्वं मुनयः सर्वे योगनिद्रावशो ह्यहम् ।।
चक्रतीर्थे समाधिस्थो ध्यायेऽहं त्रिगुणात्परम् ।। ४ ।।


इति श्रुत्वा तु मुनयो नैमिषारण्यवासिनः ।।
योगसिद्धिं समास्थाय गमिष्यंत्यात्मनोन्तिके ।। ५ ।।


द्वादशाब्दशते कालेऽतीते ते शौनकादयः ।। ६ ।।


उत्थाय देवखाते च स्नानध्यानादिकाः क्रियाः ।।
कृत्वा सूतान्तिकं गत्वा वदिष्यंति पुनर्वचः ।। ७ ।।


                ।। ऋषय ऊचुः ।। 
विक्रमाख्यानकालोऽयं द्वापरे च शिवाज्ञया ।।(°¶•)
विनीतान्भगवन्भूमौ तदा तान्नृपतीन्वद ।। ८ ।।


               ।। सूत उवाच ।।
स्वर्गते विक्रमादित्ये राजानो बहुधाऽभवन् ।।(°¶•)
तथाष्टादश राज्यानि तेषां नामानि मे शृणु ।। ९ ।।


पश्चिमे सिंधुनद्यंते सेतुबन्धे हि दक्षिणे ।।
उत्तरे बदरीस्थाने पूर्वे च कपिलान्तिके ।।3.3.2.१ ०।।


अष्टादशैव राष्ट्राणि तेषां मध्ये बभूविरे ।।
इंद्रप्रस्थं च पांचालं कुरु क्षेत्रं च कापिलम् ।। ११ ।।


अन्तर्वेदी व्रजथ्यैवाजमेरं मरुधन्व च ।।
गौर्ज्जरं च महाराष्ट्रं द्राविडं च कलिंगकम् ।।१२।।


आवंत्यं चोडुपं वंगं गौडं मागधमेव च ।।
कौशल्यं च तथा ज्ञेयं तेषां राजा पृथक्पृक् ।।१३।।


नानाभाषाः स्थितास्तत्र बहुधर्मप्रवर्तकाः ।।
एवमब्दशतं जातं ततस्ते वै शकादयः ।।१४।।


श्रुत्वा धर्मविनाशं च बहुवृंदैः समन्विताः ।।
केचित्तीर्त्वा सिंधुनदीमार्य्यदेशं समागताः ।। १५ ।।


हिमपर्वतमार्गेण सिंधुमार्गेण चागमन् ।।
जित्वार्य्याल्लाँठयित्वा तान्स्वदेशं पुनराययुः ।। १६ ।।


गृहीत्वा योषितस्तेषां परं हर्षमुपाययुः ।।(°¶•)
एतस्मिन्नन्तरे तत्र शालिवाहनभूपतिः ।। १७ ।।


विक्रमादित्यपौत्रश्च पितृराज्यं गृहीतवान् ।।(°¶•)
जित्वा शकान्दुराधर्षांश्चीनतैत्तिरिदेशजान् ।। १८ ।।


बाह्लीकान्कामरूपांश्च रोमजान्खुरजाच्छठान् ।।
तेषां कोशान्गृहीत्वा च दंडयोग्यानकारयत् ।। १९ ।।


स्थापिता तेन मर्य्यादा म्लेच्छार्याणां पृथक्पृथक् ।।
सिंधुस्थानमिति ज्ञेयं राष्ट्र मार्य्यस्य चोत्तमम् ।।3.3.2.२०।।


म्लेच्छस्थानं परं सिन्धोः कृतं तेन महात्मना ।।(°¶•)
एकदा तु शकाधीशो हिमतुंगं समाययौ ।। २१ ।।


हूणदेशस्य मध्ये वै गिरिस्थं पुरुषं शुभम् ।।(°¶•)
ददर्श बलवान्राजा गौरांगं श्वेतवस्त्रकम् ।। २२ ।।


को भवानिति तं प्राह स होवाच मुदान्वितः ।।(°¶•)
ईशपुत्रं च मां विद्धि कुमारीगर्भसंभवम् ।। २३ ।।


म्लेच्छधर्मस्य वक्तारं सत्यव्रतपरायणम् ।।
इति श्रुत्वा नृपः प्राह धर्मः को भवतो मतः ।। २४ ।।


श्रुत्वोवाच महाराज प्राप्ते सत्यस्य संक्षये ।।(°¶•)
निर्मर्यादे म्लेच्छदेशे मसीहोऽहं समागतः ।। २५ ।।


ईशामसी च दस्यूनां प्रादुर्भूता भयंकरी ।।(°¶•)
तामहं म्लेच्छतः प्राप्य मसीहत्वमुपागतः ।। २६ ।।


म्लेच्छेषु स्थापितो धर्मो मया तच्छृणु भूपते ।।
मानसं निर्मलं कृत्वा मलं देहे शुभाशुभम् ।।२७।


नैगमं जपमास्थाय जपेत निर्मलं परम्।।
न्यायेन सत्यवचसा मनसैक्येन मानवः ।। २८ ।।


ध्यानेन पूजयेदीशं सूर्यमंडलसंस्थितम् ।
अचलोऽयं प्रभुः साक्षात्तथा सूर्योचलः सदा ।। २९ ।।


तत्त्वानां चलभूतानां कर्षणः स समंततः ।।(°¶•)
इति कृत्येन भूपाल मसीहा विलयं गता ।। 3.3.2.३० ।।


ईशमूर्तिर्हृदि प्राप्ता नित्यशुद्धा शिवंकरी ।।(°¶•)
ईशामसीह इति च मम नाम प्रतिष्ठितम् ।। ३१ ।।


इति श्रुत्वा स भूपालो नत्वा तं म्लेच्छपूजकम्।।
स्थापयामास त तत्र म्लेच्छस्थाने हि दारुणे ।। ३२ ।।


स्वराज्यं प्राप्तवान्राजा हयमेधमचीकरत् ।।
राज्यं कृत्वा स षष्ट्यब्दं स्वर्गलोकमुपाययौ।।
स्वर्गते नृपतौ तस्मिन्यथा चासीत्तथा शृणु ।। ३४ ।।

________________________________
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये शालिवाहनकाले द्वितीयोऽध्यायः।।२।।

भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ०३ < भविष्यपुराणम् ‎ | पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३


                   ||श्रीसूत उवाच।। 
शालिवाहनवंशे च राजानो दश चाभवन्।।(°¶•)
राज्यं पंचशताब्दं च कृत्वा लोकान्तरं ययुः।। १।।


मर्य्यादा क्रमतो लीना जाता भूमंडले तदा।।(°¶•)
भूपतिर्दशमो यो वै भोजराज इति स्मृतः ।।
दृष्ट्वा प्रक्षीणमर्य्यादां बली दिग्विजयं ययौ ।। २ ।।


सेनया दशसाहस्र्या कालिदासेन संयुतः ।।(°¶•)
तथान्यैर्ब्राह्मणैः सार्द्धं सिंधुपारमुपाययौ ।। ३ ।।


जित्वा गांधारजान्म्लेच्छान्काश्मीरान्नारवाञ्छठान् ।।
तेषां प्राप्य महाकोशं दंडयोग्यानकारयत् ।।४।।


           ( मोहम्मद साहब का वर्णन)
एतस्मिन्नन्तरे म्लेच्छ आचार्य्येण समन्वितः।।(°¶•)
महामद इति ख्यातः शिष्यशाखासमन्वितः।।५।।


नृपश्चैव महादेवं मरुस्थलनिवासिनम्।।
गंगाजलैश्च संस्नाप्य पंचगव्यसमन्वितैः।।
चंदनादिभिरभ्यर्च्य तुष्टाव मनसा हरम्।।६।।


            ||भोजराज उवाच।।
नमस्ते गिरिजानाथ मरुस्थलनिवासिने ।।
त्रिपुरासुरनाशाय वहुमायाप्रवर्त्तिने ।। ७ ।।


म्लेच्छैर्गुप्ताय शुद्धाय सच्चिदानन्दरूपिणे ।।
त्वं मां हि किंकरं विद्धि शरणार्थमुपागतम्।।८ ।।


               ।। सूत उवाच ।। 
इति श्रुत्वा स्तवं देवः शब्दमाह नृपाय तम् ।।
गंतव्यं भोजराजेन महाकालेश्वरस्थले ।। ९ ।।


म्लेच्छैस्सुदूषिता भूमिर्वाहीका नाम विश्रुता ।।
आर्य्यधर्मो हि नैवात्र वाहीके देशदारुणे ।। 3.3.3.१० ।।


बभूवात्र महामायी योऽसौ दग्धो मया पुरा।।
त्रिपुरो बलिदैत्येन प्रेषितः पुनरागतः ।। ११ ।।


अयोनिः स वरो मत्तः प्राप्तवान्दैत्यवर्द्धनः ।।(°¶•)
महामद इति ख्यातः पैशाचकृतितत्परः ।। १२ ।।


नागन्तव्यं त्वया भूप पैशाचे देशधूर्तके ।।(°¶•)
मत्प्रसादेन भूपाल तव शुद्धिः प्रजायते ।। १३ ।।


इति श्रुत्वा नृपश्चैव स्वदेशान्पुनरागमत्।।(°¶•)
महामदश्च तैः सार्द्धं सिंधुतीरमुपाययौ ।। १४ ।।


उवाच भूपतिं प्रेम्णा मायामदविशारदः ।।
तव देवो महाराज मम दासत्वमागतः ।। १५ ।।


ममोच्छिष्ठं सभुंजीयाद्यथा तत्पश्य भो नृप ।।
इति श्रुत्वा तथा दृष्ट्वा परं विस्मयमागतः ।। १६ ।।


म्लेच्छधर्मे मतिश्चासीत्तस्य भूपस्य दारुणे।।१७।।


तच्छ्रुत्वा कालिदासस्तु रुषा प्राह महामदम् ।।
माया ते निर्मिता धूर्त नृपमोहनहेतवे ।। १८ ।।


हनिष्यामि दुराचारं वाहीकं पुरुषाधमम् ।।।
इत्युक्त्वा स द्विजः श्रीमान्नवार्णजपतत्परः ।। १९ ।।


जप्त्वा दशसहस्रं च तद्दशांशं जुहाव सः ।।
भस्म भूत्वा स मायावी म्लेच्छदेवत्वमागतः।।3.3.3.२०।।।


भयभीतास्तु तच्छिष्या देशं वाहीकमाययुः ।।
गृहीत्वा स्वगुरोर्भस्म मदहीनत्वमागतम् ।। २१ ।।


स्थापितं तैश्च भूमध्ये तत्रोषुर्मदतत्पराः ।।।
मदहीनं पुरं जातं तेषां तीर्थं समं स्मृतम् ।। २२ ।।


रात्रौ स देवरूपश्च बहुमायाविशारदः ।।
पैशाचं देहमास्थाय भोजराजं हि सोऽब्रवीत्।।२३।।


आर्य्यधर्मो हि ते राजन्सर्वधर्मोत्तमः स्मृतः।।
ईशाज्ञया करिष्यामि पैशाचं धर्मदारुणम् ।। २४ ।।

                 ( ख़तना का वर्णन)
लिंगच्छेदी शिखाहीनः श्मश्रुधारी स दूषकः ।।(°¶•)
उच्चालापी सर्वभक्षी भविष्यति जनो मम ।। २५ ।।


विना कौलं च पशवस्तेषां भक्ष्या मता मम ।।(°¶•)
मुसलेनैव संस्कारः कुशैरिव भविष्यति ।। २६ ।।

  (भविष्य पुराण में मुसलमानों का वर्णन)


तस्मान्मुसलवन्तो हि जातयो धर्मदूषकाः ।।(°¶•)
इति पैशाचधर्मश्च भविष्यति मया कृतः ।। २७ ।


इत्युक्त्वा प्रययौ देवः स राजा गेहमाययौ ।।
त्रिवर्णे स्थापिता वाणी सांस्कृती स्वर्गदायिनी ।। २८ ।।


शूद्रेषु प्राकृती भाषा स्थापिता तेन धीमता ।।
पंचाशदब्दकालं तु राज्यं कृत्वा दिवं गतः ।। २९ ।।


स्थापिता तेन मर्य्यादा सर्वदेवोपमानिनी ।।
आर्य्यावर्तः पुण्यभूमिर्मध्यं विंध्यहिमालयोः ।3.3.3.३० ।


आर्य्य वर्णाः स्थितास्तत्र विंध्यान्ते वर्णसंकराः ।।
नरा मुसलवन्तश्च स्थापिताः सिंधुपारजाः ।। ३१ ।।


बर्बरे तुषारदेशे च द्वीपे नानाविधे तथा ।।
ईशामसीहधर्म्माश्च सुरै राज्ञैव संस्थिताः ।। ३२ ।।

_________________________
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये तृती योऽध्यायः ।। ३ ।।

भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ०४

भविष्यपुराणम् ‎ | पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३

                ।। सूत उवाच ।।
स्वर्गते भोजराजे तु सप्तभूपास्तदन्वये ।।(°¶•)
जाताश्चाल्पायुषो मन्दास्त्रिशताब्दान्तरे मृताः ।। १ ।।


बहुभूपवती भूमिस्तेषां राज्ये बभूव ह ।।(°¶•)
वीरसिंहश्च यो भूपः सप्तमः संप्रकीर्तितः ।। २ ।।


तदन्वये त्रिभूपाश्च द्विशताब्दान्तरे मृताः ।।(°¶•)
गंगासिंहश्च यो भूपो दशमः स प्रकीर्तितः ।। ३ ।।


कल्पक्षेत्रे च राज्यं स्वं कृतवान्धर्मतो नृपः ।।(°¶•)
अन्तर्वेद्यां कान्यकुब्जे जयचन्द्रो महीपतिः ।। ४ ।।


इंद्रप्रस्थेनंगपालस्तोमरान्वयसंभवः ।।(°¶•)
अन्ये च बहवो भूपा बभूवुर्ग्रामराष्ट्रपाः ।। ५ ।।


अग्निवंशस्य विस्तारो बभूव बलवत्तरः ।।(°¶•)
पूर्वे तु कपिल स्थाने वाहीकान्ते तु पश्चिमे ।। ६ ।।


उत्तरे चीनदेशान्ते सेतुबंधे तु दक्षिणे ।।
षष्टिलक्षाश्च भूपाला ग्रामपा बलवत्तराः ।। ७ ।।


अग्निहोत्रस्य कर्तारो गोब्राह्मणहितैषिणः ।।
बभूवुर्द्वापरसमा धर्मकृत्यविशारदाः ।।८।।


द्वापराख्यसमः कालः सर्वत्र परिवर्तते ।।
गेहेगेहे स्थितं द्रव्यं धर्मश्चैव जनेजने ।।९।।


ग्रामेग्रामे स्थितो देवो देशेदेशे स्थितो मखः ।।
आर्यधर्मकरा म्लेच्छा बभूवुः सर्वतोमुखाः ।।3.3.4.१०।।


इति दृष्ट्वा कलिर्घोरो म्लेच्छया सह भीरुकः ।।
नीलाद्रौ प्राप्य मतिमान्हरिं शरणमाययौ ।।११।।


द्वादशाब्दमिते काले ध्यानयोगपरोऽभवत्।।
ध्यानेन सच्चिदानंदं दृष्ट्वा कृष्णं सनातनम्।।१२।।


तुष्टाव मनसा तत्र राधया सहितं हरिम् ।।
पुराणमजरं नित्यं वृंदावननिवासिनम् ।।१३।।


              ।। कलिरुवाच ।। ।।
साष्टांगं दंडवत्स्वामिन्गृहाण मम चेश्वर ।।
पाहि मां शरणं प्राप्तं चरणे ते कृपानिधे ।। १४ ।।


सर्वपापहरस्त्वं वै सर्वकालकरो हरिः ।।
भवान्गौरः सत्ययुगे त्रेतायां रक्तरूपकः ।। १५ ।।


द्वापरे पीतरूपश्च कृष्णत्वं मम दिष्टके ।।
मत्पुत्राश्च स्मृता म्लेच्छा आर्य्यधर्मत्वमागताः।। १६ ।।


चतुर्गेहं च मे स्वामिन्द्यूतं मद्यं सुवर्ण कम् ।।(°¶•)
स्त्री हास्यं चाग्निवंश्यैश्च क्षत्रियैश्च विनाशितम्।१७ ।।


त्यक्तदेहस्त्यक्तकुलस्त्यक्तराष्ट्रो जनार्दन ।।
त्वत्पादांबुजमाधाय स्थितोऽहं शरणं त्वयि ।।१८।।


इति श्रुत्वा स भगवान्कृष्णः प्राह विहस्य तम् ।।
भो कले तव रक्षार्थं जनिष्येहं महावतीम् ।।१९।।


ममांशो भूमिमासाद्य क्षयिष्यति महाबलान् ।।
म्लेच्छवंशस्यभूपालान्स्थापयिष्यतिभूतले।।3.3.4.२०।।

____________________________________
इत्युक्त्वा भगवान्साक्षात्तत्रैवान्तरधीयत ।।(°¶•)
कलिस्तु म्लेच्छया सार्धं परमानंदमाप्तवान् ।। २१ ।।


एतस्मिन्नन्तरे विप्र यथा जातं शृणुष्व तत् ।।
(°¶•)
आभीरी वाक्सरे ग्रामे व्रतपा नाम विश्रुता ।। २२ ।।


नवदुर्गाव्रतं श्रेष्ठं? नववर्षं चकार ह ।।
प्रसन्ना चंडिका प्राह वरं वरय शोभने ।। २३ ।।


साह तां यदि मे मातर्वरो देयस्त्वयेश्वरि ।।
रामकृष्णसमौ बालौ भवेयाः ममान्वये ।। २४ ।।


तथेत्युक्त्वा तु सा देवी तत्रैवान्तरधीयत ।।
वसुमान्नाम नृपतिस्तस्या रूपेण मोहितः ।। २५ ।।


उद्वाह्य धर्मतो भूपः स्वगेहे तामवासयत् ।।
तस्यां जातौ नृपात्पुत्रौ देशराजस्तु तद्वरः ।। २६ ।।


आवार्यो वत्सराजश्च शतहस्तिसमो बले ।।(°¶•)
जित्वा तौ मागधान्देशान्राज्य वंतौ बभूवतुः ।। २७ ।।


शतयत्तः स्मृतो म्लेच्छः शूरो वनरसाधिपः ।।
तत्पुत्रो भीमसेनांशो वीरणोभूच्छिवाज्ञया ।। २८ ।।


तालवृक्षप्रमाणेन .चोर्ध्ववेगो हि तस्य वै ।।
तालनो नाम विख्यातः शतयत्तेन वै कृतः ।। २९ ।।


ताभ्यां नृपाभ्यां तद्युद्धमभवल्लोमहर्षणम् ।।
युद्धेन हीनतां प्राप्तस्तालनो बलवत्तरः ।। 3.3.4.३० ।।


तदा मैत्री कृता ताभ्यां तालनेन समन्विता ।।(°¶•)
जयचंद्रपरीक्षार्थे त्रयः शूराः समाययुः ।। ३१ ।।


इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहासमुच्चये चतुर्थोऽध्यायः ।। ४ ।।

                  ।। सूत उवाच ।।
इंद्रप्रस्थेऽनंगपालोनपत्यश्च महीपतिः ।।(°¶•)
पुत्रार्थं कारयामास शैवं यज्ञं विधानतः ।। १ ।।


कन्यके च तदा जाते शिवभागप्रसादतः ।।
चंद्रकांतिश्च ज्येष्ठा वै द्वितीया कीर्तिमालिनी ।। २ ।।


कान्यकुब्जाधिपायैव चंद्रकान्तिं पिताददत् ।।
देवपालाय शुद्धाय राष्ट्रपालान्वयाय च ।। ३ ।।


सोमेश्वराय भूपाय चपहानिकुलाय तु ।(°¶•)
अजमेराधिपायैव तथा वै कीर्तिमालिनीम् ।। ४ ।।


जयशर्मा द्विजः कश्चित्समाधिस्थो हिमालये ।।
दृष्ट्वा भूपोत्सवं रम्यं राज्यार्थे स्वमनोऽदधत् ।। ५ ।।


त्यक्त्वा देहं सशुद्धात्मा चंद्रकांत्याःसुतोभवत्।।(°¶•)
जयचंद्र इति ख्यातो बाहुशाली जितेन्द्रियः ।।

रत्नभानुश्च संजज्ञे शूरस्तस्यानुजो बली ।। ६ ।।


स जित्वा गौडवंगादीन्मरुदेशान्मदोत्कटान् ।।
दंड्यान्कृत्वा गृहं प्राप्य भ्रात्राज्ञा तत्परोऽभवत् ।।७।।


गंगासिंहस्य भगिनी नाम्ना वीरवती शुभा ।।
रत्नभानोश्च महिषी बभूव वरवर्णिनी ।। ८ ।।


नकुलांशस्तदा भूमौ तस्यां जातः शिवाज्ञया ।।
लक्षणो नाम बलवान्खड्गयुद्धविशारदः ।।
स सप्ताब्दान्तरे प्राप्ते पितुस्तुल्यो बभूव ह ।। ९ ।।


त्रयश्च कीर्तिमालिन्यां पुत्रा जाता मदोत्कटाः ।।
धुंधकारश्च प्रथमस्ततः कृष्णकुमारकः ।।
पृथिवीराज एवासौ ततोनुज इति स्मृतः।3.3.5.१०।


द्वादशाब्दवयः प्राप्तः सिंहखेलस्ततोऽभवत् ।।
श्रुत्वा चानंगपालश्च तस्मै राज्यं स्वयं ददौ ।।
गत्वा हिमेगिरिं रम्यं योगध्यानपरोभवत् ।। ११ ।।


मथुरायां धुंधकारोऽजमेरे च ततोनुजः ।।
राजा बभूव नीतिज्ञस्तौ सुतौ पितुराज्ञया ।। १२ ।।


प्रद्योतश्चैव विद्योतः क्षत्रियौ चद्रवंशजौ ।।
मंत्रिणौ तस्य भूपस्य बलवंतौ मदोत्कटौ ।। १३ ।।


प्रद्योततनयो जातो नाम्ना परिमलो बली ।।
लक्षसेनाधिपः सो हि तेन राज्ञैव संस्कृतः ।। १४ ।।


विद्योताद्भीष्मसिंहश्च गजसेनाधिपोऽभवत् ।।(°¶•)
स्वर्गतेऽनंगपाले तु भूमिराजो महीपतिः ।। १५ ।।


दृष्ट्वा तान्विप्रियान्सर्वान्निजराज्यान्निराकरोत् ।।(°¶•)
प्रद्योताद्याश्च चत्वारः स्वशूरैर्द्विशतैर्युताः ।। १६ ।।


कान्यकुब्जपुरं प्राप्य जयचंद्रमवर्णयन् ।।(°¶•)
जयचंद्र महीपाल त्वन्मातृष्वसृजो नृपः ।। १७ ।।


मातामहस्य ते राज्यं प्राप्तवान्निर्भयो बली ।।
न्यायेन कथितोऽस्माभिरर्द्धराज्यं हि ते स्मृतम् ।। १८ ।।


सर्वराज्यं कथं भुंक्षे श्रुत्वा तेन निराकृताः ।।
भवन्तं शरणं प्राप्ता यथायोग्यं तथा कुरु ।। १९ ।।


इति श्रुत्वा महीपालो जयचंद्र उवाच तान् ।।
अश्वसैन्ये मदीये चाधिकारी ते सुतो भवेत्।।3.3.5.२०।
नाम्ना परिमलः शूरस्त्वं मन्मंत्री भवाधुना ।।(°¶•)
विद्योतश्च तथा मंत्री गजसैन्ये हि भीमकः ।। २१ ।।


वृत्त्यर्थे च मया वो वै पुरी दत्ता महावती ।।
महीपतेश्च भूपस्य नगरी सा प्रियंकरी।।२२।।


इति श्रुत्वा तु ते सर्वे तथा मत्वा मुमोदिरे ।
महीपतिस्तु बलवान्दुःखात्संत्यज्य तां पुरीम्।।२३।।


कृत्वौर्वीयां पुरीमन्यां तत्र वासमकारयत् ।।
अगमा मलना चैव भगिन्यौ तस्य चोत्तमे ।। २४ ।।


अगमा भूमिराजाय चान्या परिमलाय सा ।।
दत्ता भ्रात्रा विधानेन परमानंदमापतुः ।। २५ ।।


विवाहांते च भूराजा दुर्गमन्यमकारयत् ।।
कृत्वा च नगरीं रम्यां चतुर्वर्णनिवासिनीम् ।। २६ ।।


देहली सुमूहूर्तेन दुर्ग द्वारे सुरोपिता ।।(°¶•)
गता सा योजनान्ते वै वृद्धिरूपा सुकालतः ।। २७ ।।


विस्मितः स नृपो भूत्वा देहली नाम चाकरोत् ।।(°¶•)
देहलीग्राम इति च प्रसिद्धोऽभून्नृपाज्ञया ।। २८ ।।


त्रिवर्षांते च भो विप्रा जयचन्द्रो महीपतिः ।।
लक्षषोडशसैन्याढ्यस्तत्र पत्रमचोदयत् ।। २९ ।।


किमर्थं पृथिवीराज मद्दायं मे न दत्तवान् ।।
मातामहस्य वै दायं चार्द्धं मे च समर्पय ।। 3.3.5.३०।।


नो चेन्मच्छस्त्रकठिनैः क्षयं यास्यंति सैनिकाः ।।
इति ज्ञात्वा महीराजो विंशल्लक्षाधिपो बली ।। ३१ ।।


दूतं वै प्रेषयामास राजराजो मदोत्कटः ।।
जयचंद्र महीपाल सावधानं शृणुष्व तत् ।। ३२ ।।


यदा निराकृता धूर्ता मया ते चंद्रवंशिनः ।।
ततः प्रभृति सेनाङ्गं विंशल्लक्षं समाहृतम्।।३३।।


त्वया षोडशलक्षं च युद्धसैन्यं समाहृतम् ।।
सर्वे वै भारते भूपा दंडयोग्याश्च मे सदा ।।३४।।


भवान्न दंड्यो बलवान्करं मे दातुमर्हति ।।
नो चेन्मत्कठिनैर्बाणैः क्षयं यास्यंति सैनिकाः ।।३५।।


इति ज्ञात्वा तयोर्घोरं वैरं चासीन्महीतले ।।
भूमिराजश्च वलवाञ्जयचन्द्रभयार्दितः ।।३६।।


जयचंद्रश्च बलवान्पृथिवीराजभीरुकः ।।
जयचन्द्रश्चार्यदेशमर्द्धराष्ट्रममकल्पयत्।।३७।।


पृथिवीराज एवासौ तथार्द्धं राष्ट्रमानयत् ।।(°¶•)
एवं जातं तयोर्वैरमग्निवंशप्रणाशनम् ।।३८।।

__________________________
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युग खंडापरपर्याये कलियुगीयेतिहाससमुच्चये पंचमोऽध्यायः ।।५।।

भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ०६

भविष्यपुराणम् ‎ | पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३

                ।। सूत उवाच ।। 
एकदा रत्नभानुर्हि महीराजेन पालिताम् ।।(°¶•)
दिशं याम्यां स वै जित्वा तेषां कोशानुपाहरत् ।।१।।


महीराजस्तु तच्छुत्वा परं विस्मयमागतः ।।(°¶•)
रत्नभानोश्च तिलको बभूव बहुविस्तरः ।।२।।


तिलका नाम विख्याता या तु वीरवती शुभा ।।(°¶•)
श्रेष्ठा द्वादशराज्ञीनां जननी लक्षणस्य वै ।। ३ ।।


जयचंद्रस्य भूपस्य योषितः षोडशाभवन् ।।(°¶•)
तासां न तनयो ह्यासीत्पूर्वकर्मविपाकतः ।। ४ ।।


गौडभूपस्य दुहिता नाम्ना दिव्यविभावरी ।।
जयचंद्रस्य महिषी तद्दासी सुरभानवी ।। ५ ।।


रूपयौवन संयुक्ता रतिकेलिविशारदा ।।
दृष्ट्वा तां स नृपः कामी बुभुजे स्मरपीडितः ।।६।।


तस्यां जाता सुता देवी नाम्ना संयोगिनी शुभा ।।
द्वादशाब्दवयः प्राप्ता सा बभूव वरांगना ।। ७ ।।

____________चन्द्रबरदायी)___________
तस्याः स्वयंवरे राजाह्वयद्भूपान्महाशुभान् ।।
भूमिराजस्तु बलवाञ्छ्रुत्वा तद्रूपमुत्तमम् ।। ।।
विवाहार्थे मनश्चासीच्चंद्रभट्टमचोदयत् ।।
मंत्रिप्रवर भो मित्र चंद्रभट्ट मम प्रिय ।। ९ ।।


कान्यकुब्जपुरीं प्राप्य मन्मूर्तिं स्वर्णनिर्मिताम्।। ।।
स्थापय त्वं सभामध्ये यद्वृत्तांतं तु मे वद ।। 3.3.6.१० ।।


इति श्रुत्वा चंद्रभट्टो भवानीभक्तितत्परः ।।
गत्वा तत्र भृगुश्रेष्ठ यथा प्रोक्तस्तथाकरोत् ।। ११ ।।


स्वयंवरे च भूपाश्च नानादेश्याः समागताः ।।
त्यक्त्वा संयोगिनी तान्वै नृपमूर्तिविमोहिता ।। १२ ।।


पितरं प्राह कामाक्षी यस्य मूर्तिरियं नृप ।।
भविष्यति स मे भर्ता सर्वलक्षणलक्षितः ।। १३ ।।


जयचंद्रस्तु तच्छ्रुत्वा चंद्रभद्रमुवाच तम् ।।
यदि ते भूपतिश्चैव सर्वसैन्यसमन्वितः ।। १४ ।।


सञ्जयेद्योगिनीमेतां तर्हि मेऽतिप्रियो भवेत् ।।
चंद्रभट्टस्तु तच्छ्रुत्वा तत्तु सर्वमवर्णयत् ।। १५ ।।


पृथिवीराज एवासौ श्रुत्वा सैन्यमचोदयत् ।।
एकलक्षा गजास्तस्य सप्तलक्षास्तुरंगमाः ।।१६ ।।


रथाः पंचसहस्राश्च धनुर्बाणविशारदाः ।।
लक्षाः पदातयो ज्ञेया द्वादशैव महाबलाः ।। १७ ।।


राजानस्त्रिशतान्येव महीराजपदानुगाः ।।
सार्द्धं द्वाभ्यां च बन्धुभ्यां कान्यकुब्जे नृपोऽगमत्।।१८ ।।


धुन्धुकारश्च तद्बन्धुर्गजानीकपतिस्सदा ।।(°¶•)
हयानीकपतिः कृष्ण कुमारो बलवत्तरः ।। १९ ।।


पदातीनां नृपतयः पतयस्तत्र चाभवन् ।।
महान्कोलाहलो जातः स्थलीं शून्यामकारयन् ।। 3.3.6.२०।।


विंशत्कोशप्रमाणेन स्थितं तस्य महाबलम् ।।
जयचंद्रस्तु संज्ञाय महीराजस्य चागमम् ।। २१ ।।


स्वसैन्यं कल्पयामास लक्षषोडशसंमितम् ।।
एकलक्षा गजास्तस्य सप्तलक्षाः पदातयः ।। २२ ।।


वाजिनश्चाष्टलक्षाश्च सर्वयुद्धविशारदाः ।।
द्विशतान्येव राजानः प्राप्तास्तत्र समागमे ।। २३।।


आगस्कृतं महीराजं मत्वा ते शुक्लवंशिनः ।।
युद्धार्थिनः स्थितास्तत्र पुरमागस्कृतं ह्यभूत् ।। २४।।


ईशनद्याः परे कूले तद्दोला स्थपिता तदा ।।(°¶•)
नाना वाद्यानि रम्याणि तत्र चक्रुर्महारवम् ।। २५ ।।


रत्नभानुर्गजानीके रूपानीके हि लक्षणः ।।
तस्यां सेनापतिभ्यां तौ संगुप्तौ बलवत्तरौ ।। २६ ।।


प्रद्योतश्चैव विद्योतो रत्नभानुं ररक्षतुः ।।
भीष्मः परिमलश्चैव लक्षणं चंद्रवंशजः ।। २७ ।।


भूपाः पदातिसैन्ये च संस्थिता मदविह्वलाः ।।
तयोश्चासीन्महद्युद्धं दारुणं सैन्यसंक्षयम् ।। २८ ।।


हया हयैर्मृता जाता गजाश्चैव गजैस्तथा ।।
पदातयः पदातैश्च मृताश्चान्ये क्रमाद्रणे ।। २९ ।।


भूपैश्च रक्षिताः सर्वे निर्भया रणमाययुः ।।
यावत्सूर्यः स्थितो व्योम्नि तावद्युद्धमवर्तत।।3.3.6.३०।


एवं पंचदिनं जातं युद्धं वीरजनक्षयम् ।।
गजा दशसहस्रणि हया लक्षाणि संक्षिताः ।। ३१ ।।


पंचलक्षं महीभर्तुर्हतास्तत्र पदातयः ।।
राजानो द्वे शते तत्र रथाश्च त्रिशतं तथा ।।३२ ।।


कान्यकुब्जाधिपस्यैव गजा नवसहस्रकाः ।।
सहस्रैकं रथा ज्ञेयास्त्रिलक्षं च पदातयः ।। ३३ ।।


एकलक्षं हयास्तत्र मृताः स्वर्गपुरं ययुः ।।
षष्ठाहे समनुप्राप्ते पृथिवीराज एव सः ।।३४ ।।


दुःखितो मनसा देवं रुद्रं तुष्टाव भक्तिमान् ।।
संतुष्टस्तु महादेवो मोहयामास तद्बलम् ।।३५ ।।


प्रसन्नस्तु महीराजो गतः संयोगिनीं प्रति ।।
दृष्ट्वा तत्सुन्दरं रूपं मुमोह वसुधाधिपः ।। ३६ ।।


संयोगिनी नृपं दृष्ट्वा मूर्च्छिता चाभवत्क्षणात् ।।(°¶•)
एतस्मिन्नंतरे राजा तद्दोलामनयद्बलात्।। ३७।।


जगाम देहलीं भूपः सर्वसैन्यसमन्वितः ।।
योजनान्ते गते तस्मिन्बोधितास्ते मदोद्भटाः ।। ३८ ।।


दृष्ट्वा नैव तदा दोलां प्रजग्मुर्वेगवत्तराः ।।
श्रुत्वा कोलाहलं तेषां महीराजो नृपोत्तमः ।। ३९ ।।


अर्द्धसैन्यं च संस्थाप्य स्वयं गेहमुपागमत् ।।
उभौ तद्भ्रातरौ वीरौ चार्द्धसैन्यसमन्वितौ।।3.3.6.४०।।


सूकरक्षेत्रमासाद्य युद्धाय समुपस्थितौ ।।(°¶•)
एतस्मिन्नन्तरे सर्वे प्रद्योतादिमहाबलाः ।।४१।।


स्वसैन्यैः सह संप्राप्य महद्युद्धमकारयन्।।
हया हयैश्च संजग्मुर्गजा अथ गजैः सह ।।४२ ।।


संकुलश्च महानासीद्दारुणो लोमहर्षणः ।।
दिनान्ते संक्षयं यातं तयोश्चैव महद्बलम् ।। ४३ ।।


भयभीता परे तत्र ज्ञात्वा रात्रिं तमोवृताम् ।।
प्रदुद्रुवुर्भयाद्वीरा हतशेषास्तु देहलीम् ।।४४ ।।


प्रद्योताद्याश्च ते वीरा देहलीं प्रति संययुः ।।
पुनस्तयोर्महद्युद्धं ह्यभवल्लोमहर्षणम् ।। ४५।।


धुंधुकारश्च प्रद्योतं हृदि बाणैरताडयत् ।।
त्रिभिश्च विषनिर्धूतैर्मूछितः स ममार च ।। ४६ ।।


भ्रातरं निहतं दृष्ट्वा विद्योतश्च महावलः ।।
आजगाम गजारूढो धुंधुकारमताडयत् ।।४७ ।।


त्रिभिश्च तोमरैः सोऽपि मूर्छितो भूमिमागमत् ।।
मूर्छितं भ्रातरं दृष्ट्वा धुंधुकारं महाबलम् ।। ४८ ।।


तदा कृष्णकुमारोऽसौ गजस्थस्त्वरितो ययौ ।।
रूपाविष्टश्च तं वीरं भल्लेनैवमताड यत् ।। ।। ४९ ।।


भल्लेन तेन संभिन्नो मृतः स्वर्गपुरं ययौ ।।
विद्योते निहते तस्मित्सर्वसैन्यचमूपतौ ।। 3.3.6.५० ।।


रत्नाभानुर्महावीरोऽयुध्यत्तेन समन्वितः ।।
एतस्मिन्नंतरे राजा सहस्रगजसंयुतः ।। ५१ ।।


लक्षणं सहितं ताभ्यां क्रुद्धं तं समयुध्यत ।।
शिवदत्तवरो राजा भीष्मं परिमलं रुषा ।। ।। ५२ ।।


रुद्रास्त्रैर्मोहयामास लक्षणं बलवत्तरम् ।।
मूर्छितांस्तान्समालोक्य रत्नभानुः शरैर्निजैः ।। ५३ ।।


धुंधुकारं महीराजं वैष्णवैः सममोजयन् ।।
कृष्णको रत्नभानुश्च युयुधाते परस्परम् ।।५४।।


उभौ समबलौ वीरौ गजपृष्ठस्थितौ रणे ।।
अन्योन्यनिहतौ नागौ खङ्गहस्तौ मही तले ।। ५५ ।।


युयुधाते बहून्मार्गान्कृतवंतौ सुदुर्जयौ ।।
प्रहरान्तं रणं कृत्वा मरणायोपजग्मतुः ।। ५६ ।।


हते तस्मिन्महावीर्ये कान्यकुब्जा भयातुराः ।।
मूर्छितांस्त्रीन्समादाय पंचलक्षबलैर्युताः ।। ५७ ।।


रणं त्यक्त्वा गृहं जग्मुर्नृपशोकपरायणाः ।।
रत्नभानौ च निहते हतोत्साहाश्च भूमिपाः ।। ५८ ।।


स्वंस्वं निवेशनं जग्मुर्महीराजभयातुराः ।।
देवानाराधयामासुर्यथेष्टं ते गृहे गृहे ।। ५९ ।।


महीराजस्तु बलवान्सप्तलक्षबलान्वितः ।।
धुंधुकारेण सहितो वंधुकृत्योर्ध्वमाचरत् ।। 3.3.6.६०।।


तथा भीष्मः परिमलो लक्षणः पितरं स्वकम्।।
गंगाकूले समागम्य चौर्ध्वदैहिकमाचरन् ।। ६१ ।।


भूमिराजस्य विजयो जयचंदयशो रणे ।।
 प्रसिद्धमभवद्भूमौ गेहेगेहे जनेजने ।।६२।।


जयचंद्रः कान्यकुब्जे देहल्यां पृथिवीपतिः ।।
उत्सवं कारयित्वा तु परमानन्दमाययौ ।। ६३ ।।


इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये षष्ठोऽध्यायः ।। ६ ।।

भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ०७< भविष्यपुराणम् ‎ | पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३

                   ।। सूत उवाच ।।
भीष्मः सिंहस्थिते गंगाकूले शक्रप्रपूजकः ।।
शक्रं सूर्यमयं ज्ञात्वा तपसा समतोषयत् ।। १ ।।


मासांते भगवानिंद्रो ज्ञात्वा तद्भक्तिमुत्तमाम् ।।
वरं वरय च प्राह श्रुत्वा शूरोब्रवीदिदम् ।। २ ।।


देहि मे वडवां दिव्यां यदि तुष्टो भवान्प्रभुः ।।
इति श्रुत्वा तदा तस्मै वडवां हरिणीं शुभाम् ।। ३ ।।


ददौ स भगवानिंद्रस्तत्रैवान्तर्हितोभवत् ।। ४ ।।


तस्मिन्काले परिमलः पितृशोकपरायणः ।।
पार्थिवैः पूजयामास महादेवमुमापतिम् ।।
परीक्षार्थं शिवः साक्षात्सर्परोगेण तं ग्रसत् ।। ५ ।।


व्यतीते पंचमे मासे नृपः शक्तिविवर्जितः ।।
न तत्याज महापूजां महाक्लेशसमन्वितः ।। ६।


मरणाय ययौ काशीं स्वपत्न्या सहितो नृपः ।।
उवास वटमूलांते रात्रौ रोगप्रपीडितः ।। ७ ।।


एतस्मिन्नन्तरे कश्चित्पन्नगो मूलसंस्थितः ।।
शब्दं चकार मधुरं श्रुत्वा रुद्राहिराययौ ।। ८ ।।


रुद्राहिं पन्नगः प्राह भवान्निर्दय मन्दधीः ।।
शिवभक्तं नृपमिमं पीडयेत्प्रत्यहं खलः ।। ९ ।।


मूर्खोऽयं भूपतिः साक्षादारनालं पिबेन्नहि ।।
इति श्रुत्वा स रुद्राहिराह रे पन्नगाधम ।। 3.3.7.१० ।।


राज्ञो देहे परं हर्षं प्रत्यहं प्राप्तवानहम् ।।
स्वगेहं दुःखतस्त्याज्यं कथं त्याज्यं मया शठ ।। ११ ।।


मूर्खोत्र भूपतिर्यो वै तैलोष्णं यन्न दत्तवान् ।।
इत्युक्त्वान्तर्गतो देहे श्रुत्वा सा (मलना )सती ।। १२ ।।


चकार पन्नगोक्तं तद्गतरोगो नृपोऽभवत् ।।
तैलोष्णैर्बिलमापूर्य चखान च सती स्वयम् ।। १३ ।।


ततो जातं स्वयं लिंगमंगुष्ठाभं सनातनम् ।।
ज्योतीरूपं चिदानंदं सर्वलक्ष्मसमन्वितम् ।। १४ ।।


निशीथे तम उद्भूते दिक्षु सूर्यत्वमागतम् ।।
दृष्ट्वा स विस्मितो राजा पूजयामास शंकरम् ।। १५ ।।


महिम्नस्तवपाठैश्च तुष्टाव गिरिजापतिम् ।।
तदा प्रसन्नो भगवान्वरं ब्रूहि तमब्रवीत् ।। १६ ।।


श्रुत्वाह नृपतिर्देवं यदि तुष्टो महेश्वर ।।
श्रीपतिर्मे गृहं प्राप्य वसेन्मत्प्रियकारकः ।। १७ ।।


तथेत्युक्त्वा महादेवो लिंगरूपत्वमागतः ।।
प्रत्यहं भारमेकं च सुवर्णं सुषुवे तनोः ।। १८ ।।


तदा मलस्तु संतुष्टः प्राप्तो गेहं महावतीम् ।।
भीमसिंहेन सहितः परमानंदमाययौ ।। १९ ।।


ततःप्रभृति वर्षांते जयचंद्रपुरीं ययौ ।।
दृष्ट्वा परिमलं राजा कृतकृत्यत्वमागतः ।। 3.3.7.२० ।।


दिष्ट्या ते संक्षितो रोगो दिष्ट्या ते दर्शितं मुखम् ।।
भवान्निजपुरीं प्राप्य सुखी भवतु मा चिरम् ।। २१ ।।


यदा मे विघ्न आभूयात्तदा त्वं मां समाचर ।।
इति श्रुत्वा परिमलो गत्वा स्थानमवासयत् ।। २२ ।।


तदा तु लक्षणो वीरो भगवन्तमुषापतिम् ।।
जगन्नाथमुपागम्य समभ्यर्च्चापरोऽभवत् ।। २३ ।।


पक्षमात्रांतरे विष्णुर्जगन्नाथ उषापतिः ।।
वरं ब्रूहि वचश्चेति लक्षणं प्राह हर्षतः ।। २४ ।।


इत्युक्तः स तु तं देवं नत्वोवाच विनम्रधीः ।।
देहि मे वाहनं दिव्यं सर्वशत्रुविनाशनम् ।। २५ ।।


इति श्रुत्वा जगन्नाथः शक्तिमैरावताद्गजात् ।।
समुत्पाद्य ददौ तस्मै दिव्यामैरावतीं मुदा ।। २६ ।।


आरुह्यैरावतीं राजा लक्षणो गेहमाययौ ।।
स वै परिमलो राजा जगाम च महावतीम् ।। २७ ।।


एतस्मिन्नंतरे वीरास्तालनाद्या मदोत्कटाः ।।
महावतीं पुरीं प्राप्य ददृशुस्तं महीपतिम् ।। २८ ।।


तेन सार्द्धं च महतीं प्रीतिं कृत्वा न्यवासयन् ।।
मासान्ते च पुनस्ते वै राजानो विनयान्विताः ।। २९ ।।


ऊचुस्तं शृणु भूपाल वयं गच्छामहे पुरीः ।।
तदा राजापि तान्प्राह सर्वान्क्षितिपती नथ ।।
दत्त्वाधिकारं पुत्रेभ्यस्तदाऽऽयास्यामि वोऽन्तिकम् ।। 3.3.7.३० ।।


तथेत्युक्तास्तु ते राज्ञा स्वगेहं पुनराययुः ।।
सानुजो देशराजस्तु द्विजेभ्यः स्वपुरं ददौ ।।३१ ।।


पुत्रेभ्यस्तालनो वीरो ददौ वाराणसीं पुरीम् ।।
अलिकोल्लामतिः कालः पत्र पुष्पोदरी वरी ।। ३२ ।।


करीनरी सुललितस्तेषां नामानि वै क्रमात् ।।
द्वौ द्वौ पुत्रौ स्मृतौ तेषां पितुस्तुल्यपराक्रमौ ।। ३३ ।।


स वै पुत्राज्ञया शूरस्तालनो राक्षसप्रियः ।।
यातुधानमयं देवं तुष्टाव म्लेच्छपूजनैः ।। ३४ ।।


तथा वसुमतः पुत्रौ भूपतीदेशवत्सजौ ।।
शक्रं सूर्य्यं समाराध्य कृतकृत्यौ बभूवतुः ।। ३५ ।।


सिंहिनीनाम वडवां या तु दत्ता भयानका ।।
आरुह्य बलवाञ्छूरो गमनाय मनो दधौ ।। ३६ ।।


पंचशब्दं महानागमिन्द्रदत्तं मनोरमम् ।।
देशराजस्तमारुह्य गमनाय मनो दधे ।। ३७ ।।


हयं पपीहकं नाम सूर्यदत्तं नरस्वरम् ।।
वत्सराजस्तमारुह्य गमनाय मनो दधे ।। ३८ ।।


त्रयः शूराः समागम्य नगरीं ते महावतीम् ।।
ऊषुस्तत्र महात्मानो बहुमानेन सत्कृताः ।। ३९ ।।


सेना षष्टिसहस्रं तत्तेषां स्वामी स तालनः ।।
मंत्रिणौ भ्रातरौ तौ च नृपतेश्चन्द्रवंशिनः ।। 3.3.7.४० ।।


तैर्वीरै रक्षितो राजा कृतकृत्यत्वमागतः ।। ४१ ।। 

_____________________________
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापर पर्याये कलियुगीयेतिहाससमुच्चये सप्तमोऽध्यायः ।। ७ ।।

भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ०८< भविष्यपुराणम् ‎ | पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३

                   ।। सूत उवाच ।। 
जम्बुको नाम भूपालो महीराजो भयातुरः ।।
कालियेन युतः प्राप्तो नर्मदायास्तटे शुभे ।। १ ।।


पार्थिवैः पूजयामास देवदेवं पिनाकिनम् ।।
षण्मासान्ते महादेवो जम्बुकं प्राह भूपतिम् ।। २ ।।


वरं वरय तेऽभीष्टं भूप आह कृतांजलिः ।।
अजितत्वं नृपैः सर्वैर्देहि मे करुणानिधे ।। ३ ।।


तथेत्युक्त्वा महादेवस्तत्रैवान्तर्हितोभवत् ।।
कालियस्त त्सुतो लब्ध्वा वीरो माहेश्वरं वरम् ।। ४ ।।


मोहनं सर्वसैन्यानां पितुरंतिकमाययौ ।।
पितरं प्राह नम्रात्मा देह्याज्ञां तात मत्प्रियाम् ।। ५ ।


गमिष्यामि बलैः सार्द्धं गंगां शुद्धजलां शुभाम् ।।
तथेत्युक्त्वा पिता तस्मै ययौ तु स्वं निवेशनम् ।। ६ ।।


भगिनीं प्राह बलवान्विजयैषिणि शोभने ।।
किमिच्छसि शुभं वस्तु तदाज्ञां देहि मा चिरम् ।। ७ ।।


साह ग्रैवेयकं हारं मणिमुक्ताविभूषितम् ।।
मत्प्रियं देहि मे वीर तथेत्युक्त्वा ययौ गृहात् ।। ८ ।।


कालियो लक्षतुरगैः संयुतस्त्वरितोऽगमत् ।।
प्राप्य गंगां सागरगां कृत्वा स्नानं विधानतः ।। ९ ।।


दत्त्वा दानानि विप्रेभ्यो जयचन्द्रपुरीं ययौ ।।
निर्धनः समभूद्राजा बाहुशाली महाबलः ।। 3.3.8.१० ।।

__________________________________
कान्यकुब्जे (महाहारौ) न प्राप्तो बहुमूल्यकः ।।
तदोर्वीयाधिपेनैव महीशेन प्रबोधितः ।।११।।


ययौ महावतीं रम्यां शिवदत्तवरो बली ।।
रुरोध नगरीं सर्वां श्रुत्वा राजा भयातुरः ।।१२।।


रुद्रं कपर्दिनं शंभुं शरण्यं शरणं ययौ ।।
शिवाज्ञया नृपो धीमान्बलैः षष्टिसहस्रकैः ।। १३ ।।


सार्द्धं पुराद्बहिर्यातस्त्रिभिः शूरैः सुरक्षितः ।।
तस्य नागाः सहस्रं च देशराजश्च तत्पतिः ।। १४ ।।


हयाः षोडशसाहस्रा वत्सराजस्तु तत्पतिः ।।
शेषाः पदातयस्तस्य तालनेनैव रक्षिताः ।। १५ ।।


प्रनष्टो मुलं युद्धं तेषां वीरवरक्षयम् ।।७
अहोरात्रप्रमाणेन महद्घोरमवर्तत ।। १६ ।।


ते हत्वा शात्रवीं सेनां चक्रुर्जयरवान्मुहुः ।।
भयार्ता नार्मदेयाश्च माहिष्मतिनिवासिनः ।। १७ ।।


दुद्रुवुः सर्वतो विप्र दृष्ट्वा तान्कालियो नृपः ।।
आश्वास्य प्रययौ युद्धमर्द्धसैन्यसमन्वितः ।। १८ ।।


हृदि कृत्वा महादेवं मोहनं बाणमादधत् ।।
सिद्धमन्त्रप्रभावेण मोहितास्ते बभूविरे ।। १९ ।।


शेषास्ते शत्रवः सर्वे रिपुघाताय संययुः ।।
अलसांस्तान्कपालेषु जघ्नुस्ते भयवर्जिताः।।3.3.8.२०।


भीष्मसिंहस्तथा दृष्ट्वा बोधयामास सैनिकान् ।।
सूर्यदत्तेन बाणेन संज्ञाख्यानेन तत्र वै ।। ।। २१ ।।


भैरवाख्येन भल्लेन शत्रुदेहमताडयत् ।।
मूर्च्छितः सोऽपतद्वीरो गजपृष्ठे शरार्दितः ।। २२ ।।


तदा माहिष्मती सेना निर्ययौ सा दिशौ दश ।।
मुहूर्तं कश्मलं प्राप्य पुनरुत्थाय कालियः ।। २३ ।।


भल्लेन तच्छिरः कायादपाहरत भूमिपः ।।
हते तस्मिन्महावीर्ये तालनाद्या महा बलाः ।। २४ ।।


कालियं ते पराजित्य तं शत्रुं प्रत्यषेधयन् ।।
महाकष्टान्वितो भूपो ध्यात्वा मनसि शंकरम् ।। २५ ।।


मोहयित्वा रिपून्सर्वान् ययौ स्वं निवेशनम् ।।
अर्द्धसैन्येन सहिता हतशेषास्त्रयस्तथा ।। २६ ।।


तदा परिमलो राजा दृष्ट्वा शत्रुपराजयम् ।।
परिष्वज्य महावीरान्स्व गेहं पुनराययौ ।। २७ ।।


         (गुर्जर भूप की कन्या मदालसा)

____________________________________
जयचन्द्रस्तु तच्छुत्वा परं विस्मयमागतः ।।
तालनं च समाहूय सेनाधीशमकरायत् ।। २८ ।।


भीष्मसिंहे गते लोके पंचमासान्तरे नृपे ।।
तत्पत्नी जनयामास पुत्ररत्नं शुभाननम् ।। २९ ।।


सा तु गुर्जरभूपस्य तनयाख्या मदालसा ।।
दिव्यं पुत्रं समालोक्य मुमुदे सगणा भृशम् ।। 3.3.8.३०।।
(°¶•)


श्रुत्वा तज्जन्म नृपतिर्विततार धनं बहु ।।
आहूय गणकान्प्राज्ञाञ्जातकर्म ह्यकारयत् ।। ३१ ।।


सहदेवांश एवासौ भुवि जातः शिवाज्ञया ।।
देवसिंहः कृतो नाम गणकैः शास्त्रचिंतकैः ।। ३२ ।।


इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चयेऽष्टमोऽध्यायः ।। ८ ।।

भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ०९< भविष्यपुराणम् ‎ | पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३

                  ।। सूत उवाच ।।
कालियं तौ पराजित्य भ्रातरौ नृपसेवकौ ।।
गतौ गोपालके राष्ट्रे भूपतिर्दलवाहनः ।। १ ।।


सहस्रचंडिकाहोमे नानाभूपसमागमे ।।
गृहीतौ महिषौ ताभ्यां भूपैरन्यैश्च दुर्जयौ ।। २ ।।


पूर्वं हि नृपकन्याभ्यां प्रत्यहं बंधनं गतौ ।।
तौ संपूज्य विधानेन ददौ ताभ्यां च कन्यके ।। ३ ।।


देवकीं देशराजाय ब्राह्मीं तस्यानुजाय वै ।।
ददौ दुर्गाज्ञया राजा रूपयौवनशालिनीम् ।। ४ ।।


लक्षावृत्तिं तथा वेश्यां गीतनृत्यविशारदाम् ।।
कन्ययोश्च सखीं रम्यां मेघमल्लाररागिणीम् ।। ५ ।।


शतं गजान्रथान्पंच हयांश्चैव सहस्रकान् ।।
चत्वारिंशच्च शिबिकाः प्रददौ दलवाहनः ।। ६ ।।


बहुद्रव्ययुतां कन्यां दासदासीसमन्विताम् ।।
उदूह्य वेदविधिना प्रापतुश्च महावतीम् ।। ७ ।।


मलना तां वधूं दृष्ट्वा तस्यै ग्रैवेयकं ददौ ।।
ब्राह्म्यै षोडशशृंगारं तथा द्वादशभूषणम् ।। ८ ।।


राजा च परमानन्दी देशराजाय शूरिणे ।।
ददौ दशपुरं रम्यं नानाजननिषेवितम् ।। ९ ।।


ऊषतुस्तत्र तौ वीरौ राजमान्यौ महाबलौ ।।
एतस्मिन्नन्तरे जातो देवसिंहो हराज्ञया ।। 3.3.9.१० ।।


जाते तस्मिन्कुमारे तु देवकी गर्भमादधौ ।।
दासश्रुता पतेर्देवी सुषुवे पुत्रमूर्जितम् ।। ११।।


गौरांगं कमलाक्षं च दीप्यमानं स्वतेजसा ।।
तदानंदमयो देवः शक्रः सुरगणैः सह ।। १२ ।।


शंखशब्दं चकारोच्चैर्जयशब्दं पुनःपुनः ।।
दिशः प्रफुल्लिताश्चासन्ग्रहाः सर्वे तथा दिवि ।। १३ ।।


आयाता बहवो विप्रा वेदशास्त्रपरायणाः ।।
चक्रुस्ते जातकर्मास्य नामकर्म तथाविधम् ।। १४ ।।


रामांशं तं शिशुं ज्ञात्वा प्रसन्नवदनं शुभम् ।।
भाद्रकृष्णतिथौ षष्ठ्यां चन्द्रवारेऽरुणोदये ।। १५ ।।


संजातः कृत्तिकाभे च पितृवंशयशस्करः ।।
आह्लादनाम्ना ह्यभवत्प्रश्रितश्च महीतले ।। १६ ।।


मासान्ते च सुते जाते ब्राह्मी पुत्रमजीजनत् ।।
धर्मजांशं तथा गौरं महाबाहुं सुवक्षसम् ।। १७ ।।


तदा च ब्राह्मणाः सर्वे दृष्ट्वा बालं शुभाननम् ।।
प्रसन्नवदनं चारुं पद्मचिह्नपदस्थितम् ।। १८ ।।


तैर्द्विजैश्च कृतो नाम्ना बलखानिर्महाबलः ।।(°¶•)
वर्षान्ते वत्सजे जातं मूलगंडान्तसंभवः ।। १९ ।।


चामुण्डो देवकिसुतो निजवंशभयंकरः ।।
जनितारं ततस्त्याज्य इत्यूचुर्द्विजसत्तमाः ।।
न तत्याज सुतं राजा बालत्वेऽपि दयापरः ।।3.3.9.२० ।।


त्रिवर्षांते गते तस्मिन्बलखानौ सुते शुभे ।।
शूद्र्यां जातः शिखंडयंशो रूपणो नाम विश्रुतः ।। २१ ।।

______________________________
वत्सराजो ययौ देशे गुर्जरे च मदालसाम्।(°¶•)
स सुतां च समादाय दिने तस्मिन्समागतः ।। २२ ।।


प्राप्ते तस्मिन्वत्सराजे जम्बुकः स्वबलैर्वृतः ।।
सप्तलक्षैश्च संप्राप्तो बाहुशाली यतेंद्रियः ।। २३ ।।


रुरोध नगरीं सर्वां राज्ञः परिमलस्य वै ।।
त्रिलक्षैश्च माहावत्यै सार्द्धं तौ जग्मतुः पुरात् ।। २४ ।।


माहिष्मतैः सप्तलक्षैः सार्द्धं युद्धमभून्महत् ।।
त्रिरात्रं दारुणं घोरं यमराष्ट्रविवर्द्धनम् ।। २५ ।।


शिवस्य वरदानेन भ्रात्रोर्जातः पराजयः ।।
बद्ध्वा तौ जम्बुको राजा लुंठयित्वा महावतीम् ।। २६ ।।


वेश्यां लक्षारतिं तस्य तं हतं तद्गजं तथा ।।
ग्रैवेयकं तथा हारं मणिरत्नविभूषितम् ।। २७ ।।


गृहीत्वा नगरीं सर्वां भस्मयित्वा गृहं ययौ ।।
ये गुप्ता भूतले शूरास्ते शेषाश्च तदाऽभवन् ।।२८ ।।


दुर्गेषु यानि रत्नानि तानि प्राप्य मुदा ययौ ।।
लुंठिते नगरे तस्मिन्देवकी गर्भमुत्तमम् ।। २९ ।।


कृष्णांशं सप्तमास्यं हि चादधाद्दैवतप्रिया ।।
ज्ञात्वा कुलाधमं पुत्रं चामुंडं देवकी सती ।। 3.3.9.३० ।।


कल्पक्षेत्रं समागम्य कालिंद्यां तमपातयत्।।
योजनान्ते गते तस्मित्महीराजपुरोहितः ।।३१।।


सामन्तो नाम तं गृह्य श्वशुरालयमाययौ ।।
जातस्तु दशमासान्ते रात्रौ घोरतमोवृते ।। ३२ ।।


भाद्रकृष्णाष्टमीसौम्ये ब्राह्मनक्षत्रसंयुते ।।
प्रादुरासीज्जगन्नाथो देवक्यां च महोत्तमः ।। ३३ ।।


श्यामांगः स च पद्माक्ष इंद्रनीलमणिद्युतिः ।।
विमानानां सहस्राणां प्रकाशः समजायत ।। ३४ ।।


विस्मिता जननी तत्र दृष्ट्वा बालं तमद्भुतम् ।।
नगरे च महाश्चर्यं जातं सर्वे समाययुः ।। ३५ ।।


उदयः किमहो जातो देवानां सूर्यरूपकः ।।
इत्याश्चर्य्यजुजां तेषां वागुवाचाशरीरिणी ।। ३६ ।।


कृष्णांशो भूतले जातः सर्वानन्दप्रदायकः ।।
स नाम्नोदयसिंहो हि सर्वशत्रुप्रकाशहा ।। ३७ ।।


इत्याकाशवचः श्रुत्वा ते परं हर्ष माययुः ।।
यस्मिन्काले सुतो जातस्तदा च मलना सती ।। ३८ ।।


श्यामांगं सुन्दरं बालं सर्वलक्षणलक्षितम् ।।
सुषुवे परमोदारं फाल्गुनांशं शिवाज्ञया ।। ३९ ।।


तदा तु नगरी सर्वा हर्षभूता बभूव ह ।।
षष्ठाहनि सुते जाते ब्रह्मानन्दगुणाकरे ।। 3.3.9.४० ।।


ब्राह्मी तु सुषुवे पुत्रं पार्षदांशं महाबलम् ।।
श्यामांगं कमलाक्षं च दृढस्कन्धं महाभुजम् ।। ४१ ।।


ब्राह्मणाश्च तदागत्य जातकर्म ह्यकारयन् ।।
सुखखानिर्द्विजैर्नाम्ना कृतस्तु गणकोत्तमैः ।। ४२ ।।


क्रमेण वर्द्धिता बालाः सर्वलोकशिवंकराः ।।
तेषां काली महच्छ्रेष्ठा पितृमातृप्रियंकरी ।। ४३ ।।


तृतीयाब्दे वयः प्राप्ते कृष्णांशे बलवत्तरे ।।
शक्रस्तद्दर्शनकांक्षी हयारूढो जगाम ह ।। ४४ ।।


क्रीडन्स चन्दनारण्ये कृष्णांशो भ्रातृभिः सह ।।
नभस्थं पुरुषं दृष्ट्वा सहस्राक्षं जहास वै ।। ४५ ।।


अश्विनी हरिणी दिव्या उच्चैःश्रवसमन्तिके ।।
गत्वा गर्भमुपादाय स्वगेहं पुनराययौ ।। ४६ ।।


वर्षांतरे च सुषुवे कपोतं तनयं शुभम् ।।
पञ्चाब्दं च समायाते विद्याध्यनमास्थिताः ।। ४७।।


ब्राह्मणं शिवशर्माणं सर्वविद्याविशारदम् ।।
स्वभक्त्या सेवनं कृत्वा ते चक्रुर्वेदपाठिकाम् ।।४८।।


अष्टाब्दे चैव कृष्णांशो नामपत्रादिकां क्रियाम् ।।
लिखतां बालकानां च कृष्णांशः श्रेष्ठतामगात् ।। ४९।।


इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये कृष्णांशावतारो नाम नवमोऽध्यायः ।। ९ ।।

भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः १०

                      ||सूत उवाच।। 
नवमाब्दं वयः प्राप्ते कृष्णांशो बलवत्तरः ।।
पठित्वान्वीक्षिकीं विद्यां चतुःषष्टिकलास्तथा ।। १ ।।


धर्मशास्त्रं तथैवापि सर्वश्रेष्ठं बभूव ह ।।
तस्मिन्काले भृगुश्रेष्ठ महीराजो नृपोत्तमः ।। २ ।।


करार्थं प्रेषयामास स्वसैन्यं च महावतीम् ।।
ते वै लक्षं महाशूराः सर्वशस्त्रास्त्रधारिणः ।। ३ ।।


ऊचुः परिमलं भूपं शृणु चंद्रकुलोद्भव ।।
सर्वे च भारते वर्षे ये राजानो महाबलाः ।। ४ ।।


षडंशं करमादायास्मद्राजाय ददंति वै ।।
भवान्करे हि तस्यैव योग्यो भवति सांप्रतम् ।। ५।।


अद्यप्रभृति चेद्राज्ञे तस्मै दद्यात्करं न हि ।।
महीराजस्य रौद्रास्त्रैः क्षयं यास्यति सैनिकैः ।। ६ ।।


ये भूपा जयचंद्रस्य पक्षगास्ते हि तद्भयात् ।।
ददंते भूमिराजाय दंडं तन्मानसत्कृताः ।। ७ ।।


इति श्रुत्वा स नृपतिस्तस्मै राज्ञे महात्मने।।
करं षडंशमादाय ददौ प्रीतिसमन्वितः ।। ८ ।।


दशलक्षमितं द्रव्यं गृहीत्वा ते समाययुः ।।
महीराजः प्रसन्नात्मा पूर्ववैरमपाहरत् ।। ९ ।।


तदा ते लक्षशूराश्च कान्यकुब्जमुपाययुः ।।
जयचंद्रं तु नत्वोचुः शृणु लक्षणकोविद ।। 3.3.10.१० ।।


पृथ्वीराजो महाराजो दंडं त्वत्तः समिच्छति ।।
इत्युक्तस्तैर्वैष्णवास्त्री लक्षणस्तानुवाच ह ।। ११ ।।


मद्देशे मंडलीकाश्च बहवः संति सांप्रतम् ।।
भूमिराजो मांडलिको मयि जीवति मा भवेत् ।। १२ ।।


इत्युक्त्वा वैष्णवास्त्रं तान्क्रुद्धः स च समादधत् ।।
तदस्त्रज्वालतः सर्वे भयभीता प्रदुद्रुवुः ।। १३ ।।


महीराजस्तु तच्छ्रुत्वा महद्भयमुपागमत् ।।
दशाब्दं च वयः प्राप्ते कृष्णांशे मल्लकोविदे ।।१४।।


नानामल्लाः समाजग्मुस्तेन राज्ञैव सत्कृताः ।।
तेषां मध्ये स कृष्णांशो बाहुशाली बभूव ह ।। १५ ।।


उर्वीयाधिपतेः पुत्रः षोडशाब्दवया बली ।।
शतमल्लैश्च सहितः कदाचित्स समागतः ।। १६ ।।


पितृष्वसृपतिं भूपं नत्वा नाम्नाऽभयो बली ।।
उवाच शृणु भूपाल कृष्णोऽयं मदमत्तरः ।। १७ ।।


तेन सार्द्धं भवेन्मल्लयुद्धं मम नृपोत्तम ।।
इति वज्रसमं वाक्यं श्रुत्वा राजा भयातुरः ।। १०।।


उवाच श्यालजं प्रेम्णा भवान्युद्धविशारदः ।।
अष्टाब्दोऽयं सुतः स्निग्धो मम प्राणसमो भुवि ।। १९ ।।


क्व भवान्वज्रसदृशः क्व सुतोऽयं सुकोमलः ।।
अन्यैर्मल्लैर्मदीयैश्च सार्द्धं योग्यो भवान्रणे ।।3.3.10.२०।।


इति श्रुत्वा नृपः स्यालो महीपतिरिति स्मृतः ।।
स तमाह रुषाविष्टो बालोऽयं बलवत्तरः ।। २१ ।।


शृणु तत्कारणं भूप यथा ज्ञातो मया शिशुः ।।
आगस्कृतं महीराजं मत्वा सतिलकः सुतम् ।। २२ ।।


पंडितांश्च समाहूय मुहूर्तं पृष्टवान्मुदा ।।
गणेशो नाम मतिमाञ्ज्योतिश्शास्त्रविशारदः।।२३।।


लक्षणं वचनं प्राह महीराजमनुत्तमम् ।।
शिवदत्तवरो राजन्कुबेर इव सांप्रतम् ।। २४ ।।


कृष्णांशस्तस्य योग्योऽयं देशराजसुतोऽवरः ।।
नान्योऽस्ति भूतले राजन्सत्यं सत्यं ब्रवीम्यहम् ।।। २५ ।।


तच्छ्रुत्वा लक्षणो वीरः पूर्वे बर्हिष्मतीं प्रति ।।
कल्पक्षेत्रं दक्षिणे च भूमिग्रामं तु पश्चिमे ।। २६ ।।


उत्तरे नैमिषारण्यं स्वकीयं राष्ट्रमादधत् ।।
अतः श्रेष्ठः कुमारोऽयं कान्यकुब्जे मया श्रुतः ।।२७।।


नागोत्सवे च भूपाल पंचम्यां च नभस्सिते ।।
दृश्यमात्रं कुमारांगं तस्माद्योग्यो ह्ययं सुतः ।। २८ ।।


इति श्रुत्वा स कृष्णांशो वाक्छरेण प्रपीडितः।
अभयं भुजयोः शीघ्रं गृहीत्वा सोऽयुधद्बली ।। २९ ।।


क्षणमात्रं रणं कृत्वा भूमिमध्ये तमक्षिपत् ।।
अभयस्य भुजो भग्नस्तत्र जातो बलेन वै।।3.3.10.३०।


मूर्च्छितं स्वसुतं ज्ञात्वा खड्गहस्तो महीपतिः ।।
प्रेषयामास तान्मल्लान्कृष्णांशस्य प्रहारणे ।। ३१ ।।


रुषाविष्टांश्च ताञ्ज्ञात्वा कृष्णांशो बलवत्तरः ।।
तानेकैकं समाक्षिप्य विजयी स बभूव ह ।। ३२ ।।


पराजिते मल्लबले खड्गहस्तो महीपतिः ।।
मरणाय मतिं चक्रे कृष्णांशस्य प्रभावतः ।।३३।।


ज्ञात्वा तमीदृशं भूपं वारयामास भूपतिः ।।
अभयं नीरुजं कृत्वा प्रेम्णा गेहमवासयत् ।। ३४ ।।


नवाब्दांगे च कृष्णांशे चाह्लादाद्याः कुमारकाः।।
मृगयार्थे दधुश्चित्तं तमूचुर्भूपतिं प्रियम् ।।३५।।


नमस्ते तात भूपाग्र्य सर्वानंदप्रदायक ।।
अस्मभ्यं त्वं हयान्देहि मत्प्रियान्करुणाकर ।। ३६ ।।


इति श्रुत्वा वचस्तेषां तथेत्युक्त्वा महीपतिः ।।
भूतले वासिनोऽश्वान्वै दिव्यान्राट् चतुरो वरान् ।। ३७ ।।


ददौ तेभ्यो मुदा युक्तो हरिणीगर्भसंभवान् ।।
               ||ऋषय ऊचुः ।।
त्वन्मुखेन श्रुतं सूत हरिणी वडवा यथा।।३८ ।।


भीष्मसिंहाय संप्राप्ता शक्राद्देवेशतो मुने ।।
इदानीं श्रोतुमिच्छामः कुतो जातास्तुरंगमाः ।। ३९ ।।


दिव्यांगा भूषणापन्ना नभस्सलिलगामिनः ।।
              ।। सूत उवाच ।।
देशराजेन भूपेन पुरा धर्मयुतेन वै।।3.3.10.४०।।


सेवनं भास्करस्यैव कृतं च द्वादशाब्दिकम् ।।
सेवान्ते भगवान्सूर्यो वरं ब्रूहि तमब्रवीत्।। ।। ४१ ।।


प्राह देव नमस्तुभ्यं यदि देयो वरस्त्वया ।।
हयं दिव्यमयं देहि नभस्थलजलातिगम् ।। ४२ ।।


तथेत्युक्त्वा रविः साक्षाद्ददौ तस्मै पपिहकम् ।।
लोकान्पाति पपीर्ज्ञेयस्तस्येदं नाम चोत्तमम् ।। ४३ ।।


अतः पपीहको नाम लोकपालनकर्मवान् ।।
स हयो मदमत्तश्च हरिणीं दिव्यरूपिणीम् ।। ४४ ।।


बुभुजे स्मरवेगेन तस्यां जातास्तुरंगमाः ।।
मनोरथश्च पीतांगः करालः कृष्णरूपकः ।। ४५ ।।


एकगर्भे समुद्भूतौ शैब्यसुग्रीवकांशकौ ।।
यस्मिन्दिने समुद्भूतौ जिष्णुविष्णुकलांशतः ।। ६ ।।


तदा जातौ हरिण्याश्च मेघपुष्पबलाहकौ ।।
बिन्दुलश्च सुवर्णांगः श्वेतांगो हरिनागरः।। ४७ ।।


दिव्यांगास्ते हि चत्वारः पूर्वं जाता महाबलाः ।।
पश्चादंशावताराश्च जातास्तेषां महात्मनाम् ।। ४८ ।।


इति ते कथितं विप्र शृणु तत्र कथां शुभाम् ।।
भूतले ते हयाः सर्वे प्राप्ताश्चोपरिभूमिगाः ।। ४९ ।।


देवसिंहाय बलिने ददौ चाश्वं मनोरथम् ।।
आह्लादाय करालं च कृष्णांशायैव बिन्दुलम् ।। 3.3.10.५० ।।

ब्रह्मानंदाय पुत्राय प्रददौ हरिनागरम् ।।
ते चत्वारो हयारूढा मृगयार्थं वनं ययुः ।। ५१ ।।


हरिणीं वडवां शुभ्रां बलखानिः समारुहत् ।।
तदनु प्रययौ वीरो वनं सिंहनिषेवितम् ।। ५२ ।।


आह्लादेनैव शार्दूलो हतः प्राणिभयंकरः ।।(°¶•)
देवसिंहेन सिंहश्च सूकरो बलखानिना ।। ५३ ।।


ब्रह्मानंदेन हरिणो हतस्तत्र महावने ।।
मृगाः शतं हतास्तैश्च तान्गृहीत्वा गृहं ययुः ।। ५४ ।।


एतस्मिन्नंतरे देवी शारदा च शुभानना ।।
मृगी स्वर्णमयी भूत्वा तेषामग्रे प्रधाविता ।।५५।।


दृष्ट्वा तां मोहिताः सर्वे स्वैः स्वैर्बाणैरताडयन् ।।
शरास्तु संक्षयं जग्मुर्मृग्यंगे बलवत्तराः ।।५६।।


आह्लादाद्याश्च ते शूरा विस्मिताश्च बभूविरे ।।
तस्मिन्काले स कृ्ष्णांगो बाणेनैव ह्यताडयत् ।।५७।।


तदा च पीडिता देवी भयभीता ययौ वनम् ।।
कृष्णांशः क्रोधताम्राक्षस्तत्पश्चात्प्रययौ बली ।।५८।।


वनांतरं च संप्राप्य देवी धृत्वा स्वकं वपुः ।।
तमुवाच प्रसन्नाक्षी परीक्षा ते मया कृता ।। ५९ ।।


यदा ते च भयं भूयात्तदा त्वं मां सदा स्मर ।।
साधयिष्यामि ते कार्यं कृष्णांशो हि भवान्विभुः ।। 3.3.10.६० ।।


इत्युक्त्वान्तर्हिता देवी शारदा सर्वमंगला ।।
कृष्णांशस्तु ययौ गेहं तैश्च सार्द्धं मुदा युतः ।। ६१ ।।


तदा पराक्रमं तेषां दृष्ट्वा राजा सुखोऽभवत् ।।
गृहे गृहे च सर्वेषां लक्ष्मीर्देवी समाविशत् ।। ६२ ।। 


इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये दशमोऽध्यायः ।। १० ।।

भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ११

                 ।। सूत उवाच ।। 
दशाब्दे च वयः प्राप्ते विष्णोः शक्त्यवतारके ।।
वसंतसमये रम्ये ययुस्ते प्रमदावनम् ।। ।। १ ।।


ऊषुस्तत्र व्रताचारे माधवे कृष्णवल्लभे ।।
स्नात्वा च सागरे प्रातः पूजयामासुरंबिकाम् ।। २ ।।


ऋतुकालोद्भवैः पुष्पैर्धूपैर्दीपैर्विधानतः ।।
जप्त्वा सप्तशतीस्तोत्रं दध्युः सर्वकरीं शिवाम् ।। ३ ।।


कंदमूलफलाहारा जीवहिंसाविवर्जिताः ।।
तेषां भक्तिं समालोक्य मासांते जगदंबिका ।।४ ।।


ददौ तेभ्यो वरं रम्यं तच्छृणुध्वं समाहिताः।।
आह्लादाय सुरत्वं च बलत्वं बलखानये ।। ५ ।।


कालज्ञत्वं च देवाय ब्रह्मज्ञत्वं नृपाय च।।।
कृष्णांशायैव योगत्वं दत्त्वा चांतर्दधे शिवा ।। ६ ।।


कृतकृत्यास्तदा ते वै स्वगेहं पुनराययुः ।।
तेषां प्राप्ते वरे रम्ये मलना पुत्रमूर्जितम् ।।७।।


श्यामांगं सात्यकेरंशं सुषुवे शुभलक्षणम् ।।
स ज्ञेयो रणजिच्छूरो राजन्यप्रियकारकः ।। ८ ।।


आषाढे मासि संप्राप्ते कृष्णांशो हयवाहनः ।।
उर्वीयां नगरीं प्राप्त एकाकी निर्भयो वली ।। ९ ।।


दृष्ट्वा स नगरीं रम्यां चतुर्वर्णनिषेविताम् ।।
द्विजशालां ययौ शूरो द्विजधेनुप्रपूजकः।। 3.3.11.१० ।।


दत्त्वा स्वर्णं द्विजातिभ्यः संतर्प्य द्विजदेवताः ।।
महीपतिगृहं रम्यं जगाम बलवत्तरः ।। ११ ।।


नत्वा स मातुलं धीमांस्तथान्याँश्च सभासदः ।।१२ ।।


तदा नृपाज्ञया शूरा बंधनाय समुद्यताः ।।
खङ्गहस्ताः समाजग्मुर्यथा सिंहं गजाः शशाः ।। १३ ।।


मोहितं तं नृपं कृत्वा दुष्टबुद्धिर्महीपतिः ।।
कृत्वा लोहमयं जालं तस्योपरि समादधेः ।। १४ ।।


एतस्मिन्नंतरे वीरो बोधितो देवमायया ।।
आगस्कृतान्रिपूञ्ज्ञात्वा खङ्गहस्तः समावधीत् ।। १५ ।।


हत्वा पंचशतं शूरो हयारूढो महाबली ।।
उर्वीयां नगरीं प्राप्य जलपाने मनो दधौ १६ ।।


कूपे दृष्ट्वा शुभा नार्यो घटपूर्तिकरीस्तदा ।।
उवाच मधुरो वाक्यं देहि सुंदरि मे जलम् ।। १७ ।।


दृष्ट्वा ताः सुंदरं रूपं मोहनायोपचक्रिरे ।।
भित्त्वा तासां तु वै कुम्भान्पाययित्वा हयं जलम् ।।१८।।


वनं गत्वा रिपुं जित्वा बद्ध्वा तमुभयं बली ।।
चण्डिकापार्श्वमागम्य तद्वधाय मनो दधे ।। १९ ।।


श्रुत्वा स करुणं वाक्यं त्यक्त्वा स्वनगरं ययौ ।।
नृपांतिकमुपागम्य वर्णयामास कारणम्।।3.3.11.२० ।।
श्रुत्वा परिमलो राजा द्विजातिभ्यो ददौ धनम् ।।
समाघ्राय स कृष्णांशं कृतकृत्योऽभवन्नृपः ।। २१ ।।


संप्राप्तैकादशदाब्दे तु कृष्णांशे युद्धदुर्मदे ।।
महीपतिर्निरुत्साहः प्रययौ देहलीं प्रति ।। २२ ।।


बलिं यथोचितं दत्त्वा भगिन्यै भयकातरः ।।
रुरोद वहुधा दुःखं देशराजात्मजप्रजम् ।। २३ ।।


अगमा भगिनी तस्य दृष्ट्वा भ्रातरमातुरम् ।।
स्वपतिं वर्णयामास श्रुत्वा राजाब्रवीदिदम् ।। २४ ।।


अद्याहं स्वबलैः सार्द्धं गत्वा तत्र महावतीम् ।।
हनिष्यामि महादुष्टं देशराजसुतं रिपुम् ।। २५ ।।


इत्युक्त्वा धुंधुकारं च समाहूय महाबलम् ।।
सैन्यमाज्ञापयामास सप्तलक्षं तनुत्यजम् ।। २६ ।।


केचिच्छूरा हयारूढा उष्ट्रारूढा महाबलाः ।।
गजारूढा रथारूढाः संययुश्च पदातयः ।। २७ ।।


देवसिंहस्तु कालज्ञः श्रुत्वा चागमनं रिपोः ।।
नृपपार्श्वं समागम्य सर्वं राज्ञे न्यवेदयत् ।। २८ ।।


श्रुत्वा परिमलो राजा विह्वलोऽभूद्भयातुरः ।।
बलखानिस्तमुत्थाय हर्षयुक्त इवाह च ।। ।। २९ ।।


अद्याहं च महीराजं धुंधुकारं ससैन्यकम् ।।
जित्वा दंड्यं च भवतः करिष्यामि तवाज्ञया ।। 3.3.11.३० ।।


इत्युक्त्वा तं नमस्कृत्य सेनापतिरभून्मुने ।।
तदा तु निर्भया वीरा दृष्ट्वा राजानमातुरम् ।। ३१ ।।


चतुर्लक्षबलैः सार्द्धं ते युद्धाय समाययुः ।।
शिंशपाख्यं वनं घोरं छेदयित्वा रिपोस्तदा ।। ३२ ।।


ऊषुस्तत्र रणे मत्ताः सर्वशत्रुभयंकराः ।।
एतस्मिन्नन्तरे तत्र धुंधुकारादयो बला ।। ३३ ।।


कृत्वा कोलाहलं शब्दं युद्धाय समुपाययुः ।।
पूर्वाह्णे तु भृगुश्रेष्ठ सन्नद्धास्ते शतघ्निपाः ।। ३४ ।।


शतघ्नीभिस्त्रिसाहस्रैः पञ्चसाहस्रका ययुः ।।
द्विसहस्रशतघ्नीभिः सहिता श्चन्द्रवंशिनः ।। ३५ ।।


सैन्यं षष्टिसहस्रं च स्वगर्लोकमुपाययौ ।।
तदर्द्धं च तथा सैन्यं महीराजस्य संक्षितम् ।। ३६ ।।


दुद्रुवुर्भीरुकाः शूरा वलखानेर्दिशो दश ।।
रथा रथै रणे हन्युर्गजाश्चैव गजैस्तथा ।। ३७ ।।


हया हयैस्तथा उष्ट्रा उष्ट्रपैश्च समाहनन् ।।
एवं सुतुमुले जाते दारुणे रोम हर्षणे ।। ३८ ।।


हाहाभूतान्स्वकीयांश्च सैन्यान्दृष्ट्वा महाबलान् ।।
अपराह्णे भृगुश्रेष्ठ पञ्च शूराः समाययुः ।। ३९ ।।


ब्रह्मानंदः शरैः शत्रूननयद्यमसादनम् ।।
देवसिंहस्तथा भल्लैराह्रादस्तत्र तोमरैः ।।3.3.11.४०।।


बलखानिः स्वखड्गेन कृष्णांशस्तु तथैव च ।।
द्विलक्षान्क्षत्रियाञ्जघ्नुः सर्वसैन्यैः समं ततः।। ४१ ।।


दृष्ट्वा पराजितं सैन्यं धुंधुकारो महाबलः ।।
आह्लादं च स्वभल्लेन गजारूढः समावधीत् ।। ४२ ।।


आह्लादे मूर्च्छिते तत्र देवसिंहो महाबलः ।।
भल्लेन भ्रातरं तस्य दंशयामास वेगतः ।। ४३ ।।


स तीक्ष्णव्रणमासाद्य गजस्थः संमुमोह वै ।।
आगताः शतराजानो नानादेश्या महाबलाः ।। ४४ ।।


शस्त्राण्यस्त्राणि तेषां तु छित्त्वा खङ्गेन वत्सजः ।।
स्वखड्गेन शिरांस्येषां पातयामास भूतले ।। ४५ ।।


हते शत्रुसमूहे तु तच्छेषास्तु प्रदुद्रुवुः ।।
महीराजस्तु बलवान्दृष्ट्वा भग्नं स्वसैन्यकम् ।। ४६ ।।


आजगाम गजारूढः शिवदत्तवरो बली ।।
रौद्रेणास्त्रेण हृदये चावधीद्वत्सजं रिपुम् ।। ४७ ।।


आह्लादं च तथा वीरं देवं परिमलात्मजम् ।।
मूर्च्छयित्वा महावीराञ्छत्रुसैन्यमुपागमत् ।। ४८ ।।


पूजयित्वा शतघ्नीश्च महावधमकारयत् ।।
रोपणस्त्वरितो गत्वा राज्ञे सर्वमवर्णयत् ।। ४९ ।।


एतस्मिन्नंतरे वीरः सुखखानिर्महाबलः ।
कपोतं हयमारुह्य नभोमार्गेण चागमत् ।। 3.3.11.५० ।।


मूर्च्छयित्वा महीराजं स्वबंधूंश्च सवाहनान् ।।
कृत्वा नृपांतमागम्य बंधनाय समुद्यतः ।। ५१ ।।


तदोत्थाय महीराजो महादेवेन बोधितः ।।
पुनस्तान्स्वशरै रौद्रैर्मूर्च्छयामास कोपवान् ।। ५२ ।।


सुखखान्यादिकाञ्छूरान्संबध्य निगडैर्दृढैः ।।
नृपं परिमलं प्राप्य पुनर्युद्धमचीकरत् ।। ५३ ।।


हाहाभूतं स्वसैन्यं च दृष्ट्वा स उदयो हरिः ।।
नभोमार्गे हयं कृत्वा ताः शतध्नीरनाशयत् ।। ५४ ।।


महीराजगजं प्राप्य बद्ध्वा तं निगडैर्बलो ।।
आह्लादपार्श्वमागम्य भ्रात्रे भूपं समर्पयत् ।। ५५ ।।


तदा तु पृथिवीराजो लज्जितस्तेन निर्जितः ।।
पञ्चकोटिधनं दत्त्वा स्वगेहं पुनराययौ ।। ५६ ।।


देवसिंहाज्ञया शूरो बलखानिर्हि वत्सजः ।।
तैर्द्रव्यैर्नगरीं रम्यां कारयामास सुन्दरीम् ।। ५७ ।।


शिरीषाख्यं पुरं नाम तेन वीरेण वै कृतम् ।।
सर्ववर्णसमायुक्तं द्विक्रोशायामसंमितम् ।। ५८ ।।


तत्रैव न्यवसद्वीरो वत्सजः स्वकुलैः सह ।।
त्रिंशत्कोशे कृतं राष्ट्रं तत्रैव बलखानिना ।। ५९ ।।


श्रुत्वा परिमलो राजा तत्रागत्य मुदान्वितः ।।
आघ्राय वत्सजं शूरं देशराजसुतं तथा ।। 3.3.11.६० ।।


ब्रह्मानंदेन सहितः स्वगेहं पुनराययौ ।। ६१ ।। ।।

__________________
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये एकादशो ऽध्यायः ।। ११ ।।

   भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः १२

                  ।। सूत उवाच ।। 
द्वादशाब्दे हि कृष्णांशे यथाजातं तथा शृणु ।।
इषशुक्लदशम्यां च राज्ञां जातः समागमः ।। १ ।।


कान्यकुब्जे महारम्ये नानाभूपाः समाययुः ।।
श्रुत्वा पराजयं राज्ञो महीराजस्य लक्षणः ।। २ ।।


कृष्णांशदर्शने वांछा तस्य चासीत्तदा मुने ।।
पितृव्यं भूपतिं प्राह द्रष्टुं यास्यामि तं शुभम् ।। ३ ।।


जितो येन महीराजः सर्वलोकप्रपूजितः ।।
इति श्रुत्वा वचस्तस्य जयचंद्रो महीपतिः ।।
भ्रातृजं प्रणतं प्राह शृणु शुक्लयशस्कर ।।४।।


राजराजपदं ते हि कथं संहर्तुमिच्छसि।।
इत्युक्त्वा जयचंद्रस्तु तदाज्ञां नैव दत्तवान् ।। ५ ।।


राजानस्ते च सहिताः स्वसैन्यैः परिवारिताः ।।
कृष्णांशं द्रष्टुमिच्छन्तः संययुश्च महीपतिम् ।। ६ ।।


शिरीषाख्यपुरस्थं च ज्ञात्वा कृष्णांशमुत्तमम् ।।
महीपतिं पुरस्कृत्य समाजग्मुर्नृपास्तदा ।। ७ ।।


ददृशुस्तं महात्मानं पुंडरीकनिभाननम् ।।
प्रसन्नवदनाः सर्वे प्रशशंसुः समंततः ।। ८ ।।


तदा महीपतिः क्रुद्धो वचनं प्राह भूपतीन् ।।
यस्येयं च कृता श्लाघा युष्माभिर्दूरवासिभिः ।।
पितरौ तस्य बलिनौ माहिष्मत्यां मृतिं गतौ ।। ९ ।।


जम्बुको नाम भूपालो नार्मदीयैः समन्वितः ।।
बद्ध्वा तौ प्रययौ गेहं लुंठयित्वा धनं बहु ।।
शिलापत्रे समारोप्य तयोर्गात्रमचूर्णयत् ।।
शिरसी च तयोश्छित्त्वा वटवृक्षे समारुहत्।3.3.12.१०।


अद्यापि तौ स्थितौ वीरौ हा पुत्रेति प्रभाषिणौ ।।
प्रेतदेहे च पितरौ यस्य प्राप्तो महाबलो ।।
तस्योदयो वृथा ज्ञेयो वृथाकीर्तिः प्रियंकरी ।। ११ ।।

________________
इति श्रुत्वा स कृष्णांशो भूपतीन्प्राह नम्रधीः ।।(°¶•)
गतौ मत्पितरौ सार्द्धं गुर्जरे यत्र वै रणः ।। १२ ।।


म्लेच्छैर्नराशनैः सार्द्धं तन्नृपेण रणोऽभवत् ।।
देशराजो वत्सराजो युद्धं कृत्वा भयंकरम् ।।
म्लेच्छैस्तैश्च हतौ तत्र श्रुतेयं विश्रुता कथा ।।१३।।


मातुलेनाद्य कथितं नवीनं मरणं तयोः।।
चेत्सत्यं वचनं तस्य पौरुषं मम पश्यत ।।१४।।


इत्युक्त्वा तान्स कृष्णांशो मातरं प्राह सत्वरम् ।।
हेतुं च वर्णयामास भाषितं च महीपतेः ।। १५ ।।


श्रुत्वा वज्रसमं वाक्यं रुरोद जननी तदा ।।
नोत्तरं प्रददौ माता पति दुःखेन दुःखिता ।।१६।।


ज्ञात्वा पितृवधं श्रुत्वा जम्बुकं शिवकिंकरम् ।।
मनसा स च कृष्णांशस्तुष्टाव परमेश्वरीम् ।।१७।।


जय जय जय जगदम्ब भवानि ह्यखिललोकसुरपितृमुनिखानि ।।
त्वया ततं सचराचरमेव विश्वं पातमिदं हृतमेव ।। १८ ।।


इति ध्यात्वा स कृष्णांशः सुष्वाप निजस द्मनि ।।
तदा भगवती तुष्टा तालनं बलवत्तरम् ।।
मोहयित्वाशु तत्पार्श्वे प्रेषयामास सर्वगा ।। १९ ।।


चतुर्लक्षबलैः सार्द्धं तालनः शीघ्रमागतः ।।
स्वसैन्यं चोदयामास चैकलक्षं महाबलम् ।।3.3.12.२०।।


बलखानिस्तदा प्राप्तश्चैकलक्षबलान्वितः ।।
अनुजं तत्र संस्थाप्य शिरीषाख्ये महाबलः ।।२१।।


सज्जीभूतान्समालोक्य तानुद्याने ससैन्यकान् ।।
भीतः परिमलो राजा कृष्णांशं प्रति चाययौ ।। २२ ।।


विह्वलं नृपमालोक्य कृष्णांशोऽऽश्वासयन्मुदा ।। २३ ।।


लक्षसैन्यं तदीयं च गृहीत्वा चाधिपोऽभवत् ।।
शतघ्न्यः पंचसाहस्रा नानावर्णाः सुवाहनाः ।। २४ ।।


पताकाः पञ्चसाहस्राः साहस्रं काष्ठकारिणः ।।
गजा दशसहस्राश्च रथाः पंचसहस्रकाः ।। २५ ।।


त्रिलक्षाश्च हयाः सर्वे उष्ट्रा दशसहस्रकाः ।।
शेषाः पदातयो ज्ञेयास्त स्मिन्सैन्ये भयानके ।। २६ ।।


तालनश्च समायातः सर्वसेनाधिपोऽभवत् ।।
देवसिंहो रथानां च सर्वेषामीश्वरोऽभवत् ।। २७ ।।


बलखानिर्हयानां च सर्वेषामधिपोऽभवत् ।।
आह्लादश्च गजानां च सर्वेषामधिपोऽभवत् ।।
पत्तीनां चैव सर्वेषां कृष्णांशश्चाधिपोऽभवत् ।। २८ ।।


नत्वा ते मलनां भूपो दत्त्वा दानान्यनेकशः ।।
समाययुश्च ते सर्वे दक्षिणाशां बलान्विताः ।। २९ ।।


पक्षमात्रगतः कालो मार्गे तस्मिन्रणैषिणाम् ।।
छित्त्वा तत्र वनं घोरं नानाकंटकसंयुतम् ।।
सेनां निवासयामासुर्निर्भयास्ते महाबलाः ।3.3.12.३० ।।


देवसिंहमतेनैव योगिनस्ते तदाभवन् ।।
नर्तकश्चैव कृष्णांशश्चाह्लादो डमरुप्रियः ।। ३१।।


मड्डुधारी तदा देवो वीणाधारी च तालनः ।।
वत्सजः कांस्यधारी च बलखानिर्महाबलः ।। ३२ ।।


मातुरग्रे स्थितास्ते वै ननृतुः प्रेमविह्वलाः।।
मोहिता देवकी चासीन्न ज्ञातं तत्र कारणम् ।। ३३।।


मोहितां मातरं दृष्ट्वा परं हर्षमुपाययुः ।।
तदा तां कथयामासुर्वयं ते तनया हि भोः ।। ३४ ।।


नत्वा तां प्रययुः सर्वे पुरीं माहिष्मतीं शुभाम् ।।
नगरं मोहयामासुर्वाद्यगानविशारदाः ।। ३५ ।।


दूत्या सार्द्धं रिपोर्गेहं ययुस्ते कार्यतत्पराः ।।
नृत्यगानसुवाद्यैश्च राज्ञस्ते मोहने रताः ।। ३६ ।।


विसंज्ञां महिषीं कृत्वा कृष्णांशः सर्वमोहनः ।।
प्राप्तवांस्तत्र यत्रासौ तत्सुता विजयैषिणी ।। ३७ ।।


दृष्ट्वा सा सुंदरं रूपं श्यामांगं पुरुषोत्तमम् ।।
मुमोह वशमापन्ना मैथुनार्थं समुद्यता ।। ३८।।


दृष्ट्वा तथा गतां नारीं कृष्णांशः श्लक्ष्णया गिरा ।।
शत्रोर्भेदं च पप्रच्छ कामिनीं मदविह्वलाम् ।।३९।।


साह भो देवकीपुत्र यदि पाणिं ग्रहीष्यसि।।
तर्हि ते कथयिष्यामि पितुर्भेदं हि दारुणम् ।3.3.12.४०


तथेत्युक्त्वा स बलवाँस्तस्याः पाणिं गृहीतवान् ।।
ज्ञात्वा भेदं रिपोः सर्वं तामाश्वास्य ययौ मुदा ।।४१।।


एतस्मिन्नन्तरे राज्ञी बाधिता प्राह योगिनम् ।।
देशराजप्रियाहारं नवलक्षस्य मूल्यकम् ।।
तुभ्यं दास्यामि संतुष्टा नृत्यगानविमोहिता ।। ४२ ।।


इति श्रुत्वा वत्ससुतस्तां प्रशस्य गृहीतवान् ।।
प्रययौ बंधुभिः सार्द्धं जम्बूको यत्र तिष्ठति ।। ४३ ।।


ननर्त तत्र कृष्णांशो बलखानिरगायत ।।
आह्लादस्तालनो देवो दध्मुर्वाद्यगतीर्मुदा ।। ४४ ।।


मोहितोऽभून्नृपस्तत्र कालियः स्वजनैः सह ।।
कामं वरय कृष्णांग यच्च ते हृदये स्थितम् ।। ४५ ।।


इति श्रुत्वा वचः शत्रोर्बलखानिर्महाबलः ।।
तमाह भो महीपाल लक्षावर्तिर्वरांगना ।।
स्वविद्यां दर्शयेन्मह्यं तदा तृप्तिं व्रजाम्यहम् ।। ४६ ।।


इति श्रुत्वा तथा मत्वा लक्षावर्तिं नृपोत्तमः ।।
सभायां नर्तयामास देशराजप्रियां तथा ।। ४७ ।।


सा वेश्या सुतमाह्लादं ज्ञात्वा योगित्वमागतम् ।।
रुरोद तत्र दुःखार्ता नेत्रादश्रूणि मुंचती ।। ४८ ।।


रुदितां तां समालोक्य रुदन्नाह्लाद एव सः ।।
स्वभुजौ ताडयामास तत्प्रियार्थे महाबलः ।। ४९ ।।


कृष्णांशस्तत्र तं हारं तस्याः कंठे प्रदत्तवान् ।।
उवाच क्रोधताम्राक्षस्तामाश्वास्य पुनःपुनः ।3.3.12.५० ।


अहं चोदयसिंहोऽयं पितुर्वैरार्थमागतः ।।
हनिष्यामि रिपुं भूपं सात्मजं सबलं तथा ।। ५१ ।।


इति श्रुत्वा वचस्तस्य कालियो बलवत्तरः ।।
पितुराज्ञां पुरस्कृत्य शतव्यूहसमन्वितः ।। ५२ ।।


तेषां च बंधनायैव कपाटं समरुद्ध सः ।।
ताञ्छत्रून्समनुज्ञाय पाशहस्तान्सशस्त्रगान् ।।५३।।


स्वंस्वं खड्गं समाकृष्य क्षत्रियास्ते समाघ्नत ।।
शतशूरे हते तैश्च कालियो भयकातरः ।। ५४ ।।


त्यक्त्वा तातं प्रदुद्राव ते तु गेहाद्बहिर्ययुः ।।
स्वसैन्यं शीघ्रमासाद्य युद्धाय समुपस्थितः ।।
शिबिराणि कृतान्येव नर्मदाकूलमास्थितैः ।। ५५ ।।


कृत्वा तु नर्मदासेतुं नल्वमात्रं सुपुष्टिदम् ।।
स्वसैन्यं तारयामास चतुरंगसमन्वितम् ।। ५६ ।।


रुरोध नगरीं सर्वां बलखानिर्बलैर्युतः ।।
शतघ्नीरग्रतः कृत्वा महाशब्दकरीस्तदा ।।
माहिष्मत्याश्च हर्म्याणि पातयामास भूतले ।। ५७ ।।


नराश्च स्वकुलैः सार्द्धं मुख्यद्रव्यसमन्विताः ।।
विंध्याद्रेश्च गुहां प्राप्य तत्रोषुर्भयकातराः ।। ५८ ।।


कालियस्तु गजानीके पंचशब्दगजे स्थितः ।।
हस्तिपा दशसाहस्रा युद्धाय समुपाययुः ।। ५९ ।।


तस्यानुजः सूर्यवर्मा त्रिलक्षैस्तुरगैर्युतः ।।
तुंदिलश्च रथैः सार्द्धं रथस्थश्च सहस्रकैः ।।3.3.12.६० ।।


रंकणो वंकणश्चोभौ चतुर्लक्षपदातिभिः ।।
जग्मतुस्तौ महाम्लेच्छौ म्लेच्छभूपसहस्रकैः ।।


दाक्षिणात्यग्रामपास्ते तौ पुरस्कृत्य संययुः ।।६१।।
उभे सेने समासाद्य युद्धाय समुपस्थिते ।।
तयोश्च तुमुलयुद्धमभवल्लोमहर्षणम् ।।६२।।


त्रियामे रुधिरैस्तेषां नदी प्रावर्तत द्रुतम् ।।
दृष्ट्वास्रजां नदीं घोरां मांसकर्दमवाहिनीम् ।।
बलखानिरमेयात्मा खङ्गपाणिर्नरो ययौ ।। ६३ ।।


भल्लहस्तस्तदा देवो मनोरथहये स्थितः ।।
बिंदुलस्थश्च कृष्णांशः खङ्गेनैव रिपूनहन् ।। ६४ ।।


आह्लादश्च गदाहस्तः पोथयामास वाहिनीम् ।।
रूपणो नाम शूद्रश्च शक्तिहस्तोन्यहन्रिपून् ।।
तालनो हस्तनिस्त्रिंशो माहिष्मत्यां हनन्ययौ ।। ६५ ।।


एवं महाभये जाते रणे तस्मिन्महाबले ।।
दुद्रुवुः सर्वतो वीराः पाहिपाहीत्यथाब्रुवन् ।। ६६ ।।


प्रभग्नं स्वबलं दृष्ट्वा कालियो बलखानिकम् ।।
गजस्थस्ताडयामास स्वबाणैस्तं महाबलः ।। ६७ ।।


हरिणी वडवा तस्य ज्ञात्वा स्वामिनमातुरम् ।।
गजोपरि समास्थाय स्वपादैस्तमपातयत् ।। ६८ ।।


पतिते कालिये वीरे पंचशब्दो महागजः ।।
शृंखलैस्ताडयामास शूरांस्तान्मदमत्तकान्।। ।। ६९ ।।


मूर्च्छिते पंचशूरे तु रूपणो भयकातरः ।।
देवकीं वर्णयामास यथाजातं गजेन वै ।।3.3.12.७०।।


तदा तु दुःखिता देवी दोलामारुह्य सत्वरा ।।
तं गजं च समासाद्य वर्णयामास कारणम् ।। ७१ ।।


गजराज नमस्तुभ्यं शक्रदत्त महाबल ।।
एते पुत्रास्तु ते वीर पालनीया यथा पितुः ।।७२।।


इति श्रुत्वा दिव्यगजो देवमायाविशारदः ।।
देवकीं शरणं प्राप्य क्षमस्वागस्कृतं मम ।। ७३ ।।


इत्युक्ते गजराजे तु कृष्णांशो बलवत्तरः ।।
त्यक्त्वा मूर्च्छां ययौ तत्र यत्राह्लादश्च मूर्च्छितः ।। ७४ ।।


तमुत्थाप्य करस्पर्शैर्बलखानिसमन्वितः ।।
पितुर्गजं महामत्तमाह्लादाय प्रदत्तवान् ।।
कराल मन्दं स्मितं रूपणाय तदा ददौ ।। ७५ ।।


मूर्च्छितं कालियं शत्रुं बद्ध्वा स निगडैर्दृढैः ।।
सेनान्तं प्रेषयामास बलखानिर्महाबलः ।। ७६ ।।


सूर्यवर्मा तदा ज्ञात्वा बद्धं बंधुं च कालियम् ।।
प्रययौ शत्रुसेनान्तं क्रोधेन स्फुरिताधरः ।। ७७ ।।


तमायान्तं समालोक्य ते वीरा युद्धदुर्मदाः ।।
रथस्थं मंडलीकृत्य स्वस्वमस्त्रं समाक्षिपन् ।। ७८ ।।


कुंठितेऽस्त्रे तदा तेषां विस्मितास्तेऽभवन्मुने ।।
चिन्तां च महतीं प्राप्ताः कथं वध्यो भवेदयम् ।। ७९ ।।


तस्यास्त्रैस्ते महावीरा व्रणार्तिभयपीडिताः ।।
त्यक्त्वा युद्धं पुनर्गत्वा रणं चक्रुः पुनःपुनः।3.3.12.८०।


एवं कति दिनान्येव बभूव रण उत्तमः ।।
आह्लादो वत्सजो देवस्तालनो भयसंयुतः ।।
कृष्णांशं शरणं जग्मुस्तेन वीरेण मोहिताः ।। ८१ ।।


कृष्णस्तु तं तथा दृष्ट्वा देवीं विश्वविमोहिनीम् ।।
तुष्टाव मनसा वीरो रात्रिसूक्तं पठन्हृदि ।। ८२ ।।


तदा तुष्टा जगद्धात्री दुर्गा दुर्गार्तिनाशिनी ।।
मोहयित्वा तु तं वीरं तत्रैवांतरधीयतः ।।८३।।


निद्रया मोहितं दृष्ट्वा कृष्णांशस्तु महाबलः ।।
बबंध निगडैस्तं च देवक्यन्ते समागमत् ।। ८४ ।।


तुंदिलश्च तथा ज्ञात्वा भातृशोकपरिप्लुतः ।।
आजगाम हयारूढः खङ्गहस्तो महाबलः ।।
रिपुसैन्यस्य मध्ये तु बहुशूरानताडयत् ।। ८५ ।।


माहिष्मत्याश्च ते शूरा रंकणेन समन्विताः ।।
तत्सैन्यं भञ्जयामासुस्तालनेन प्रपालितम् ।। ८६ ।।


प्रद्रुतं स्वं बलं दृष्ट्वा तालनः परिघायुधः ।।
शिरांसि पोथयामास म्लेच्छानां च पृथक्पृथक् ।। ८७ ।।


वंकणं च तथा हत्वा खड्गेनैव च रंकणम् ।।
तुंदिलं च तथा बद्ध्वा दिनान्ते शिबिरं ययौ ।।८८।।


कालिये च रिपौ बद्धे सुबद्धे सूर्यवर्मणि ।।
तुंदिले च तथा बद्धे रंकणे वंकणे हते ।। ८९ ।।


सहस्रं म्लेच्छराजानो हतशेषा बलान्विताः ।।
पक्षमात्रमहोरात्रं युद्धं चक्रुः समंततः ।। 3.3.12.९० ।।


प्रत्यहं तालनो वीरः सेनापतिरमर्षणः ।।
षष्टिं भूपाञ्जघानाशु शत्रुसैन्यभयंकरः ।। ९१ ।।


भयभीता रिपोः शूरा हता भूपा हतौजसः ।।
हतशेषा ययुर्गेहमर्द्धसैन्या भयातुराः ।। ९२ ।।


जम्बुकस्तु तथा श्रुत्वा दुःखितो गेहमाययौ ।।
व्रतं ह्यनशनं कृत्वा रात्रौ शोचन्नशेत सः ।। ९३ ।।


निशीथे समनुप्राप्ते तत्सुता विजयैषिणी ।।
पूर्णा तु सा कला ज्ञेया राधाया व्रजवासिनी ।।९४।।


आश्वास्य पितरं तं च ययौ मायाविशारदा ।।
रक्षकाञ्छिविराणां च मोहयित्वा समाययौ ।। ९५ ।।


भ्रातरो तत्र गत्वासौ यत्र सर्वानबोधयत् ।।
कृत्वा सा राक्षसीं मायां पंचवीरानमोहयत् ।। ९६ ।।


निरस्त्रकवचान्बंधून्प्रतिदोलां समारुहत् ।।
पितुरंतिकमासाद्य तस्मै भ्रातृन्ददौ मुदा ।।९७।।


प्रभाते बोधिताः सर्वे स्नानध्यानादिकाः क्रियाः ।।
कृत्वा ययू रिपोः शालां दृष्टवन्तो न तांस्तदा ।। ९८।।


बभूबुर्दुःखिताः सर्वे किमिदं कारणं कथम् ।।
तानुवाच तदा देवः प्राप्ता ह्यत्र रिपोः सुता ।। ९९ ।।


कृत्वा सा राक्षसीं मायां हृत्वा तान्गेहमाययौ ।।
तस्माद्यूयं मया सार्द्धं गत्वा यत्रैव तद्गुरुः ।। ।। 3.3.12.१०० ।।


विंध्योपरि महारण्ये नानासत्त्वनिषेविते ।।
कुटीरं तस्य तत्रैव नाम्नैवैलविली हि सः ।। 

                     (इलविला)
योगसिद्धियुतः कामी राक्षसेभ्यो हि निर्भयः ।। १०१ ।।


जम्बुकस्य सुता तत्र प्रत्यहं स्वजनैर्युता ।।
एकाकिनी च सा रात्रौ स्वं गुरुं तमरीरमत् ।। १०२ ।।


कृतेयं चैलविलिना माया मनुजमोहिनी ।।
कार्यसिद्धिं गमिष्यामो गत्वा तं पुरुषाधमम् ।।
इति श्रुत्वा तु चत्वारो विनाह्रादं ययुर्वनम् ।। १०३ ।।


गीतनृत्यप्रवाद्यैश्च मोहयित्वा च त दिने ।।
वासं चक्रुश्च तत्रैव धूर्तं मायाविशारदम् ।। १०४ ।।


स तु पूर्वभवे दैत्यश्चित्रो नाम महासुरः ।।
बाणकन्यामुषां नित्यमवाञ्छच्छिव पूजकः ।।
जात ऐलविली नाम पक्षपूजी स वेगवान् ।।१ ०५।।


तयोर्मध्ये प्रमाणोऽयं विवाहो मे यदा भवेत् ।।
तदाहं त्वां भजिष्यामि संत्यक्त्वोद्वाहितं पतिम् ।।१०६ |


हते तस्मिन्महाधूर्ते गत्वा संग्राममूर्द्धनि ।।
जम्बुकस्य ययुर्दुर्गं दृष्ट्वा ते तं समारुहन् ।।
हत्वा तत्र स्थितान्वीराञ्छतघ्न्यः परिखाकृताः ।।१०७।।


तदा तु जम्बुको राजा शिवदत्तवरो बली ।।
जित्वा पञ्च महावीरान्बद्ध्वा तान्निगडैर्दृढैः ।।
शैवं यज्ञं च कृतवांस्तेषां नाम्नोपबृंहितम् ।। १०८ ।।


रूपणस्तु तथा ज्ञात्वा देवकीं प्रत्यवर्णयत् ।।
तदा तु दुःखिता देवी भवानीं भयहारिणीम् ।।
मनसा च जगामाशु शरण्यां शरणं सती ।। १०९ ।।


तदा तुष्टा जगाद्धात्री स्वप्नांते तामवर्णयत् ।।
अहो देवकि कल्याणि पुत्रशोकं त्यजाधुना ।। 3.3.12.११० ।।


यदा तु जम्बुको राजा शिवदत्तवरो बली ।।
होमं कर्ता स मंदात्मा तेषां च बलिहेतवे ।। १११ ।।


मोहयित्वा तदाहं तं मोचयित्वा च ते सुतान् ।।
विजयं ते प्रदास्यामि मा च शोके मनः कृथाः ।। ११२ ।।


इति श्रुत्वा सती देवी नमस्कृत्य महेश्वरीम् ।।
पूजयामास विधिवद्धूपदीपोपहारकैः ।। ११३ ।।


एतस्मिन्नंतरे राजा देवमायाविमोहितः ।।
सुष्वाप तत्र होमान्ते ते च जाता ह्यबंधनाः ।। ११४ ।।


तैर्बद्धो जम्बुको राजा निगडैरायसैर्दृढैः ।।
ते तं बद्ध्वा ययुः शीघ्रं देवकीं प्रति निर्भयाः ।। ११५ ।।


एतस्मिन्नंतरे तत्र कालियाद्यास्त्रयः सुताः ।।
त्रिलक्षं सैन्यमादाय युद्धाय समुपाययुः ।। ११६ ।।


पुनर्युद्धमभूद्घोरं सेनयोरुभयोस्तदा ।।
तालनाद्याश्च चत्वारो हत्वा तां रिपुवाहिनीम् ।। ११७ ।।


त्रीञ्छत्रून्कोष्ठकीकृत्य स्वशस्त्रैर्जघ्नुरूर्जिताः ।।
एवं दिनानि कतिचित्तत्र जातो महारणः ।। ११८ ।।


कालियो दुःखितो भूत्वा सस्मार मनसा हरम् ।।
मोहनं मंत्रमासाद्य मोहयामास तान्रिपून् ।। ११९ ।।


एतस्मिन्नंतरे देवी देवकी पतिदेवता।।
पातिव्रत्यस्य पुण्येन सुतांतिकमुपागता।।3.3.12.१२० ।।


बोधयित्वा तु कृष्णांशं पञ्चशब्दगजस्थितम् ।।
पुनस्तुष्टाव जननीं सर्वविश्वविमोहिनीम् ।।
तदा तुष्टा स्वयं देवी बोधयामास तान्मुदा ।। १२१ ।।


आह्लादः सूर्यवर्माणं कालियं च ततोऽनुजः ।।
जघान बलखानिस्तं तुन्दिलं जम्बुकात्मजम् ।।१२२।।


ते तु पूर्वभवे विप्र जरासंधः सकालियः ।।
द्विविदो वानरः शूरः सूर्य्यवर्मेह चाभवत् ।।१२३।।


त्रिशिरास्तुदिलो जातः शृगालः स च जम्बुकः ।।
नित्यवैरकराः सर्वे भूपाश्चासन्महीतले ।।१२४ ।।


हतेषु शत्रुपुत्रेषु देवकी जम्बुकं रिपुम् ।।
खङ्गेन तर्जयामास पतिशोकपरायणा ।। १२५ ।।


कृष्णांशः शिरसी पित्रोर्गृहीत्वा स्नेहकातरः ।।
जम्बुकस्यैव हदये स्थापयामास विह्वलः ।।१२६।।


विहस्य तौ तदा तत्र प्रोचतुर्वचनं प्रियम् ।।
चिरं जीव हि कृष्णांश गयां कुरु महामते ।।
इति वाणी तयोर्जाता बलिनो प्रेतदेहयोः ।। १२७ ।।


खड्गहस्ता च सा देवी शिलायंत्रे तु तं रिपुम् ।।
संस्थाप्य चोदयामास स्वपुत्रान्हर्षसंयुता ।।१२८।।


हे पुत्राः स्वपितुः शत्रुं जम्बुकं पुरुषाधमम् ।।
खण्डखण्डं च तिलशः कृत्वानन्दसमन्विताः ।। १२९ ।।


संचूर्णयत तद्गात्रं तत्तैलैर्मदनिर्मितैः ।।
स्नास्याम्यहं तथेत्युक्त्वा रुरोद जननी भृशम् ।। 3.3.12.१३० ।।


तथा कृत्वा तु ते पुत्रा महिषीं ससुतां तदा ।।
बलखानियुतास्तत्राहूय चक्रुश्च तत्क्रियाम् ।। १३१ ।।


तदा परिमलं राज्ञी दृष्ट्वा स्वामिनमातुरम् ।।
मरणायोन्मुखं विप्र पंचत्वमगमन्मुने ।। १३२ ।।


तत्सुता खड्गमानीय बलखानिभुजं प्रति ।।
कृतित्वा मूर्छयित्वा तं तत्पक्षानन्वधावत।।१३३।।


तालनं देवसिंहं च रामांशं च तथाविधम्।।
कृत्त्वान्यांश्च तथा शत्रूनगच्छत्कुलकातरा।।१३४।।


कृष्णांशं मोहयित्वाशु मायया च समाहरत्।।
हते तत्र शते शूरे बलखानिरमर्षितः ।।
तच्छिरश्च समाहृत्य चितायां च समाक्षिपत् ।। १३५ ।।


तदा वाणी समुत्पन्ना बलखाने शृणुष्व भोः ।।
अवध्या च सदा नारी त्वया वध्या ह्यधर्मिणः ।। १३६ ।।


फलमस्य विवाहे स्वे भोक्तव्यं पापकर्मणः ।।
इति श्रुत्वा तदा दुःखी बलखानिर्ययौ पुरम् ।। १३७ ।।


ततस्तु सैनिकाः सर्वे महाहर्षसमन्विताः ।।
शतोष्ट्रभारवाह्यानि लुंठयित्वा धनानि च ।। १३८ ।।


महावतीं समाजग्मुः कृतकृ त्यत्वमागताः ।।
हतशेषैश्चार्द्धसैन्यैः सहिता गेहमाययुः ।। १३९ ।। ।।


इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलि युगीयेतिहाससमुच्चये द्वादशोऽध्यायः ।। १२ ।।

भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः १३.< भविष्यपुराणम् ‎ | पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३

                 ।। ऋषय ऊचुः ।।
कस्मिन्मास्यभवद्युद्धं तयोः कतिदिनानि च ।।
तत्पश्चात्स्व पुरीं प्राय तदा किमभवन्मुने ।। १ ।।


                ।। सूत उवाच ।। 
पौषमास्यभवद्युद्धं तयोः शतदिनानि च ।।
ज्येष्ठे मासि गृहं प्राप्ता दध्मुर्वाद्यान्यनेकशः।। २ ।।


श्रुत्वा परिमलो राजा स्वसुताञ्जयिनो बलीन् ।।
ददौ दानानि विप्रेभ्यः सुखं जातं गृहेगृहे ।। ३ ।।


इति श्रुत्वा महीराजो बलखानिं महाबलम् ।।
तत्रागत्य नमस्कृत्य वचनं प्राह नम्रधीः ।। ४ ।।


अर्द्धकोटिमितं द्रव्यं मत्तः प्राप्य सुखी भव ।।
माहिष्मत्याश्च राष्ट्रं मे देहि वीर नमोस्तु ते ।। ५ ।।


वर्षे वर्षे च तद्द्रव्यं गृहाण बलवन्प्रभो ।।
इति श्रुत्वा तथा मत्वा बलखानिर्गृहं ययौ ।।६।।


वयस्त्रयोदशाब्दे च कृष्णांशे बलवत्तरे ।।
यथा जाता हरेर्लीला भृगुश्रेष्ठ तथा शृणु ।। ७ ।।


भाद्रे शुक्ले त्रयोदश्यां चाह्लादः सानुजो ययौ ।।
गयार्थे धनमादाय हस्त्यश्वरथसंकुलम् ।। ।। ८ ।।


कृष्णांशो बिन्दुलारूढो वत्सजो हरिणीस्थितः ।।
देवः पपीहकारूढः सुखखानिः करालके ।। ९ ।।


चत्वारो द्विदिनान्ते च गयाक्षेत्रं समाययुः ।।
पूर्णिमांते पुरस्कृत्य षोडशश्राद्धकारिणः।।3.3.13.१०।।


शतं शतं गजांश्चैव भूषितांश्च रथास्तथा ।।
ददुर्हयान्सहस्रं च हेममालाविभूषि तान् ।। ११ ।।


धेनूर्हिरण्यरत्नानि वासांसि विविधानि च ।।
दत्त्वा ते सुफलीभूय स्वगेहाय दधुर्मनः ।। १२ ।।


लक्षावर्तिस्तु या वेश्या ययौ बदरिकाश्रमम् ।।
प्राणांस्तत्र परित्यज्य साप्सरस्त्वमुपागता ।। १३ ।।


राकां चंद्रे तु संप्राप्तं राहुग्रस्ते तमोमये ।।
काश्यां समागता भूपा नाना देश्याः कुलैः सह ।।१४ ।।


हिमालयगिरौ रम्ये नानाधातुविचित्रिते ।।
तत्र शार्दूलवंशीयो नेत्रसिंहो महीपतिः ।। १५ ।।


रत्नभानो हते शूरे नेत्रसिंहो भयातुरः ।।
नवतुंगे समासाद्य तोषयामास वासवम् ।। १६ ।।


द्वादशाब्दान्तरे देवो ददौ ढक्कामृतं मुदा ।।
पार्वत्या निर्मितं यत्तु वासवाय स्वसेविने ।। १७ ।।


ददौ ढक्कामृतं राज्ञे पुनः प्राह शुभं वचः ।।
अस्य शब्देन भूपाल त्वं सैन्यं जीवयिष्यसि ।।१८।।


क्षयं शीघ्रं गमिष्यंति शत्रवस्ते महाभटाः।।
प्राप्ते ढक्कामृते तस्मिन्नेत्रसिंहो महाबलः ।।१९ ।।


नगरं कारयामास तत्र सर्वजनैर्युतम् ।।
योजनान्तं चतुर्द्वारं दुराधर्षं परैः सदा ।। 3.3.13.२० ।।


नेत्रसिंहगढं नाम्ना विख्यातं भारते भुवि ।।
काश्मीरान्ते कृतं राज्ये तेन शृंगसमं ततः ।। २१ ।।


पालितं नेत्रसिंहेन तत्पुरः पुत्रवन्मुने ।।
नेत्रपाल इति ख्यातो ग्रामोऽसौ दुर्गमः परेः ।। २२ ।।


सोऽपि राजा समायातो नेत्रसिंहो महाबलः ।।
कन्या स्वर्णवती तस्य रेवत्यंशसमन्विता ।।
कामाक्ष्या वरदानेन सर्वमायाविशारदा ।। २३ ।।


दृष्ट्वा तां सुंदरीं कन्यां बालेन्दुसदृशाननाम् ।।
मूर्च्छिताश्चाभवन्भूपा रूपयौवनमोहिताः ।। २४ ।।


दृष्ट्वा तां च तथाह्रादः सर्वरत्नविभूषिताम् ।।
षोडशाब्दवयोयुक्तां कामिनीं रतिरूपिणीम् ।।
मूर्च्छितश्चापतद्भूमौ सा तं दृष्ट्वा मुमोह वै ।। २५ ।।


दोलामारुह्य तत्सख्यौ नृपान्तिकमुपाययुः ।।
आह्लादस्तु समुत्थाय महामोहत्वमागतः ।। २६ ।।


दृष्ट्वा तथाविधं बंधुं कृष्णांशः प्राह दुःखितः ।।
किमर्थं मोहमायातो भवाँस्तत्वविशारदः ।। २७ ।।


रजो रागात्मकं विद्धि प्रमादं मोहजं तथा ।।
ज्ञानासिना शिरस्तस्य छिंधि त्वमजितः सदा ।। २८ ।।


इति श्रुत्वा वचो भ्रातुस्त्यक्त्वा मोहं ययौ गृहम् ।।
भोजयित्वा द्विजश्रेष्ठान्सहस्रं वेदतत्परान् ।। २९ ।।


दुर्गामाराधयामास जप्त्वा मध्यचरित्रकम् ।।
मासान्ते च तदा देवी दत्त्वाभीष्टं हृदि स्थितम् । 3.3.13.३०।


मोहयामास तां कन्यां विवाहार्थमनिन्दिता ।।
स्वप्ने ददर्श सा बाला रामांशं देवकीसुतम् ।। ३१ ।।


प्रातर्बुद्ध्वा तु संचिंत्य महामोहमुपाययौ ।।
तदा ध्यात्वा च कामाक्षीं सर्वाभीष्टप्रदायिनीम् ।। ३२ ।।


पौषमासे तु संप्राप्ते शुककंठे सुपत्रिकाम् ।।
बद्ध्वा तं प्रेषयामास शुकं पत्रस्थितं प्रियम् ।। ३३ ।।


स गत्वा पुष्पविपिनं महावतिपुरीस्थितम् ।।
नरशब्देन वचनं कृष्णांशाय शुकोब्रवीत ।। ३४ ।।


वीर तेऽवरजो बंधुर्नाम्नाह्लादो महाबलः ।।
तस्मै हि प्रेषिता पत्री स्वर्णवत्या हितप्रदा ।। ३५ ।।


तां ज्ञात्वा च पुनस्तस्या उत्तरं देहि मत्प्रियम् ।।
अथ वा पत्रमालिख्य तत्त्वं मे कुरु कंठके ।। ३६ ।।


इति श्रुत्वोदयो वीरो गृहीत्वा पत्रमुत्तमम् ।।
ज्ञातवांस्तत्र वृत्तांतमाह्लादाय पुनर्ददौ ।। ३७ ।।


जम्बुकश्च नृपो वीरो रुद्रदत्तवरो बली ।।
अजेयोन्यनृपैर्वीर त्वया युधि निपातितः ।। ३८ ।।


तथाविधं मत्पितरमिंद्रदत्तवरं रिपुम् ।।
तमेवं जहि संग्रामे मम पाणिग्रहं कुरु ।। ।। ३९ ।।


इति ज्ञात्वा स आह्लादस्तामाश्वास्य हृदि स्थिताम् ।।
शुककंठे बबंधाशु लिखित्वा पत्रमुत्तमम्।3.3.13.४० ।


स शुकः पन्नगः पूर्वं पुंडरीकेन शापितः ।।
रेवत्यंशस्य कार्यं च कृत्वा मोक्षत्वमागतः ।। ४१ ।।


मृते तस्मिञ्छुके रम्ये देवी स्वर्णवती तदा ।।
दाहयित्वा ददौ दानं विप्रेभ्यस्तस्य तृप्तये ।। ४२ ।।


माघमासि च संप्राप्ते पंचम्यां कृष्णपक्षके ।।
आह्लादः सप्तलक्षैश्च सैन्यैः सार्द्धं ययौ मुदा ।। ४३ ।।


तालनाद्याश्च ते शूराः स्वंस्वं वाहनमाश्रिताः ।।
आह्लादं रक्षयन्तस्ते ययुः पंचदशाहकम् ।। ४४ ।।


वंगदेशं समुल्लंघ्य शीघ्रं प्राप्ता हिमालयम् ।।
रूपणं पत्रकर्त्तारं बलखानिरुवाच तम् ।। ४५ ।।


गच्छ त्वं वीर कवची करालाश्वं समास्थितः ।।
पंचशस्त्रसमायुक्तो राजानं शीघ्रमावह ।। ४६ ।।


युद्धचिह्नं तनौ कृत्वा मामागच्छ त्वरान्वितः ।।
तथा मत्वा शिखंड्यंशो ययौ शीघ्रं स रूपणः ।।४७।।


स ददर्श सभां राज्ञो बहुशूरसमन्विताम्।।
पार्वतीयैर्नृपैः सार्द्धं सहस्रैर्बलवत्तरैः ।। ४८ ।।


स उवाच नृपश्रेष्ठं नेत्रसिंहं महाबलम् ।।
त्वत्सुताया विवाहाय बलखानिर्महाबलः ।।
सप्तलक्षबलैर्गुप्तः संप्राप्तस्तव राष्ट्रके ।। ४९ ।।


तस्मात्त्वं स्वसुतां शीघ्रमाह्लादाय समर्पय ।।
शुल्कं मे देहि नृपते युद्धरूपं सुदारुणम् ।3.3.13.५०।


इति श्रुत्वा वचस्तस्य स राजा क्रोधमूर्छितः ।।
पट्टनाधिपमाज्ञाय भूपं पूर्णबलं रुषा ।।
अरुधत्स कपाटं च तस्य बंधनहेतवे ।। ५१ ।।


पाशहस्ताञ्छूरशतं पट्टनाधिपरक्षितान् ।।
दृष्ट्वा स रूपणो वीरः खड्गयुद्धमचीकरत् ।। ५२ ।।


हत्वा तन्मुकुटं राज्ञो गृहीत्वाकाशगो बली ।।
बलखानिं तु संप्राप्य चिह्नं तस्मै न्यवेदयत् ।। ५३ ।।


इति श्रुत्वा प्रसन्नात्मा सप्त लक्षदलैर्युतः ।।
अरुधन्नगरीं सर्वां नेत्रसिंहेन रक्षिताम् ।। ५४ ।।


नेत्रसिंहस्तु बलवान्पार्वतीयैर्नृपैः सह ।।
हिमतुंगतलं प्राप्य युद्धार्थी तान्समाह्वयत् ।। ५५ ।।


सहस्रं च गजास्तस्य हया लक्षं महाबलाः ।।
सहस्रं च नृपाः शूराश्चतुर्लक्ष पदातिभिः ।। ५६ ।।


योगसिंहो गजैः सार्द्धं बलखानिं समाह्वयत् ।।
भोगसिंहो हयैः सार्द्धं कृष्णांशं च समाह्वयत् ।। ५७ ।।


विजयो नृपपुत्रश्च सर्वभूपतिभिः सह ।।
देवसिंहस्तथा म्लेच्छै रूपणं च समाह्वयत् ।। ५८ ।।


तयोश्चासीन्महद्युद्धं सेनयोस्तत्र दारुणम् ।।
निर्भयाश्चैव ते शूराः पार्वतीयाः समंततः ।।
जघ्नुस्ते शात्रवीं सेनां द्विलक्षां वीरपालिताम् ।। ५९ ।।


प्रभग्नं स्वबलं दृष्ट्वा चत्वारो मदमत्तकाः ।।
दिव्यानश्वान्समारुह्य चक्रुः शत्रोर्महावधम् ।।
पुनरुजीवितं सर्वं ढक्कामृतरवाद्बलम् ।। 3.3.13.६० ।।


युद्धाय संमुखं प्राप भृगुश्रेष्ठ पुनः पुनः ।।
अहोरात्रं रणश्चासीत्तेषां तत्रैव दारुणः ।। ६१ ।।


एवं सप्ताह्नि संजाते युद्धे भीरुभयंकरे ।।
उपायैर्बहुभिर्वीराश्चक्रुश्चैव रणं बहुम् ।। ६२ ।।


पुनस्ते जीवमापन्ना जघ्नुस्तान्रिपुसैन्यपान्।।
तालनाद्यास्तु ते शूरा दुःखितास्तत्र चाभवन् ।।
निराशां विजये प्राप्य कृष्णांशं शरणं ययुः ।। ६३ ।।


तानाश्वास्य स कृष्णांशस्तत्र दिव्यहये स्थितः ।।
नभोमार्गेण बलवान्स्वर्णवत्यंतिकं ययौ ।। ६४ ।।


हर्म्योपरि स्थितां देवीं सर्वशोभासमन्विताम् ।।
नत्वोवाच वचः श्लक्ष्णं किंकरोहमिहोदयः ।।
शरण्यां त्वामुपागच्छं कामाक्षीमिव भामिनि ।। ६५ ।।


वृत्तान्तं कथयामास यथासीच्च महारणः ।।
श्रमेण कर्शिता वीरा निराशां जीवनेऽगमन् ।। ६६ ।।


साह चोदयसिंह त्वं कामाक्ष्या मंदिरं व्रज ।।
अहं च स्वालिभिः सार्धं नवम्यां पूजने रता ।। ६७ ।।


ढक्कामृतस्य वाद्येन पूजये सर्वकामदाम् ।।
इति श्रुत्वा स बलवान्स्वसैन्यं प्रति चागमत् ।। ६८ ।।


अर्धशेषां रणात्सेनां पराजाप्य च दुद्रुवुः ।।
पट्टनाख्यपुरे प्राप्तां जयं प्राप्य महाबलाः ।। ६९ ।।


पराजिते रिपौ तस्मिन्नेत्रसिंहसुतैः सह ।।
गृहमागत्य बलवान्विप्रेभ्यो गोधनं ददौ ।। 3.3.13.७० ।।


नवम्यां पितरं प्राह देवी स्वर्णवती तदा ।।
कामाक्षीसेवनेनाशु कुरु यागोत्सवं मम ।।
यत्प्रसादाच्च विजयी दुर्जयेभ्योऽभवद्भवान् ।। ७१ ।।


इति श्रुत्वा पिता प्राह स्वप्नो दृष्टस्तथा मया ।।
पूजनान्मंगलं राज्ञां नो चेद्विघ्नो हि शोभने ।। ७२ ।।


पित्रोक्तैवं निशायां तु सा सुता पितुराज्ञया ।।
ढक्कामृतस्य वाद्येन कामाक्षीमदिरं ययौ ।। ७३ ।।


कृष्णांशो माल्यकारस्य वधूर्भूत्वा समागतः ।।
ढक्कामृतं च नारीभ्यो गृहीत्वा त्वरितो ययौ ।। ७४।।


एतस्मिन्नन्तरे वीराः षष्टिर्वाहनसंयुताः ।।
ढक्कार्थं प्रययुः शीघ्रं सर्वशस्त्रैः समुद्यताः ।।७५।।


तानागतान्स बलवान्दृष्ट्वा खड्गं गृहीतवान् ।।
पंचपंचाशतः शूराननयद्यमसादनम् ।। ७६ ।।


कृष्णांशस्त्वरितो गत्वा रूपणो यत्र तिष्ठति ।।
ढक्कामृतं च संप्राप्य हयारूढो ययौ सभाम् ।।७७।।


हृते ढक्कामृते दिव्ये नेत्रसिंहो भयातुरः ।।
ऐन्द्रं यज्ञं तथा कृत्वा हवनाय परोऽभवत् ।। ७८ ।।


प्रभाते समनुप्राप्ते ते वीराः स्वबलैः सह ।।
तरसा प्रययुः सर्वे गजोष्ट्रहयसंस्थिताः ।।
दिनान्ते प्राप्तवंतश्च यत्राभूत्समहारणः ।। ७९ ।।


कृष्णांशः पूजयित्वा तं दध्मौ ढक्कामृतं बली ।।
तच्छब्देन मृता वीराः पुनरुजीवितास्तदा।।3.3.13.८०।


सप्तलक्षबलं तस्य पुनः प्राप्तं मदातुरम् ।।
रुरोध नगरीं सर्वां दध्मौ वाद्यान्यनेकशः ।। ८१ ।।


रुद्धे तु नगरे तस्मिन्नेत्रसिंहो भयातुरः ।।
स्वात्मानमर्पयामास वह्नौ शक्राय धीमते ।। ८२ ।।


तदा प्रसन्नो भगवानुवाच नृपतिं प्रति ।।
रामांशोयं च कृष्णांशो भुवि जातौ कलैकया ।। ८३ ।।


तस्मै योग्याय सा कन्या रामांशाय यशस्विने ।।
योगिनीयं स्वर्णवती रेवत्यंशावतारिणी ।।८४।।


इत्युक्त्वा च स्वयं देवो ढक्कामृतमुमाप्रियम् ।।
हृत्वा वह्नौ समाक्षिप्य दुर्गायै संन्यवेदयत् ।। ८५ ।।


गते तस्मिन्सुरपतो स राजा ब्राह्मणैः सह ।।
महीपतिं प्रति ययौ मेलनार्थं समुद्यतः ।। ८६ ।।

                    (आर्याभीरी)
तथागतं नृपं दृष्ट्वा कृष्णांशश्च महीपतिः ।।
आह्लादमातुलः प्राह मान्यः सर्वबलैः सदा ।।८७।।


राजन्नयं स बलवानाह्रादः सानुजैः सह ।।
मत्पंक्तौ न स्थितो वीरः कुले हीनत्वमागतः ।। ८८ ।।

_________________
आर्याभीरी स्मृता तेषां किं त्वया विदितं न हि ।।
यदि देया त्वया कन्या तर्हि त्वं हीनतां व्रज ।। ८९ ।।


अतस्त्वं वचनं चेदं कुलयोग्यं शृणुष्व भोः ।।
चतुरो बालकान्नीचांस्तालनेन समन्वितान् ।3.3.13.९०।


वञ्चयित्वा विवाहार्थे शिरांस्येषां समाहर ।।
मंडपति मखं कृत्वा चामुण्डायै समर्पय ।। ९१ ।।


त्वत्कन्यया समाहूता वीरा वै रेवती हि सा ।।
पश्चात्कन्यां स्वयं हत्वा कुलकल्याणमावह।। ९२ ।।


नो चेद्भवान्क्षयं यायात्सकुलो जंबुको यथा ।।
इत्युक्त्वा स ययौ सार्द्धं यत्राह्रादस्य बांधवः ।। ९३ ।।


इति श्रुत्वा स शल्यांशः सुयोधनमुखेरितम् ।।
तथेत्युक्त्वोत्सवं कृत्वा मंडपांते विधानतः ।।
आह्लादस्य समीपं स गत्वैतद्वंचनाय हि ।।
तमाह दंडवत्पादौ गृहीत्वा नृपतिस्स्वयम् ।। ९४ ।।


भवन्तोंशावताराश्च मया ज्ञाताः सुरोत्तमात् ।।
निरस्त्रान्पञ्च युष्मांश्च पूजयित्वा यथाविधि ।।
रामांशाय स्वकन्यां च दास्यामि कुलरीतितः ।। ९५ ।।


इत्याह्रादं समादिश्य स नृपश्छलमाश्रितः ।।
दुर्गोत्सवे ययौ गेहं तद्वधाय समुद्यतः ।। ९६ ।।


सहस्रं मंडपे भूपान्संस्थाप्य स्वबलैः सह ।।
तालनाद्यांश्च षट् शूरान्मंडपांते समाह्वयत् ।। ९७ ।।


विवाहप्रथमावर्ते योगसिंहोऽसिमुत्तमम् ।।
वरमाहत्य शिरसि जगर्ज बलवान्रुषा ।। ९८ ।।


तमाह तालनो धीमान्न योग्यं भवता कृतम् ।।
श्रुत्वाह नेत्रसिंहस्तं कुलरीतिरियं बलिन् ।।
निरायुधैः परैः सार्द्धं शस्त्रिणां संगरो हि नः ।। ९९ ।।


इति श्रुत्वा योगसिंहं कृष्णांशस्तं समारुधत् ।।
भोगसिंहं तथा कृष्य बलखानिर्गृहीतवान् ।। 3.3.13.१०० ।।


विजयं तृतीयावर्ते सुखखानिर्न्यरुंद्ध वै ।।
चतुर्थावर्तके शत्रुं नृपं पूर्णबलं शठम् ।।
रूपणस्तं गृहीत्वाशु युयुधे तद्बलैः सह ।। १०१ ।।


पंचमे बहुराजानं तालनश्च समारुधत् ।।
षष्ठावर्त्ते नेत्रसिंहं तथाह्लादो गृहीतवान् ।। १०२ ।।


संप्राप्ते तुमले युद्धे बहुशूराः क्षयं गताः ।।
निरायुधाः षड् बलिनः संक्षम्य व्रणमुत्तमम् ।।
निरायुधान्रिपून्स्वान्स्वांश्चक्रुः शक्तिप्रपूजकाः ।।१ ०३।।


एतस्मिन्नन्तरे देवः कालदर्शी समागतः ।।
नभोमार्गेण तानश्वांस्तेभ्य आगत्य संददौ ।। १०४ ।।


बिन्दुलं चैव कृष्णांशो देवस्तत्र मनोरथम् ।।
रूपणश्च करालाश्वं चाह्लादस्तु पपीहकम् ।। १०५ ।।


हरिणीं बलखानिश्च तद्भ्राता हरिनागरम् ।।
सिंहिनीं तालनः शूरः समारुह्य रणोद्यतः ।। १०६ ।।


रात्रौ तन्नृपतेः सेनां हत्वा बद्ध्वा च तत्पतिम् ।।
दोलां गेहाच्च निष्काश्य सप्तभ्रमरकारिताम् ।। १०७ ।।


स्वसैन्यं ते समाजग्मुर्निर्भया बलवत्तराः ।।
तान्सर्वान्नेत्रसिंहादीन्दृष्ट्वा पाहीति जल्पितः ।। १०८ ।।


निगडैरेकतः कृत्वा पञ्च भूपान्हि वंचकान् ।।
कारागारे महाघोरे तत्र तान्संन्यवासयन् ।। ।। १०९ ।।


नेत्रसिंहो वरो भ्राता सुन्दरारण्यभूमिपः ।।
हेतुं ज्ञात्वाययौ शीघ्रं मायावी लक्षसैन्यकः ।। 3.3.13.११० ।।


तत्रागत्य हरानन्दो नाम्ना तानयुधद्बली । ।
नेत्रसिंहस्य सैन्यं च चतुर्लक्षं तदागमत् । । १११ । ।


पञ्चलक्षै रणो घोरः सप्तलक्षयुतैरभूत् ।।
पञ्चाहोरात्रमात्रं च तयोश्चासीत्स संकुलः ।।
अर्द्धसैन्यं रिपोस्तत्र हतशेषमदुद्रुवत् ।। ११२ । ।


विस्मितः स हरानन्दो रुद्रमायाविशारदः ।।
बलाधिक्ययुताञ्ज्ञात्वा शिवध्यानपरोऽभवत् ।।११३ ।


रचित्वा शांबरीं मायां नानारूपविधारिणीम् । ।
पाषाणभूतान्सकलान्कृत्वा भूपान्समाययौ । ११४ ।


ससुतं भ्रातरं ज्येष्ठं नृपं पूर्णबलं ततः ।।
मोचयित्वा ययौ गेहं कृतकृत्यो महाबली ।। ११५ ।।


आह्लादं निगडैर्बद्ध्वा मायया जडतां गतम् ।।
नेत्रसिंहः स बलवान्ययौ स्वं दुर्गमुद्यतः ।।
तं प्रशंस्यानुजं वीरो विप्रेभ्यश्च ददौ धनम् ।। ११ ६। ।


तदा स्वर्णवती दीना बद्धं ज्ञात्वा पतिं निजम् ।।
कृष्णांशाद्यान्मोहितांश्च शंभुमायावशानुगान् । ।११ ७।।


रुरोदोच्चैस्तदा देवीं ध्यायंती कामरूपिणीम् । ।
तदा तुष्टा जगद्धात्री मूर्च्छितांस्तानबोधयत् । । ११८ । ।


ते सर्वे चेतनां प्राप्ताः प्राहुः स्वर्णवतीं मुदा ।।
क्वास्थितो वंधुराह्लादो देवि त्वं कारणं वद। ।११ ९।।


यथा बद्धः स्वयं स्वामी कथयामास सा तथा ।।
अहं शुकी भवाम्यद्य भवान्बिंदुलसंस्थितः।3.3.13.१२ ०


इत्युक्त्वा सा शुकी भूत्वा कृष्णांशेन समन्विता ।।
यत्रास्ते तत्पतिर्बद्धस्तत्र सा कामिनी ययौ ।। १२१ ।।

_______________________________________


कृष्णांशोऽपि हयारूढो नभोमार्गेण चाप्तवान् ।।
अभीरीं मूर्तिमासाद्य स्वामिनं प्रति सा ययौ ।। १ २२।।


आश्वास्य तं यथायोग्यं कृष्णांशं प्रत्यवर्णयत् ।।
कृष्णांशस्तत्र बलवान्हत्वा दुर्ग निवासिनः ।। १२३ ।।


रक्षकाञ्छतसाहस्रान्हत्वा भ्रातरमाययौ । ।
पौर्णिमां मधुयुक्तां च ज्ञात्वा सर्वे त्वरान्विताः ।। १२४ ।।


अयोध्यां शीघ्रमागम्य स्नात्वा वै सरयूं नदीम् । ।
होलिकादाहसमये शीघ्रं वेण्यां समागताः ।। १ २५। 


स्नानध्यानादिका निष्ठाः कृत्वा गेहमुपाययुः ।।
सागरस्य तटं प्राप्य कृत्वा ते च महोत्सवम् । ।
चैत्रस्य कृष्णपञ्चम्यां स्वगेहं पुनराययुः ।। १२६ ।।


दूता उष्ट्रसमारूढास्तत्क्षेमकरणोत्सुकाः । ।
वैशाखे शुक्लपंचम्यां स्वगेहं पुनराययुः ।। १२७ । ।


मलना भूपतिश्चैव गेहेगेहे महोत्सवम् ।।
कारयित्वा विधानेन ब्राह्मणेभ्यो ददौ धनम् । । १२८ ।।

___________________
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये त्रयोदशोऽध्यायः ।। १३ ।।भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः २४ < भविष्यपुराणम् ‎ | पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३





                      ।। सूत उवाच ।। 
अष्टाविंशाब्दके प्राप्ते कृष्णांशे बलवत्तरे ।।
कार्तिक्यामिंदुवारे च कृत्तिकाव्यतिपातभे।।१।।


कृष्णांशोऽयुतसेनाढ्यः स्वर्णवत्या समन्वितः।।
विवाहमुकुटस्यैव संत्यागाय ययौ मुदा।।२।।


पवित्रमुत्पलारण्यं वाल्मीकिमुनिसेवितम्।।
गंगाकूले ब्रह्ममयं लोहकीलकमुत्तमम्।।३।।


तत्र गत्वा स शुद्धात्मा पुष्पवत्या समन्वितः।।
गोसहस्रं च विप्रेभ्यो ददौ स्नाने प्रसन्नधीः।। ।। ४ ।।


एतस्मिन्नंतरे प्राप्ता म्लेच्छजातिसमुद्भवा ।।
शोभा नाम महारम्या वेश्या परमसुन्दरी।। ५ ।।


सा ददर्श परं रम्यं कृष्णाशं पुरुषोत्तमम्।।
तद्दृष्टिमोहमापन्ना व्याकुला चाभवत्क्षणात् ।। ६ ।।


मूर्च्छितां तां समालोक्य कृष्णांशः सर्वमोहनः ।।
स्वनिवासमुपागम्य विप्रानाहूय पृष्टवान् ।। ७ ।।


अष्टादश पुराणानि केन प्रोक्तानि किं फलम् ।।
ब्रूत मे विदुषां श्रेष्ठा वेदशास्त्रपरायणाः ।। ८ ।।


इति श्रुत्वा वचो रम्यं विद्वांसः शास्त्रकोविदाः ।।
अब्रुवन्वचनं रम्यं कृष्णांशं सर्वधर्मगम् ।। ९ ।।


पराशरेण रचितं पुराणं विष्णुदैवतम् ।।
शिवेन रचितं स्कांदं पाद्मं ब्रह्ममुखोद्भवम्।3.3.28.१०।।


शुकप्रोक्तं भागवतं ब्राह्मं वै ब्रह्मणा कृतम् ।।
गारुडं हरिणा प्रोक्तं षड् वै सात्त्विकसंभवाः ।।११।।


मत्स्यः कूर्मो नृसिंहश्च वामनः शिव एव च ।।
वायुरेतत्पुराणानि व्यासेन रचितानि वै ।। १२ ।।


राजसाः षट् स्मृता वीर कर्मकांडमया भुवि ।।
मार्कंण्डेयं च वाराहं मार्कण्डेयेन निर्मितम् ।। १३ ।।


आग्नेयमंगिराश्चैव जनयामास चोत्तमम् ।।
लिंगब्रह्मांडके चापि तंडिना रचिते शुभे ।।
महादेवेन लोकार्थे भविष्यं रचितं शुभम् ।। १४ ।।


तामसाः षट् स्मृताः प्राज्ञैः शक्तिधर्मपरायणाः ।।
सर्वेषां च पुराणानां श्रेष्ठं भागवतं स्मृतम् ।। १५ ।।


घोरे भुवि कलौ प्राप्ते विक्रमो नाम भूपतिः ।।
कैलासाद्भुवमागत्य मुनीन्सर्वान्समाह्वयत् ।। १६ ।।


तदा ते मुनयस्सर्वे नैमिषारण्यवासिनः ।।
सूतं सञ्चोदयामासुस्तेषां तच्छ्रवणाय च ।।
प्रोक्तान्युपपुराणानि सूतेनाष्टादशैव च ।। १७ ।।


इति श्रुत्वा तु वचनं कृष्णांशो धर्मतत्परः ।।
श्रुत्वा भागवतं शास्त्रं सप्तमेऽह्नि महोत्तमम् ।। १८ ।।


ददौ दानानि विप्रेभ्यो गोसुवर्णमयानि च ।।
ब्राह्मणान्भोजयामास सहस्रं वेदतत्परान् ।।१९।।


तदा तु भिक्षुकी भूत्वा शोभा नाम मदातुरा ।।
मायां कृतवती प्राप्य कृष्णांशो यत्र वै स्थितः ।। 3.3.28.२० ।।


ध्यात्वा महामदं वीरं पैशाचं रुद्रकिंकरम् ।।
मायां सा जनयामास सर्वपाषाणकारिणीम् ।। २१ ।।


दृष्ट्वा स्वर्णवती देवी तां मायां शोभयोद्भवाम् ।।
छित्त्वा चाह्लाद्य वामांगीं स्वगेहं गंतुमुद्यता २२ ।।


सा वेश्या तु शुचाविष्टा तस्याः शृंगारमुत्तमम् ।।
स्वर्णयंत्रस्थितं रम्यं लक्षद्रव्योपमूल्यकम् ।।
संहृत्य मायया धूर्ता देशं वाह्लीकमाययौ ।। २३ ।।


कल्पक्षेत्रमुपागम्य नेत्रसिंहसमुद्भवा ।।
वेश्यया मम शृंगारं हृतं ज्ञात्वा सुदुःखिता ।। २४ ।।


कृष्णांशं वचनं प्राह गच्छगच्छ महाबल ।।
गृहीत्वा मम शृंगारं शीघ्रमागच्छ मां प्रति ।। २५ ।।


गुटिकेयं मया वीर रचिता तां मुखेन च ।।
धूर्तमायाविनाशाय तव मंगलहेतवे ।। २६ ।।


इति श्रुत्वा तथा कृत्वा कृष्णांशस्सर्वमोहनः ।।
शूकरक्षेत्रमागम्य तत्र वेश्यां ददर्श ह ।। २७ ।।


सा तु वेश्या च तं वीरं दृष्ट्वा कन्दर्पकारिणम् ।।
रचयित्वा पुनर्मायां तदंतिकमुपागता ।। २८ ।।


तदा सा निष्फलीभूय रुरोद करुणं बहु ।।
रुदतीं तां समालोक्य दयालुस्स प्रसन्नधीः ।। २९ ।।


गृहीत्वा सर्वशृंगारं वचनं प्राह निर्भयः ।।
किं रोदिषि महाभागे सत्यं कथय मा चिरम् ।। 3.3.28.३० ।।


साह मे सहरो नाम भ्राता प्राणसमप्रियः ।।
नाट्यैश्च पञ्चसाहस्रैः सहितो मरणं गतः ।।३१।।


अतो रौमि महाभाग संप्राप्ता शरणं त्वयि ।।
इत्युक्त्वा मायया धूर्ता कृत्वा शवमयान्त्यजान् ।।३२।।


तस्मै प्रदर्शयामास निजकार्यपरायणा ।।
रुदित्वा च पुनस्तत्र प्राणांस्त्यक्तुं समुद्यता ।। ३३ ।।


दयालुस्स च कृष्णांशस्तामाह करुणं वचः ।।
कथं ते जीवयिष्यन्ति शोभने कथयाशु मे ।। ३४ ।।


साह वीर तवास्ये तु संस्थिता गुटिका शुभा ।।
देहि मे कृपया वीर जीवयिष्यन्ति ते तथा ।।३५।।


इत्युक्तस्तु तया वीरो ददौ तस्यै च तद्वसु।।
तदा प्रसन्ना सा धूर्ता कृत्वा शुकमयं वपुः ।।
पंजरस्थमुपादाय कृष्णांशं कामविह्वला ।।३६।।


बाह्लीकदेशमागम्य सारट्टनगरं शुभम् ।।
उवास च स्वयं गेहे कृत्वा दिव्यमयं वपुः ।।३७।।


निशीथे समनुप्राप्ते कृत्वा तं नररूपिणम् ।।
आलिलिंग हि कामार्ता कृष्णांशं धर्मकोविदम् ।।३८।।


दृष्ट्वा तां स तथाभूतां कृष्णांशो जगदंबिकाम् ।।
तुष्टाव मनसा धीरो रात्रिसूक्तेन नम्रधीः।।३९।।


तदा सा स्वेडिनी भूत्वा त्यक्त्वा कृष्णांशमुत्तमम् ।।
पुनः शुकमयं कृत्वा चिंचिणीवृक्षमारुहत् ।3.3.28.४० ।।


तदा स्वर्णवती देवी बोधिता विष्णुमायया ।।
कृत्वा श्येनीमयं रूपं तत्र गत्वा मुदान्विता ।।
ददर्श शुकभूतं च कृष्णांशं योगतत्परम् ४१ ।।


एतस्मिन्नंतरे वेश्या पुनः कृत्वा शुभं वपुः ।।
नरभूतं च कृष्णांशं वचनं प्राह नम्रधीः ।। ४२ ।।


अये प्राणप्रिय स्वामिन्भज मां कामविह्वलाम् ।।
पाहि मां रतिदानेन धर्मज्ञोसि भवान्सदा ।। ४३ ।।


इत्युक्तस्स तु तामाह वचनं शृणु शोभने ।।
ते आर्यवर्त्मस्थितोहं वै वेदमार्गपरायणः ।। ४४ ।।


विवाहितां शुभां नारीं यो भजेत ऋतौ न हि ।।
स पापी नरकं याति तिर्य्यग्योनिमयं स्मृतम् ।।
अतः परस्त्रिया भोगो ज्ञेयो वै निरयप्रदः ।। ४५ ।।


इति श्रुत्वा तु सा प्राह विश्वामित्रेण धीमता ।।
शृंगिणा च महाप्राज्ञ वेश्यासंगः कृतः पुरा ।।
न कोऽपि नरकं प्राप्तस्तस्मान्मां भज कामिनीम् ।। ४६ ।।


पुनश्चाह स कृष्णांशः कृत्तं पापं तपोबलात् ।।
ताभ्यां च मुनियुग्माभ्यामसमर्थो हि सांप्रतम् ।। ४७ ।।


अर्द्धांगं पुरुषस्य स्त्री मैथुने च विशेषतः ।।
अहमार्यश्च भवती वेश्या च बहुभोगिनी ।। ४८ ।।


ऋचि शब्दश्च पूर्वास्याज्जात ऋग्जस्सनातनः ।।
योगजश्चैव यः शब्दो दक्षिणास्याद्यजुर्भवः ।।४९।।


तद्धितान्तश्च यश्शब्दः पश्चिमास्याच्च सामजः ।।
छन्दोभूताश्च ये शब्दास् ते सर्वे ब्राह्मणप्रियाः ।।
केवलो वर्णमात्रश्च स शब्दोऽथर्वजः स्मृतः।3.3.28.५०।


पञ्चमास्याच्च ये जाताः शब्दाः संसारकारिणः ।।
ते सर्वे प्राकृता ज्ञेयाश्चतुर्लक्षविभेदिनः ।। ५१ ।।


हित्वा तान्यो हि शुद्धात्मा चतुर्वेदपरायणः ।।
स वै भवाटवीं त्यक्त्वा पदं गच्छत्यनामयम् ।। ५२ ।।


न वदेद्यावनीं भाषां प्राणैः कंठगतैरपि ।।
गजैरापीडयमानोऽपि न गच्छेज्जैनमंदिरम् ।। ५३ ।।


इत्येवं स्मृतिवाक्यानि मुनिना पठितानि वै ।।
कथं त्याज्यो मया धर्मस्सर्वलोकसुखप्रदः ।। ५४ ।।


इति श्रुत्वा तु सा वेश्या म्लेच्छायाश्चांशसंभवा ।।
शोभना नाम रंभोरूर्महाक्रोधमुपाययौ ।। ५५ ।।


वेतसैस्ताडयित्वा तं पुनः कृत्वा शुकं स्वयम् ।।
न ददौ भोजनं तस्मै फलाहारं शुकाय वै ।। ५६ ।।


तदा स्वर्णवती देवी कृत्वा नारीमयं वपुः ।।
मशकीकृत्य तं वीरं तत्रैवान्तर्दधे तु सा ।। ५७ ।।


पुनः श्येनीवपुः कृत्वा तद्देशाद्यातुमुद्यता ।।
पृष्ठमारोप्य मशकं मयूरनगरं ययौ ।। ५८ ।।


मकरंदस्तु तां दृष्ट्वा कृष्णांशेन समन्विताम् ।।
नेत्रपालस्य तनयां नाम्ना स्वर्णवती बली ।।
चरणावुपसंगृह्य स्वगेहे तामवासयत् ।। ५९ ।।


शोभनापि च संबुध्य पञ्जरान्तमुपस्थिता ।।
न ददर्श शुकं रम्यं मूर्छिता चापतद्भुवि ।3.3.28.६०।


किं करोमि क्व गच्छामि विना तं रमणं परम् ।।
इत्येव बहुधालप्य मदहीनपुरं ययौ ।। ६१ ।।


तत्र स्थितं च पैशाचं मायामदविशारदम् ।।
महामदं च संपूज्य स्वदेहं त्यक्तुमुद्यता ।। ६२ ।।


महामदस्तु संतुष्टो गत्वा वै शिवमंदिरम् ।।
मरुस्थलेश्वरं लिंगं तुष्टावार्षभभाषया ।। ६३ ।।


तदा प्रसन्नो भगवान्वचनं प्राह सेवकम् ।।
स्वर्णवत्या हृतो वीरः कृष्णांशश्चार्यधर्मगः ।।
मया सह समागच्छ मयूरनगरं प्रति ।। ६४ ।।


इत्युक्तस्तेन पैशाचो नटैः पंचसहस्रकैः ।।
तया सह ययौ तूर्णं सहुरेणं समन्वितः ।। ६५ ।।


इन्दुलश्च तथाह्लादो बोधितो विष्णुमायया ।।
त्रिलक्षबलसंयुक्तो देवसिंहेन संयुतः ।।
मयूरनगरं प्राप्य मकरंदमुपाययौ ।।६६।।


तदा तु शोभना वेश्या सहुरेण बलैस्सह ।।
चकार भैरवीं मायां सर्वशत्रुभयंकरीम् ।।६७।।


सर्वतश्चोत्थितो वातो महामेघसमन्वितः।।
पतंति बहुधा चोल्काः शर्करावर्षणे रताः ।। ६८।


दृष्ट्वा तां भैरवीं मायां तमोभूतां समन्ततः ।।
मकरन्दश्च बलवान्रथस्थः स्वयमाययौ ।। ६९ ।।


शनिभल्लेन तां मायां भस्म कृत्वा महाबलः ।।
गृहीत्वा सहुरं धूर्तं सबलं गेहमाप्तवान् ।। 3.3.28.७० ।।


तदा तु शोभना नारी काममायां चकार ह ।।
बहुलास्संस्थिता वेश्या गीतनृत्यविशारदाः ।। ७१ ।।


मोहिताः क्षत्रियाः सर्वे मुमुहुर्लास्यदर्शनात् ।।
देवसिंहाच्च कृष्णांशादृते ते जडतां गताः ।। ।।७२।।


तदा स्वर्णवती देवी कामाक्षी ध्यानतत्परा ।।
पुनरुत्थाप्य तान्सर्वान्गृहीत्वा शोभनां पुनः ।।
मयूरध्वजमागम्य निगडैस्तान्बबंध ह।।७३।।

________
महामदस्तु तज्ज्ञात्वा रुद्रध्यानपरायणः ।।
चकार शाम्बरीं मायां नानासत्त्वविधायिनीम् ।।७४।।


व्याघ्राः सिंहा वराहाश्च वानरा दंशका नराः ।।
सर्पा गृध्रास्तथा काका भक्षयंति समंततः ।। ७५ ।।


तदा स्वर्णवती देवी कामाक्षीध्यानतत्परा ।।
ससर्ज स्मरजां मायां तन्मायाध्वंसिनीं रणे ।।७६।।


तया तार्क्ष्यास्समुत्पन्नाः शरभाश्च महाबलाः ।।
सिंहादीन्भक्षयामासुर्जघ्नुश्चैव सहस्रशः ।।७७।।


हाहाभूते च तत्सैन्ये दिक्षु विद्राविते सति ।।
शोभना चाभवद्दासी स्वर्णवत्याश्च मायिनी ।। ७८।।


सहुरस्तैर्नटैस्सार्द्धं चाह्लादेनैव चूर्णितः ।।
तेषां रुधिरकभाश्च? भूमिमध्ये समारुहन् ।। ७९ ।।


एवं च मुनिशार्दूल चतुर्मास्स्वभवद्रणः ।।
वैशाखे मासि संप्राप्ते ते वीरा गेहमाययुः ।।
इति ते कथितं विप्र चान्यत्किं श्रोतुमिच्छसि ।। 3.3.28.८० ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चयेऽष्टाविंशोऽध्यायः ।।२८ ।।


                  ।। ऋषय ऊचुः ।। 
किन्नरी नाम या कन्या त्वया प्रोक्ता महामुने ।।
कुत्र स्थाने कथं जाता तत्सर्वं कृपया वद ।। १ ।।


                 ।। सूत उवाच ।। 
पुरा चैत्ररथे देशे नानाजननिषेविते ।।
वसंतसमये प्राप्ते क्रीडंत्यत्र दिवौकसः ।। २ ।।


मंजुघोषा च स्वर्वेश्या शुकस्थाने समागता ।।
दृष्ट्वा तं सुन्दरं बालं मोहनाय समुद्यता ।। ३ ।।


गीतनृत्यादिरागांश्च कृत्वा सा कामविह्वला ।।
प्रांजलिं प्रणता बद्ध्वा पुनस्तुष्टाव तं मुनिम् ।।४।।


तदा शुकस्तु भगवान्पद्यं स्तुति मयं शुभम् ।।
श्रुत्वा प्रसन्नहृदयो वरं ब्रूहीति सोऽब्रवीत् ।। ५ ।।


सा तु श्रुत्वा शुभं वाक्यं प्रोवाच श्लक्ष्णया गिरा ।।
पतिर्मे भव हे नाथ शरणागतवत्सल ।। ६ ।।


इति श्रुत्वा तु वचनं तथा कृत्वा तया सह ।।
स रेमे मुनिशार्दूलः शुको विज्ञानकोविदः ।। ७ ।।


तयोस्सकाशात्संजज्ञे मुनिर्नाम सुतोऽनयोः ।।
तपश्चकार बलवान्द्वादशाब्दं प्रयत्नतः ।। ८ ।।


तस्मै ददौ तदा पत्नीं स्वर्णदेवस्य वै सुताम् ।।
कुबेरो रुद्रसहितः स मुनिस्तु मुदान्वितः ।। ९ ।।


तया रेमे प्रसन्नात्मा तयोर्जाता सुतोत्तमा ।।
किन्नरी नाम विख्याता हिमतुंगे समुद्भवा ।।
तपश्चचार सा देवी रूपयौवन शालिनी ।। 3.3.29.१० ।।


तदा प्रसन्नो भगवाञ्छंकरो लोकशंकरः ।।
मकरंदाय धीराय ददौ तां रुचिराननाम् ।। ११ ।।


मुनिस्तु शंकरं प्राह देवदेव नमोऽस्तु ते ।।
मत्सुतायै वरं देहि राष्ट्रवर्धनमुत्तमम् ।। १२ ।।


इति श्रुत्वा शिवः प्राह गुरुंडान्ते च भूतले ।।
मध्यदेशे च ते राष्ट्रं भविष्यति सुखप्रदम् ।।
त्रिंशदब्दप्रमाणेन तत्पश्चात्क्षयमेष्यति ।। १३ ।।


इति श्रुत्वा तु स मुनिर्हिमतुंगनिवासकः ।।
मकरंदेन सहितस्तत्र वासमकारयत्।।१४।।


इति ते कथितं विप्र पुनः शृणु कथां शुभाम् ।।
ऊनत्रिंशाब्दकं प्राप्ते कृष्णांशे रणकारणम् ।। १५ ।।


नेत्रपालस्य नगरं नानाधातुविचित्रितम् ।।
मत्वा न्यूनपतिर्बौद्धो रुरोध नगरं शुभम् ।। १६ ।।


सप्तलक्षयुतो राजा बौद्धसिंहो महाबलः ।।
त्रिलक्षबलसंयुक्तैस्सार्द्धं युद्धमचीकरत् ।।
१७ ।।


सप्ताहोरात्रमभवत्सेनायुद्धं भयानकम् ।।
योगसिंहो भोगसिंहो विजयश्च महाबलः ।। १८ ।।


जघान शात्रवीं सेनां बौद्धसिंहेन पालिताम् ।।
एतस्मिन्नंतरे प्राप्ताः श्यामजापकदेशगाः ।। १९ ।।


बौद्धा मायाविनस्सर्वे लोकमान्यप्रपूजकाः ।।
पुनर्जातं महद्युद्धं मासमेकं तयोस्तदा ।। 3.3.29.२० ।।


नेत्रपालाज्ञया सर्वे कृष्णांशाद्याः समागताः ।।
कृष्णांशो बिंदुलारूढो देवः स्वहयसंस्थितः ।।२१।।


इंदुलश्च करालाश्वे मंडलीको गजे स्थितः ।।
गौतमश्च समायातो हरिनागरसंस्थितः ।।२२।।


तालनश्च समायातः सिंहिन्युपरि संस्थितः ।।
धान्यपालस्तैल्यकारो युयुत्सोरंशसंभवः ।।२३।।


लल्लसिंहश्च बलवान्कुंतिभोजांशसंभवः ।।
ताम्बूलीयकजातीयो लक्षणानुज्ञया ययौ ।। २४ ।।


तदा तु नेत्रसिंहश्च सप्तलक्षबलैर्वृतः ।।
पालितश्चाष्टभिर्वीरैस्तेषां नाशाय चाययौ ।। २५ ।।


भयभीताश्च ते बौद्धास्त्यक्त्वा देशं समन्ततः ।।
चीनदेशमुपागम्य युद्धभूमिमकारयन् ।। २६ ।।


तदनुप्रययुस्ते वै हूहानदमुपस्थिताः ।।
माघमासे तु संप्राप्ते पुनर्युद्धमवर्तत ।। २७ ।।


श्यामदेशोद्भवा लक्षं तथा लक्षं च जापकाः ।।
दश लक्षाश्चीनदेश्या युद्धाय समुपस्थिताः ।। २८ ।।


कृष्णांशो लक्षसेनाढ्यो देवो लक्षसमन्वितः ।।
नेत्रपालश्च लक्षाढयो योगभोगसमन्वितः ।। २९ ।।


मंडलीकश्चेन्दुलेन लक्षसैन्यसमन्वितः ।।
ध्यानपालो लल्लसिंहो लक्षसैन्यान्वितः स्थितः ।। 3.3.29.३० ।।


जननायक एवापि लक्षसैन्ययुतः स्थितः ।।
तालनो लक्षसेनाढ्यो युद्धाय समुपागतः ।। ३१ ।।


तत्र युद्धमभूद्घोरं बौद्धानामार्यकैस्सह ।।
पक्षमात्रं मुनिश्रेष्ठ यमलोकविवर्द्धनम् ।। ३२ ।।


सप्त लक्षं हता बौद्धा द्विलक्षं चार्यदेशजाः ।।
ततस्ते भयभीताश्च त्यक्त्वा युद्धं गृहं ययुः ।। ३३ ।।


कृत्वा दारुमयीं सेनां कलयंत्रप्रभावतः ।।
गजाश्च दशसाहस्रा सशूराः काष्ठनिर्मिताः ।। ३४ ।।


एकलक्षं हयारूढा दारुपाश्च रणोन्मुखाः ।।
सहस्रं महिषारूढास्सहस्रं कोलपृष्ठगाः।। ३५ ।।


सिंहारूढास्सहस्रं च सहस्रं हंसवाहनाः।।
कंकगोमायुगृध्राणां श्यामारूढाः पृथक्तथा ।। ३६ ।।


उष्ट्राः सप्तसहस्राणि सशूराश्च रणोन्मुखाः ।।
एवं सपादलक्षैश्च काष्ठसैन्यैश्च मानुषाः ।। ३७ ।।


द्विलक्षाणि क्षयं जग्मुः कृष्णांशाद्यैः सुरक्षिताः ।।
ततो हाहाकृतं सैन्यं चार्य्याणां च ननाश तत् ।। ।। ३८ ।।


दृष्ट्वा तत्कौतुकं रम्यं जयन्तो युद्धकोविदः ।।
आग्नेयं शरमादाय काष्ठसैन्येषु चाक्षिपत् ।। ३९ ।।


भस्मीभूताश्च ते सर्वे तत्रैव विलयं गताः ।।
त्रिलक्षं क्षत्रियाः शेषा जयंतं रणकोविदम् ।।
चक्रुर्जयरवं तत्र तुष्टुवुश्च पुनः पुनः ।। 3.3.29.४० ।।


तदा तु चीनजा बौद्धाः कृत्वा विंशत्सहस्रकान्।। हयारूढाँल्लोहमयान्प्रेषयामासुरूर्जितान् ।। ४१ ।।


योगसिंहो गजारूढो धनुर्बाणधरो वली ।।
कंठेषु लोहजान्वीरांस्ताडयामास वै तदा ।। ।। ४२ ।।


मृतास्ते पंचसाहस्रा योगसिंहशरार्दिताः ।।
बौद्धसिंहस्तदा शूरो दृष्ट्वा तस्य पराक्रमम् ।।
कृत्वा लोहमयं सिंहं योगसिंहमपेषयत् ।।४३।।


पातेन तस्य सिंहस्य स वीरो मरणं गतः ।।
तदा तु भोगसिंहश्च हयारूढो जगाम ह ।।
स्वभल्लेन च तं सिंहं हत्वा तत्र जगर्ज वै ।। ४४ ।।


तदा तु बौद्धसिंहेन शार्दूलस्तत्र चोदितः ।।
सहयो भोगसिंहश्च तेनैव मरणं गतः ।। ४५ ।।


मातुलौ मृत्युवशगौ दृष्ट्वा स्वर्णवतीसुतः ।।
करालं हयमा रुह्य बौद्धसिंहमुपाययौ ।। ४६ ।।


शरमादाय वै शीघ्रं नाम्ना संमोहनं शुभम् ।।
मोहयित्वा रिपुबलं बौद्धसिंहसमन्वितम् ।। ४७ ।।


बद्ध्वा तान्बौद्धसिंहादीन्नृपान्दशसहस्रकम् ।।
कलयंत्रं च संचूर्ण्य कृष्णां शांतिकमाययौ ।। ४८ ।।


तदा ते हर्षितास्सर्वे प्रपेष्य नगरं ययुः ।।
तद्वेश्म योजनायामं सर्वसंपत्समन्वितम् ।।
लुण्ठयित्वा बलात्सर्वे नृपदुर्गमुपाययुः ।। ४९ ।।


बौद्धसिंहस्तदागत्य जयन्तेन विमोचितः ।।
सुतां स्वां पद्मजां नाम्ना जयन्ताय ददौ मुदा ।। 3.3.29.५० ।।


दशकोटीः सुवर्णस्य चाह्लादाय तदा धनम्।।
सर्वैश्च बौद्धवृन्दैश्च तत्रैव शपथः कृतः ।। ५१ ।।


आर्यदेशं न यास्यामः कदाचिद्राष्ट्रहेतवे ।।
इत्युक्त्वा तान्प्रणम्याशु संप्रस्थानमकारयन् ।।
त्रिलक्षैश्च युतास्ते वै नेत्रपालगृहं गताः ।। ५२ ।।


                ।। ऋषयः ऊचुः ।। 
इन्दुलेन कथं सूत तत्र प्राणीकृता न हि ।।
सुप्रिया योगसिंहाद्यास्तन्नो वद विचक्षण ।।५३ ।।


               ।। सूत उवाच ।।   
आगता यमलोकाद्वै कतिचित्प्राणिनो भुवि ।।
तदा तु दुःखितो देवो महेंद्रान्तमुपाययौ ।। ५४ ।।


देवराज नमस्तुभ्यं सर्वदेवप्रियंकर ।।
जयंतो जगतीं प्राप्य मृताञ्जीवयति स्वयम् ।।
अतो वै लोकमर्यादा विरुद्धा दृश्यते भुवि ।। ५५ ।।


इति श्रुत्वा तु वचनं महेन्द्रो देवमायया ।।
वडवामृतमाहृत्य तथा वै स्वर्गगां गतिम् ।।
जयंतस्य स्वपुत्रस्य मुमोद स सुरैः सह ।। ५६ ।।


इन्दुलश्च तदा दुःखी शारदां सर्वमंगलाम् ।।
पूजयित्वा विधानेन योगध्यान परोऽभवत् ।। ५७ ।।


इति ते कथितं विप्र पुनः शृणु कथां शुभाम् ।।
नेत्रपालश्च बलवान्बहुपुत्रः शुचान्वितः ।।
दशकोटिमितं स्वर्णं तेभ्यो दत्त्वा समं समम् ।। ५८ ।।


प्रस्थानं कारयामास चाष्टानां बलशालिनाम् ।।
ते वै द्विलक्षसैन्याढ्याः स्वगेहाय ययुर्मुदा ।। ५९ ।। ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये एकोनत्रिंशोऽध्यायः ।। २९ ।।

भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ३१

                   ।। सूत उवाच ।। 
शृणु विप्र महाभाग चंद्रभट्टस्तदा स्वयम् ।।
महीराजं सदःस्थं तं चन्द्रतुल्यस्समागतः ।। १ ।।


तमागतं समालोक्य स राजा शोकतत्परः ।।
उवाच वचनं रम्यं शृणु मंत्रिवर प्रभो ।। २ ।।


कृष्णांशाद्यैर्महाशूरैर्मद्ग्रामे भयमागतम् ।।
कदा ते च मरिष्यंति कंटका मम दारुणाः ।। ३ ।।


इत्युक्तस्स तु शुद्धात्मा ध्यात्वा सर्वमयीं शिवाम् ।।
वचनं प्राह राजानं स्थ भूपशिरोमणे ।। ४ ।।


जिष्णोरंशात्समुद्भूतो ब्रह्मानंदो महावतीम् ।।
स कृष्णांशसखः श्रेष्ठः सर्वदा तत्प्रिये रतः ।। ५ ।।


यदा च मलनापुत्रो देहं त्यक्त्वा गमिष्यति ।।
तदा ते सर्वदेवांशा गमिष्यंति यतो गताः ।। ६ ।।


इत्येवंवादिनं धीरममात्यं च महीपतिः ।।
वचनं प्राह नम्रात्मा कोऽप्यर्थश्चिंतितो मया ।। ७ ।। 


एकाकिनं महाशूरं ब्रह्मानंदं नृपोत्तमम् ।।
समाहूय महीराजो द्विरागमनहेतवे ।।
छद्मना घातयित्वा तं कृतकृत्यो भविष्यति ।। ८ ।।


इत्युक्ते नृपतिं प्राह महीराजः प्रसन्नधीः ।।
वचनं शृणु भो मित्र गच्छ शीघ्रं महावतीम् ।। ९ ।।


मलनां च समागत्य बोधयित्वा तु तां स्वयम् ।।
ममान्तिकमुपागम्य चिरं जीव सुखीभव ।।3.3.31.१० ।।


इति श्रुत्वा तु वचनं नत्वा तं च महीपतिः ।।
रात्रौ घोरं मुनिश्रेष्ठ मलनां प्राह निर्भयः ।।११ ।।


वधूस्तव महाराज्ञि वेला नाम सुरूपिणी ।।
संप्राप्ता यौवनवती पतियोग्या शुभानना ।। १२ ।।


कुजातिश्चैव कृष्णांशः श्रुतो राज्ञा महात्मना ।।
अतो न प्रेषिता पुत्री तव पुत्राय धीमते ।।
अतो मद्वचनं मत्वा कुरु कार्यं तव प्रियम् ।। १३ ।।


मया सार्द्धं तव सुतो ब्रह्मानंदो महाबलः ।।
उर्वीयां नगरीं प्राप्य तदा मत्सैन्यसंयुतः ।। १४ ।।


महीराजमुपागम्य पत्नीं शीघ्रमवाप्स्यति ।।
नो चेन्ममाज्ञया वेला त्यक्त्वा कान्तं मरिष्यति ।। १५ ।।


इति श्रुत्वा तु सा राज्ञी मोहिता देवमायया ।।
राजानं समुपागम्य भ्रातुर्वचनमुत्तमम् ।।
कथयामास वै सर्वं श्रुत्वा भूपोऽब्रवीदिदम् ।। १६ ।।


महीपतिर्महाधूर्तो मद्विनाशाय चोद्यतः ।।
तस्य वार्ता न मे रम्या कपटस्तेन निर्मितः ।। १७ ।।


 इति श्रुत्वा च मलना राजानं कोपसंयुतम् ।।
वचनं प्राह भो राजन्यथा बंधुस्तथा ह्यहम्।।
वचनं कुरु मे राजन्नो चेत्प्राणांस्त्यजाम्यहम्।।१८।।


इत्युक्तवादिनीं रात्रौ तदा परिमलो नृपः ।।
ब्रह्मानन्दं ददौ तस्मै स सुतो मातृवत्सलः ।। १९ ।।


मातुराज्ञां पुरस्कृत्य मातुलेन समन्वितः ।।
रात्रौ च मातुलग्रामं संप्राप्य मुदितोऽभवत् ।।3.3.31.२०।।


प्रातःकाले च संप्राप्ते हरिनागरमास्थितः ।।
एकाकी देहलीं रम्यां प्रययौ देवमोहितः ।। २१ ।।


सायंकाले तु संप्राप्ते महीराजस्य मंदिरे ।।
अगमां दर्शयामास सुरूपां दिव्यविग्रहाम् ।। २२ ।।


अगमा च समालोक्य परं हर्षमुपाययौ ।।
माघशुक्लस्य चाष्टम्यां ब्रह्मानंदश्च निर्भयः ।।
श्यालानां योषितः सप्त ददर्श रुचिरानना ।। २३ ।।


तिस्रो नार्यश्च विधवाश्चतस्रो धवसंयुताः ।।
ब्रह्मानंदं शरुमयं वाक्यमूचुर्मुदान्विताः ।। २४ ।।


ब्रह्मानंद महाभाग सावधानं वचः शृणु ।।
तव पत्नी स्वयं काली वेला कलहरूपिणी ।।
संजहार धवानेव नो वयं तु सुदुःखिता ।। २५ ।।


सापत्न्यमस्तु तत्तस्या गृहाणास्मान्मनोहर ।।
धवान्विदेहि नो वीर पतिर्भव मुदान्वितः ।। २६ ।।


इति श्रुत्वा वचस्तासां ब्रह्मानंदो महाबलः ।।
उवाच मधुरं वाक्यं श्रुतिस्मृतिसमन्वितम् ।। २७ ।।


पुरा सत्ययुगे नारी चोत्तमा च पतिव्रता ।।
त्रेतायां मध्यमा जाता निकृष्टा द्वापरे पुनः ।। २८ ।।


अधमा हि कलौ नारी परपुंसोपभोगिनी ।।
अतस्तु कलिकाले वै विहाहो? 

 

देवलेन शुभः प्रोक्तश्चासितेन स्वयं स्मृतौ ।।२९।।
सती सत्ये तु सा प्रोक्ता त्रेतायां पतिभस्मगा ।।3.3.31.३०।।


सती सा मध्यमा प्रोक्ता द्वापरे विधवा सती ।।
ब्रह्मचर्यपरा ज्ञेया कलौ नास्ति सतीव्रतम् ।। ३१ ।।


अतो यूयं मया सार्द्धं भुंक्षध्वममलं सुखम् ।।
इति श्रुत्वा प्रियं वाक्यं तिस्रस्ता विधवाः स्त्रियः ।। ३२ ।।


कृत्वा शृंगार रूपाणि भूषणानि च सर्वशः ।।
ब्रह्मानंदमुपागम्य समालिंगनतत्पराः ।।३३।।


ता दृष्ट्वा मलनापुत्रो वचनं प्राह निर्भयः ।।३४।।


युष्माभिः पतयो मुक्ता ये च मद्बंधुना हताः ।। ३५ ।।


युष्मानतो न गृह्णीयां सत्यंसत्यं ब्रवीम्यहम्।।
इति श्रुत्वा वचो घोरं हास्ययुक्तं च योषितः ।।३६।।


महीराजन्तमागम्य रुरुदुर्भृशदुःखिताः।।
राजन्वेलापतिर्धूर्तो मम धर्मं जहाति वै ।।
दंडं देहि च धूर्ताय नो चेत्प्राणांस्त्यजाम्यहम् ।। ३७ ।।


इति श्रुत्वा महीराजो ब्रह्मानन्दं महाबलम् ।।
समाहूय वचः प्राह भवान्भूपकुलाधमः ।। ३८ ।।


परस्त्रियं च यो भुंक्ते स याति यममंदिरम् ।।
अद्यैव त्वं सुताकान्त कारागृहमवाप्नुयाः ।। ३९ ।।


इतिश्रुत्वा वचो घोरं ब्रह्मानंदो महाबलः ।।
सत्सरोः खड्गमुत्सृज्य महीराजमधावत ।। 3.3.31.४०


दृष्ट्वा भयातुरो राजा चामुंडान्तमुपाययौ।।
कपाटं दृढमाच्छाद्य तत्र वासमकारयत् ॥ ४१ ॥


                     ॥ ऋषय ऊचुः।।
तासां कथं विवाहाः स्युस्तत्त्वं नो ब्रूहि विस्तरात्।।
कुत्रत्यास्ताः किमंशाश्च दृष्टा योगेन वै त्वया ॥ ४२॥
                    ॥ सूत उवाच।।
अंगदेशे मुनिश्रेष्ठ मायावर्मनृपोऽभवत् ॥
 तामसीं पूजयित्वा वै शक्तिं सर्वविमोहिनीम् ॥ ४३ ॥


वर्मोत्तमं तया दत्तं सर्वसत्त्वभयंकरम्।
गृहीत्वा स तु भूपालः प्रस्थितोऽभून्महीतले ॥४४॥


प्रमदा नाम तत्पत्नी दश पुत्रानसूषुवत् ॥
कौरवांशान्महाभाग वर्षान्ते नाम मे शृणु ॥४५॥


मत्तः प्रमत्त उन्मत्त सुमत्तो दुर्मदस्तथा॥
दुर्मुखो दुर्धरो बाहुः सुरथो विरथः क्रमात्।
तेषां स्वसानुजा चासीत्सुनाम्ना मदिरेक्षणा॥४६॥


तस्या वै सुंदरं रूपं मदाघूर्णितलोचनम् ॥
कितवो नाम वै दैत्यो दृष्ट्वा मोहमुपागतः ॥ ४७॥


मायावर्माणमागत्य वचनं प्राह नम्रधीः ॥
यदि त्वं मे स्वतनयां देहि कामातुराय च ॥४८॥


तर्हि ते सकलं कार्यं करिष्यामि न संशयः ॥
इति श्रुत्वा तदा भूपो ददौ तस्मै स्वकन्यकाम्॥४९॥


कितवो गह्वरावासी रात्रौ घोरे तमोवृते ॥
नृपगेहमुपागम्य बुभुजे स्मरविह्वलः ॥
प्रातःकाले तु तां त्यक्त्वा कन्दरान्तमुपाययौ॥3.3.31.५०॥


वर्मदेवमते जाते ततो राजा मदातुरः॥
पुरोहितं समाहूय लक्षद्रव्यसमन्वितम् ॥
महीराजाय संप्रेष्य तारकं स समावृणोत् ॥५१॥


महीराजस्तु बलवाँल्लक्षषोडशसैन्यपः॥
संयुतः शतभूपालैर्मासान्ते समुपागमत् ॥५२॥


कृष्णांशे पंचदशके संप्राप्ते व्रततत्परे।।
तारकश्च विवाहाय बहुभूपोंगमानयत्।।५३।।


मायावर्मा च तं दृष्ट्वा तारकं भूपसंयुतम्।।
वचनं प्राह बलवान्राजराज वचः शृणु।। ५४।।


कितवो नाम मेधावी दैत्यवंशयशस्करः।।
तेन मे पीडिता बाला रात्रौ घोरतमोवृते ॥५५॥


हता भूपकुमाराश्च मत्सुतार्थं समागताः।।
भक्षितास्तेन दैत्येन संययुस्ते यमालयम्॥ ५६ ॥


तेषां च बहुधा द्रव्यं लुंठयित्वा मदातुरः॥
मत्सुतायै ददौ सर्वं तस्मात्त्वं दितिजं जहि।।५७।।


इति श्रुत्वा महीराजस्सर्वसैन्यसमन्वितः ॥
कितवं च समाहूय महद्युद्धमचीकरत् ॥५८॥


कितवस्स तु मायावी जित्वा सर्वान्महाबलान्॥
तारकं च समाहृत्य गुहायां समुपागमत् ॥ ५९ ॥


तारकश्च तदा दुःखी ध्यात्वा शंकरमुत्तमम् ॥
पाषाणभूतो ह्यगमन्महादेवप्रसादतः ॥ 3.3.31.६० ॥


एतस्मिन्नंतरे प्राप्ता महावतीनिवासिनः ।।
क्षत्रिया दशसाहस्रा कृष्णांशाद्यैश्च पालिताः ।। ६१ ।।


महीराजस्तु तान्दृष्ट्वा बलखानिं महाबलम् ।।
उवाच वचनं प्रेम्णा पुत्रशोकेन दुःखितः ।। ६२ ।।


तारकः कितवेनैव संहृतो दितिजेन वै ।।
यदि त्वं मे सुतं देहि कोटिस्वर्णं ददामि तत् ।।६३।।


इति श्रुत्वा तु ते धीराः कृष्णांशो देवसिंहकः ।।
वत्सजौ च तथागम्य कितवं रुरुधुर्बलात् ।।६४।।


अहोरात्रमभूद्युद्धं तेषां तेन समन्वितम् ।।
कितवस्तु रुषाविष्टः कृष्णांशं देवसिंहकम् ।।
बलखानिं मोहयित्वा जगर्ज च पुनःपुनः ।। ६५ ।।


सुखखानिस्तदा शूरः कितवं बलवत्तरम् ।।
स्वखड्गेन शिरस्तस्य छित्त्वा राजानमागमत् ।। ६६ ।।


त्रयस्ते सुखिनो भूत्वा सुखखानिं प्रशस्य च ।।
महीराजाय च ददौ तारकं कैतवं शिरः ।। ।। ६७ ।।


तदा भूपसुता देवी सुखखानिं समावृणोत् ।।
महीपतिस्तदागत्य तत्सुतां मदिरेक्षणाम् ।। ६८ ।।


संबोध्य विविधैर्वाक्यैर्भूमिराजांतमागमत् ।।
तारकस्य तया सार्द्धं विवाहो मुदितोऽभवत् ।। ६९ ।।


कोटिस्वर्णं नृपात्प्राप्य बलखानिर्महाबलः ।।
प्रययौ बंधुभिस्सार्द्धं शिरीषाख्यपुरं शुभम् ।3.3.31.७०।


                   ।। सूत उवाच ।। 
गुर्जरे नृपतिश्चासीन्मूलवर्मा महाबलः ।।
प्रभावती तस्य सुता दशपुत्रानुजाभवत् ।। ७१ ।।


बलश्च प्रबलश्चैव सुबलो बलवान्बली ।।
सुमूलश्च महाभूलो दुर्गो भीमो भयंकरः ।। ७२ ।।


करभो नाम वै यक्षो लल्लराजस्य सेवकः ।।
प्रभावतीं समालोक्य मुमोह मदविह्वलः ।।
पञ्चवर्षांतरे जाते तेन भुक्ता कुमारिका ।। ७३ ।।


मूलवर्मा महीराजं समाहूय ससैन्यकम् ।।
वचनं प्राह नम्रात्मा राजराज वचः कुरु ।। ७४ ।।


प्रभावतीं शुभां कन्यां नृहराय ददाम्यहम् ।।
इत्युक्त्वा नृहरं पुत्रं समाहूय स्वमंदिरे ।।
ददौ वेदविधानेन सुतां च नृहराय वै ।। ।। ७५ ।।


पक्षमात्रांतरे यक्षः करभस्तत्र चागतः ।।
दंपती पीडयामास जित्वा सर्वमहीपतीन् ।। ७६ ।।


महीराजस्तदा दुःखी वत्सजौ बलवत्तरौ ।।
समाहूय कथित्वाग्रे रुरोद बलवान्बली ।। ७७ ।।


दयालू वत्सजौ वीरौ करभांतमुपेयतुः ।।
करभस्तौ समालोक्य तत्रैवांतर्धिमागमत् ।।
नागपाशेन तौ बद्ध्वा पीडयामास दंपती ।। ७ ।।


इति श्रुत्वा स कृष्णांशः करभं यक्षकिंकरम् ।।
बद्ध्वा योगबलेनैव मोचयामास दम्पती ।। ७९ ।।


भ्रातरौ तौ समागम्य नागपाशं तु चासिना ।।
छित्त्वा मुमोद बलवान्कोटिस्वर्णं गृहीतवान्।।
भूमिराजः प्रसन्नात्मा देहलीं मुदितोऽगमत्।3.3.31.८०।


                    ।। सूत उवाच ।। 
काश्मीरे च नृपश्चासीत्कैकयो नाम विश्रुतः ।।
दश पुत्राश्च तस्यैव कन्या च मदनावती ।। ८१ ।।


कामः प्रकामः सकामो निष्कामो निरपत्रपः ।।
जयश्च विजयश्चैव जयन्तो जयवाञ्जयः ।। ८२ ।।


स भूपो भूमिराजं च समाहूय वचोऽब्रवीत् ।।
पुत्रस्ते वै सरदनो मत्कन्यां प्राप्तुमर्हति ।। ८३ ।।


गंधर्वस्सुकलो नाम मत्कन्यां च शुभाननाम् ।।
ज्योत्स्नायां निशि संहृत्य तया सार्द्रं हि दीव्यति ।। ८४ ।।


पूर्णिमायां च संप्राप्तः स वै चित्ररथप्रियः ।।
वैशाखस्यासिते पक्षे चाष्टमी चाद्य मंगला ।।
वधं कुरु नृपश्रेष्ठ देहलीं गंतुमर्हसि ।। ८५ ।।


इति श्रुत्वा महीराजो लक्षसैन्यसमन्वितः ।।
गृहीत्वा दंपती शीघ्रं देहलीनगरं ययौ ।। ८६ ।।


वैशाख्यां सुखजातायां सुकलोनाम वीर्यवान् ।।
गंधर्वो दश साहस्रै रुरोध नगरं रुषा ।। ८७ ।।


नगराच्च बहिर्जाता ये शूरा मदविह्वलाः ।।
हत्वा तान्सुकलः शीघ्रं राज्ञे दुःखं चकार ह ।। ८८ ।।


भयभीतो महीराजो ध्यात्वा सर्वमयीं शिवाम् ।।
सुष्वाप निशि शुद्धात्मा तुष्टाभूज्जगदंबिका ।। ८९ ।।


कृष्णांशादीन्बोधयित्वा तैश्च सार्धं समागमत् ।।
तेषां चासीन्महद्युद्धं गंधर्वेण तदाह्निकम्।। 3.3.31.९०।


बलखानिश्च बलवाञ्छतगंधर्वमुत्तमम् ।।
त्रिदिनांते च संहत्य सुखखानिस्तथैव च ।। ९१ ।।


सुकलश्च तदा क्रुद्धो गांधर्वीं च ससर्ज ह ।।
बहुधा ते हि गंधर्वास्तैश्च सार्द्धं समारुधन् ।। ९२ ।।


भयभीतास्तदा सर्वे रामांशं शरणं ययुः ।।
आह्लादश्च प्रसन्नात्मा शारदां सर्वमंगलाम् ।। ९३ ।।


दिवासूक्तेन तुष्टाव तदा प्रादुरभूच्छिवा। ।।
गंधर्वान्मोहयित्वाशु द्रावयामास शारदा ।। ९४ ।।


पराजिते च गंधर्वे कृष्णांशो जनमोहनः ।।
महीराजमुपागम्य कोटिस्वर्णं गृहीतवान् ।। ९५ ।।


षोडशाब्दे च कृष्णांशे संप्राप्ते देविपूजके ।।
मार्गमासं तु संप्राप्ते मर्दनश्च विवाहितः ।। ९६ ।।


                 ।। सूत उवाच ।। 
पुंड्रदेशे महाराजो नागवर्मा महाबलः ।।
बभूव तक्षकपरो धर्मवाञ्जगतीतले ।।।१ ।। ९७ ।।


पत्नी नागवती तस्य तक्षकस्य सुता शुभा ।।
पितुः शापेन सञ्जाता कलिंगाधिपतेः सुता ।। ९८ ।।


दशैव तनयाश्चासन्कन्या तस्य शुभानना ।।
सुवेला नाम विख्याता रूपयौवनशालिनी ।। ९९ ।।


पुरोहितं समाहूय महीराजाय प्रैषयत् ।।
स गत्वा कथयित्वाग्रे मर्दनो वीरतो मया । 3.3.31.१००।


महीराजस्तु तच्छ्रुत्वा त्रिलक्षबलसंयुतः ।।
मंगलं कारयामास गत्वा नागपुरे शुभे ।। १०१ ।।


सुवेला पितरं प्राह देहि मे नागभूषणम्।।
विवाहं हि करिष्यामि नोचेत्प्राणांस्त्यजाम्यहम् ।। १०२ ।।


इति श्रुत्वा नागवर्मा महीराजान्तमाययौ ।।
सुवेलाया अभिप्रायं वर्णयामास विस्तरात् ।। १०३ ।।


इत्युक्तः स महीराजो विस्मितोभूत्सुदुःखितः ।।
प्रेषयामास वै पत्रं यत्राह्लादादयः स्थिताः ।। १०४ ।।


इति ज्ञात्वा तदाऽऽह्लादः शूरपंचशतावृतः ।।
कृष्णांशवत्सजैस्सार्द्धं दिनांते च समागमत् ।। १०५ ।।


शतयोजनगामिन्यो वाजिन्यश्च द्वियामके ।।।।
सहस्रयोजनं वीर्यं तासां चैव दिने निशि।।१०६।।


कलांशादुद्भवा अश्वा वाजिना च हरेः स्वयम्।।
रत्नाश्वस्य कलांशश्च कपोतो हरणीभवः।।१०७।।


गायत्रो योभवद्वाजी कालचक्रप्रवर्तकः ।।
तत्कलांशात्समुद्भूतो रविदत्तः पपीहकः ।।
हरिणी नाम तच्छक्तिः कलांशाद्भूमिमागता ।। १०८ ।।


सुखखानिः पपीहस्थो बलखानिः कपोतगः।।
आह्लादश्च करालस्थो बिंदुलस्थो हरेः कला ।।१०९।।


गत्वा ते तु महीराजं नत्वा तुंगासनां ययुः ।।
प्रसन्नः स महीराजो वचनं प्राह नम्रधीः ।3.3.31.११० ।।


मम पुत्राश्च युष्माभिस्त्रयः शूरा विवाहिताः ।।
तथैव मर्दनं वीरं समुद्वाह्य सुखी भव ।।१११।।


इति श्रुत्वा स आह्लादो गत्वा भूतलमुत्तमम् ।।
रसातलं च विख्यातं नागिनीं प्राह निर्भयः ।। ११२ ।।


सुप्तो हि तव भर्ता च पुंडरीकः शुभाननः ।।
बोधयाशु महाराज्ञि नागानां नो दयां कुरु ।।११३।।


इत्युक्ता साह तं वीरं पुंडरीकश्च मत्पतिः ।।
रुषाविष्टश्च बलवान्दाहयेच्च वपुस्तव ।। ११४ ।।


इति श्रुत्वा विहस्याह तव भर्तुर्न नो भयम् ।।
इत्येवं वचनं कृत्वा पद्भ्यां पुच्छमताडयत् ।। ११५ ।।


प्रबुद्धश्च तदा राजा नागानां च महाबलः।।
ज्वालामालां स्वदेहाच्च जनयामास वीर्यवान्।।११६।।


दृष्ट्वा तद्विषमुज्ज्वालं स ध्यात्वा सर्वमंगलाम्।।
शमयामास बलवान्देवीपूजनतत्परः ।।११७।।


पुंडरीकः प्रसन्नात्मा नागभूषणमुत्तमम् ।।
आह्लादाय ददौ शीघ्रं सर्वशृङ्गारसंयुतम् ।। ११८ ।।


आह्लादस्तु हयारूढो महीराजाय दत्तवान् ।।
विवाहं कारयामास वैवाहिकविधानतः ।।
कोटिस्वर्णं नृपात्प्राप्तं गृहीत्वा शीघ्रमाययौ ।। ११९ ।।


हयविद्यासमारूढास्ते हया गेहमागताः ।।
ज्ञेयाः पंचशतं सर्वे सशूरा गृहमाययुः ।। 3.3.31.१२० ।।
                     ।।सूत उवाच ।।
मद्रदेशेषु यश्चासीन्मद्रकेशो महाबलः।।
पञ्चाब्दं पूजयामास स्वर्गवैद्यौ सुरोत्तमौ ।। १२१ ।।


तयोश्च वरदानेन दश पुत्रा बभूविरे ।।
सुता कान्तिमती जाता रूपयौवनशालिनी ।।१२२।।


स महीराजमाहूय त्रिलक्षबलसंयुतम् ।।
ददौ कन्यां विधानेन मद्रेशः सूर्यवर्मणे ।।१२३।।


नवोढां तु तदा पत्नीं सूर्यवर्मा गृहीतवान्।।
स्वगेहाय ययौ शीघ्रं महीराजो बलैस्सह ।। १२४ ।।


कर्बुरोनाम मायावी विभीषणसुतो बली ।।
राक्षसस्तत्र संप्राप्तो दृष्ट्वा कांतिमतीं शुभाम् ।। १२५ ।।


मद्रकेशस्य तनयां दिव्यशोभासमन्वि ताम् ।।
जहार पश्यतां तेषां सह्याद्रिगिरिमाययौ ।। १२६ ।।


महीराजस्तदा दुःखी विललाप भृशं मुहुः ।।
देहलीगेहमागम्य दूतमाहूय सत्व रम् ।। १२७ ।।


कृष्णांशं प्रेषयामास स गत्वा समवर्णयत् ।।
ज्ञात्वा ते तु हयारूढाः शूराः पंचशतावृताः ।। १२८ ।।


सह्याद्रिगिरिमागम्य कृष्णां शः कर्बुरं प्रति ।।
निर्भयो वचनं प्राह शृणु राक्षससत्तम ।। १२९ ।।


विभीषणो भक्तराजस्तस्य त्वं दयितः सुतः ।।
तस्मात्त्वया न कर्तव्यं पापं वंश विनाशनम् ।।
रावणेन पुरा सीता संहृता विदितं तव ।।3.3.31.१३०।।


इति श्रुत्वा स होवाच पुरेयं दयिता प्रिया ।।
मम गंधर्वतनया मुनिशापान्महीं गता ।। १३१ ।।


अतोऽहं तद्वियोगेन त्यक्त्वा लंकां महापुरीम् ।।
मद्रकेशमहं प्राप्य मद्रकेशभयादहम् ।।
न जहार प्रियां रम्यां तत्रोषित्वा दिनं बहु ।। १३२ ।।


अद्य मे वशगा साभून्नाम्ना कांतिमती शुभा ।।
जित्वा मां च गृहाणाशु समर्थाश्च वयं सदा ।। १३३ ।।


इति श्रुत्वा स कृष्णांशः खड्गयुद्धमचीकरत् ।।
सप्तरात्रेण तं जित्वा लब्ध्वा कांतिमतीं शुभाम् ।।
तदा च देहलीं प्राप्य महीराजान्तमाययौ ।।१३४।।


कोटिस्वर्णं ददौ राजा कृष्णांशाय महात्मने ।।
स वीरो बंधुभिः सार्धं प्रमदावनमाययौ ।।१३५।।


                    ।। सूत उवाच ।। 
पट्टनाख्यपुरे राजा नाम्ना पूर्णामलो बली ।।
वसूनाराधायामास पंचवर्षान्तरे मुदा ।।
तदा प्रसन्नास्ते देवा ददुस्तस्मै वरं शुभम् ।। १३६ ।।


वरदानाच्च सञ्जाता दश पुत्रा महीपतेः ।।
विद्युन्माला सुता जाता रूपयौवनशालिनी ।। १३७।


तद्विवाहार्थमाहूय महीराजं महाबलम् ।।
सप्तलक्षबलैः सार्द्धं तत्पुत्राय सुतां ददौ ।। १३८ ।।


महीराजसुतो भीमः पत्नीं प्राप्य मनोरमाम् ।।
गेहमागम्य तैः सार्द्धं देहलीं हर्षमाप्तवान् ।। १३९ ।।


तदा पैशाचदेशस्थः सहोदश्च महीपतिः ।।
म्लेच्छैश्च दशसाहस्रैर्विद्युन्मालार्थमुद्यतः ।।3.3.31.१४०।।


बलिदैत्याज्ञया प्राप्तः कुरुक्षेत्रं शुभस्थलम् ।।
भित्त्वा मूर्तीः सुराणां गोरक्तैस्तीर्थजलं कृतम् ।।१४१ ।।


पत्रमालिख्य बलवान्महीराजाय धर्मिणे ।।
स्वदूतः प्रेषितस्तेन श्रुत्वा भूपोऽब्रवीदिदम् ।।१४२ ।।


भवान्म्लेच्छपती राजा विद्युन्मालार्थमुद्यतः ।।
मां शब्दवेधिनं विद्धि चौर्यदेशधुरंधरम् ।। १४३ ।।


इत्युक्त्वा स त्रिलक्षैश्च कुरुक्षेत्रमुपागतः ।।
तयोश्चासीन्महद्युद्धमहोरात्रं भयानकम् ।। १४४ ।।


निशीथे समनुप्राप्ते ज्येष्ठे मासि तमोमये ।।
पातालाद्बलिरागत्य दैत्यायुतसमन्वितः ।। १४५ ।।


नृपसैन्यं जघानाशु भक्षयित्वा पुनः पुनः ।।
भयभीतस्तदा राजा शारदां शरणं ययौ ।। १४६ ।।


एतस्मिन्नंतरे देवाः कृष्णांशाद्या महाबलाः ।।
क्षणमात्रेण संप्राप्तास्तदा पदचरा मुने ।। १४७ ।।


हत्वा दैत्यसहस्राणि बलिदैत्यमुपाययुः ।।
देशजौ वत्सजौ वीरौ देवसिंहस्तथैव च ।।
स्वखड्गैस्तर्पयामास दैत्यराजं महाबलम् ।। १४८ ।।


तदा प्रसन्नो बलवान्दैत्यराजो बलिः स्वयम् ।।
वरं वृणुत तानाह ते तु श्रुत्वाब्रुवन्वचः ।।१४९।।


आर्यदेशं च ते दैत्या नागच्छन्तु त्वया सह।।
म्लेच्छदेशं सदा प्राप्य भक्षध्वं म्लेच्छधर्मगान् ।। 3.3.31.१५० ।।


इति श्रुत्वा वचो घोरं विप्रियं च बलिः स्वयम् ।।
कृष्णांशमुदयं गत्वा तुष्टाव परया गिरा ।। १५१ ।।


तदा प्रसन्नः कृष्णांशो वचनं प्राह निर्भयः ।।
यावदहं भूमिवासी तावत्त्वं गेहमावस ।।
तत्पश्चाद्भूमिमागत्य यथायोग्यं कुरुष्व भोः ।। १५२ ।।


इति तद्वचनं श्रुत्वा सहोदो नीलसंयुतः ।।
पैशाचं देशमगमत्पुनः प्राप्तो रसातलम् ।। १५३ ।।


भूमिराजः प्रसन्नात्मा कोटिस्वर्णं ददौ तदा ।।
गजारूढाश्च ते पंच संययुश्च महावतीम् ।। १५४ ।।


              ।। सूत उवाच ।। 
वर्द्धनो भूमिराजस्य सुतः सर्वेभ्य उत्तमः।।
पंचमाब्दवया भूत्वा श्रीदं तुष्टाव भक्तितः।।
वर्षांतरे च भगवान्ददौ सर्वं शुभं निधिम् ।।१५५।।


तत्सर्वनिधिभावेन नृपकोशः समन्ततः ।।
पूर्णो बभूव कनकै राजराजप्रभावतः ।।१५६।।


किंनरी नाम या कन्या मंकणस्य प्रकीर्तिता ।।
कुबेरश्च ददौ तस्मै वर्द्धनाय प्रियाय च ।।
इति ते कथितं सर्वं विवाहचरितं मुने ।। १५७ ।।


धुन्धुकारो महाशूरो लक्षसैन्यसमन्वितः ।।
ब्रह्मानंदमुपागम्य युद्धार्थाय तमाह्वयत्।। १५८ ।।


एकत्रिंशाब्दके प्राप्ते कृष्णांशे बलवत्तरे ।।
एकाकी मलनापुत्रो दृष्ट्वा सैन्यमुपस्थितम् ।।
ब्रह्मास्त्रं चाप आधाय चार्धसैन्यमदाहयत् ।। १५९ ।।


पंचायुताश्च ते शूरा भयभीता दिशो गताः ।।
धुन्धुकारो रणं त्वक्त्वा भूमिराजमुपागमत् ।। 3.3.31.१६० ।।


महीराजस्तदा दुःखी भयभीतः समंततः ।।
महीपतिं समाहूय चन्द्रभट्टं च सोऽब्रवीत् ।। १६१ ।।


कथं जयो मे भविता तत्सर्वं मंत्रयाशु वै ।।
महीपतिस्तदा प्राह शृणु भूपशिरोमणे ।। ।। १६२ ।।


कृत्वा नारीमयं वेषं चामुण्डं बलशालिनम् ।।
वेलां मत्वा च तद्दोलां ब्रह्मानंदाय चार्पय ।। १६३ ।।


चत्वारस्ते सुताः शूरा धुंधुकारेण संयुता ।।
छद्मना च स्वशस्त्रैश्च घातयेयुस्तमूर्जिताः ।। १६४ ।।


इति श्रुत्वा महीराजो ब्रह्मानंदाय हर्षितः ।।
तथा कृत्वा ददौ दोलां पंचशूरैश्च पालिताम् ।। १६५ ।।


सायंकाले तु संप्राप्ते माघशुक्लाष्टमीदिने ।।
वेलावंशश्च चामुण्डो ब्रह्मानंदमुपाययौ ।। १६६ ।।


छद्मना च त्रिशूलं च बलात्कृत्वा रिपूदरे ।।
रुरोद बलवाञ्छूरस्ते तु शूराः समागताः ।। १६७ ।।


तारको हृदि तं बाणैः सूर्यवर्मा च तोमरैः ।।
भीमश्च गदया चात्र वर्द्धनश्च तदासिना ।।
धुंधुकारश्च भल्लेन जघान रिपुमूर्द्धनि ।। १६८ ।।


मूर्छितः पतितो भूमौ बह्मानंदो महाबलः ।।
महद्व्रणयुतस्तत्र स्वखङ्गं च समाददत् ।। १६९ ।।


भीमस्य च शिरः कायाद्वर्द्धनस्य तथैव च ।।
छित्त्वा तथैव भूमध्ये सूर्यवर्माणमागतंः ।3.3.31.१७० ।।


तारको धुंधुकारश्च चामु ण्डश्च तथैव च ।।
ब्रह्मानंदं तदा त्यक्त्वा महीराजान्तमाययौ ।। १७१ ।।


हतेषु तेषु पुत्रेषु महीराजो भयातुरः ।।
वेलापार्श्वमुपागम्य रुरोद बहु दुःखितः ।। १७२ ।।


इति श्रुत्वा तदा वेला दोलामारुह्य सत्वरम् ।।
ब्रह्मानंदं ययौ शीघ्रं मूर्च्छितं तं ददर्श ह ।। १७३ ।।


कनिष्ठामृतभावेन वेलाया बलवांस्तदा ।।
उत्थाय रुदतीं नारीं ददर्श रुचिरान्विताम् ।। १७४ ।।


का त्वं कस्य सुता रम्या संग्रामे मामुपस्थिता ।।
जलं देहि महा सुभूर्वचनं कुरु सुप्रियम् ।। १७५ ।।


इति श्रुत्वा तदा वेला जलं दत्त्वा शुचान्विता ।।
वचनं प्राह वै रात्रौ शृणु त्वं मलनासुत ।। १७६ ।।


वेला नाम महीभर्तुः सुताहं त्वामुपस्थिता ।।
मत्पतिश्च भवान्धीरश्छद्मना वंचकैर्हतः ।।
जीवनं कुरु राजेंद्र भुंक्ष्व भोगान्मया सह ।। १७७ ।।


इत्युक्तः स तु तामाह कलिकाले समागते ।।
जीवनान्मरणं श्रेष्ठं तस्मान्मद्वचनं कुरु ।। १७८ ।।


हरिनागरमारुह्य मया सार्द्धं शुभानने ।।
गत्वा तीर्थानि रम्याणि संत्यजामि कलेवरम्।।१७९।।


इत्पुक्त्वा तौ समारुह्य पूर्वे च कपिलान्तिकम्।।
गत्वा स्नात्वा च विधिवत्ततोध्ये जग्मतुर्मुदा।।3.3.31.१८०।।


पृथक्पृथक्सुतार्थानि स्नात्वा दत्त्वा च जग्मतुः ।।
दक्षिणे सेतुबंधान्ते पश्चिमे द्वारिकामनु ।। १८१ ।।


उत्तरे बदरीस्थाने स्नात्वा तीर्थानि जग्मतुः ।।
गंधमादनमागत्य ब्रह्मानंदो महाबलः ।। १८२ ।।


वेलामुवाच वचनं भाद्रशुक्लाष्टमीदिने ।।
देहं त्यजामि भो राज्ञि तारकं जहि भूतले ।।१८३।।


इति श्रुत्वा तु सा प्राह स्वामिन्मद्वचनं कुरु ।।
कुरुक्षेत्रं मया सार्द्धं भवान्वै गंतुमर्हति ।।१८४।।


स्थित्वा तत्र समस्वान्तो भज त्वं सर्वमंगलाम् ।।
अहं महावतीं प्राप्य पुनर्वै देहलीं प्रति ।। १८५ ।।


तारकं च तथा हत्वा त्वत्समीपं व्रजाम्यहम् ।।
इत्युक्तः स तथेत्युक्त्वा ब्रह्मध्यानपरोऽभवत् ।। १८६ ।।


इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये एकत्रिंशोऽध्यायः ।। ३१ ।।

भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ३२.< भविष्यपुराणम् ‎ | पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३

                  ।। सूत उवाच ।। 
द्वात्रिंशाब्दे च कृष्णांशे संप्राप्ते योगरूपिणी ।।
वेला नाम शुभा नारी हरिनागरसंस्थिता ।।
महावतीं समागम्य सभायां तत्र चाविशत् ।। १ ।।


एतस्मिन्नंतरे प्राप्ताः कृष्णांशाद्या महाबलाः ।।
नत्वा परिमलं भूपं वेला वचनमब्रवीत् ।। २ ।।


महीपतिं प्रियं मत्वा कृष्णांशं नृप दुष्प्रियम् ।।
त्वया मे घातितो भर्ता ब्रह्मानंदो महाबलः ।। ३ ।।


महीराजसुतैर्धूर्तैस्तारकाद्यैर्महाबलैः ।।
नारीवेषं च चामुण्डो धुंधुकारेण कारितः ।। ४ ।।


स्वामिनं प्रति चागम्य ते जग्मुश्छद्मना प्रियम् ।।
कुरुक्षेत्रं स्थितः स्वामी महत्या मूर्छयान्वितः ।।
तस्माद्यूयं मया सार्द्धं गंतुमर्हथ तं प्रति ।। ५ ।।


इति घोरतमं वाक्यं श्रुत्वा सर्वे शुचान्विताः ।।
धिग्भूपतिं च मलनां ताभ्यां नो घातितः सखा ।। ६ ।।


इत्युक्त्वोच्चैश्च रुरुदुः कृष्णांशाद्या महाबलाः ।।
पत्राणि प्रेषयामासुः स्वकीयान्भूपती न्प्रति ।। ७ ।।


क्रोधयुक्ता तदा वेला लिखित्वा पत्रमुल्बणम् ।।
महीराजाय संप्रेष्य मलनागेहमागमत् ।। ८ ।।


तत्पत्रं च महीराजो वाचयित्वा विधानतः ।।
ज्ञात्वा तत्कारणं सर्वं तन्निशम्य विशाम्पतिः ।। ९ ।।


चिन्ताकलेवरं प्राप्य सुखनिद्रां व्यनाशयत् ।।
आहूय भूपतीन्सर्वान्घोरयुद्धोन्मुखोऽभवत् ।। 3.3.32.१० ।।


चतुर्विंशतिलक्षैश्च शूरैर्भूपसमन्वितैः ।।
कुरुक्षेत्रं ययौ शीघ्रं धृतराष्ट्रांशसंभवः ।। ११ ।।


तथा परिमलो भूपो लक्षषोडशसैन्यपः ।।
द्रुपदांशो ययौ शीघ्रं वेलया स्वकुलैः सह ।। १२ ।।


स्यमन्तपंचके तीर्थे शिबिराणि चकार ह ।।
ब्रह्मानंदः स्थितो यत्र समाधिध्यानतत्परः ।। १३ ।।


गंगाकूले च ते सर्वे कौरवांशा महाबलाः ।।
शिबिराणि विचित्राणि चक्रुस्ते विजयैषिणः ।।१४।।


कृत्वा ते कार्तिकीस्नानं दत्त्वा दानान्यनेकशः ।।
मार्गकृष्णद्वितीयायां युद्धभूमिमुपाययुः ।। १५ ।।


विष्वक्सेनीयभूपालो लहरस्तत्र चागतः ।।
कौरवांशाश्च तत्पुत्राः षोडशैव महाबलाः ।।
पूर्वजन्मनि यन्नाम तन्नाम्ना प्रश्रिता इह ।। १६ ।।


दुस्सहो दुश्शलश्चैव जलसंधः समः सहः ।।
विंदस्तथानुविंदश्च सुबाहुर्दुष्प्रधर्षणः ।। १७ ।।


दुर्मर्षणश्च दुष्कर्णः सोमकीर्तिरनूदरः ।।
शलः सत्त्वो विवित्सुश्च क्रमाज्ज्ञेया महाबलाः ।। १८ ।।

____________
तोमरान्वयभूपालो बाह्लीकपतिरागतः ।।
त्रिलक्षैश्च तथा सैन्यैः सप्तपुत्रैश्च भूपतिः ।। १९ ।।


चित्रोपचित्रौ चित्राक्षश्चारुश्चित्रःशरासनः ।।
सुलोचनः सवर्णश्च पूर्वजन्मनि कौरवाः ।। 3.3.32.२० ।।


तेषामंशाः क्रमाज्जाता अभिनंदनदेहजाः ।।
महानंदश्च नंदश्च परानंदोपनंदकौ ।।
सुनंदश्च सुरानन्दः प्रनंदः कौरवांशकः ।। २१ ।।


नृपः परिहरवंशीयो मायावर्मा महाबली ।।
लक्ष सैन्ययुतः प्राप्तो दशपुत्रसमन्वितः ।। २२ ।।


दुर्मदो दुर्विगाहश्च नंदश्च विकटाननः ।।
चित्रवर्मा सुवर्मा च सुदुर्मोचन एव च ।। २३ ।।


ऊर्णनाभः सुनाभश्च चोपनंदश्च कौरवाः ।।
तेषामंशाः क्रमाज्जाताः सुता अंगपतेः स्मृताः २४ ।।


मत्तः प्रमत्त उन्मत्तः सुमत्तो दुर्मदस्तथा।।
दुर्मुखो दुर्दरो वायुः सुरथो विरथः क्रमात् ।। २५ ।।


शुक्लवंशीयभूपालो मूलवर्मा समागतः ।।
लक्षसैन्यैश्च बलवान्दशपुत्रसमन्वितः ।। २६ ।।


अयोबाहुर्महाबाहुश्चित्रांगश्चित्रकुण्डलः ।।
चित्रायुधो निषंगी च पाशी वृन्दारकस्तथा ।। २७ ।।


दृढवर्मा दृढक्षत्रः पूर्वजन्मनि कौरवाः ।।
तेषामंशा महीं जाता गृहे ते मूलवर्मणः ।। २८ ।।


बलश्च प्रबलश्चैव सुबलो बलवान्बली ।।
सुमूलश्च महामूलो दुर्गो भीमो भयंकरः ।। २९ ।।


कैकयश्चंद्रवंशीयो लक्षसैन्यसमन्वितः ।।
दशपुत्रान्वितः प्राप्तः कुरुक्षेत्रे महा रणे ।। 3.3.32.३० ।।


भीमवेगो भीमबलो बलाकी बलवर्द्धनः ।।
उग्रायुधो दंडधरो दृढसंधो महीधरः ।।३१।।


जरासंधः सत्यसंधः पूर्वजन्मनि कौरवाः ।।
तेषामंशाः समुद्भूताः कैकयस्य गृहे शुभे ।। ३२ ।।


कामः प्रकामः संकामो निष्कामो निरपत्रपः ।।
जयश्च विजयश्चैव जयंतो जयवाञ्जयः ।। ३३ ।।


नागवंशीयभूपालो नागवर्मा समागतः ।।
लक्षसेनान्वितः प्राप्तो दशपुत्रसमन्वितः ।।३४।।


पूर्वजन्मनि यन्नाम्ना तन्नाम्ना कौरवा भुवि।।
पुंड्रदेशपतेः पुत्रा जाता दश शिवाज्ञया ।।३५।।


उग्रश्रवा उग्रसेनः सेनानीर्दुष्परायणः।।
अपराजितः कुण्डशायी विशालाक्षो दुराधरः।।३६।।


दृढहस्तः सुहस्तश्च सुतास्ते नागवर्मणः ।। ३७ ।।


मद्रकेशः समायातस्तोमरान्वयसंभवः ।।
लक्षसैन्यैर्युतो राजा दशपुत्रसमन्वितः ।। ३८ ।।


वातवेगः सुवर्चाश्च नागदंतोग्रयाजकः ।।
आदिकेतुश्च वक्शी च कवची क्राथ एव च ।। ३९ ।।


कुण्डश्च कुण्डधारश्च कौरवाः पूर्वजन्मनि ।।
तन्नाम्ना भुवि वै जाता मद्र केशस्य मंदिरे ।3.3.32.४०। 


नृपः शार्दूलवंशीयौ लक्षसैन्यसमन्वितः ।।
पूर्णामलो मागधेशो दशपुत्रान्वितो ययौ ।। ४१ ।।


वीरबाहुर्भीमरथश्चोग्रश्चैव धनुर्धरः।।
रौद्रकर्मा दृढरथोऽलोलुपश्चाभयस्तथा।।४२।।


अनाधृष्टः कुण्डभेदी कौरवाः पूर्वजन्मनि।।
पूर्णामलस्य वै गेहे तन्नाम्ना भुवि संभव।।४३।।


मंकणः किंनरो नाम रूपदेशे महीपतिः ।।
चीनदेशात्परे पारे रूमदेशः स्मृतो बुधैः ।।

नरः किन्नरजातीयो वसति प्रियदर्शनः ।। ४४ ।।


मंकणश्च तदा प्राप्तः किन्नरायुतसंयुतः ।।
अष्टपुत्रान्वितः प्राप्तो यत्र सर्वनृपाः स्थिताः ।। ४५ ।।


विरावी प्रथमश्चैव प्रमाथी दीर्घरोमकः ।।
दीर्घबाहुर्महाबाहुर्व्यूढोराः कनकध्वजः ।। ४६ ।।


पूर्वजन्मनि यन्नाम्ना तन्नाम्ना किन्नरा भुवि ।।
विरजोंशश्च यो जातो मंकणो नाम किन्नरः ।।४७।।


नेत्रसिंहः समायातो लक्षसैन्यसमन्वितः ।।
शल्यांशः स तु विज्ञेयः शार्दूलान्वयसंभवः ।। ४८ ।।


तदा गजपती राजा लक्षसैन्यसमन्वितः।।
संप्राप्तः शकुनेरंशस्त्यक्त्वा गेहे स्वपुत्रकान् ।।४९।।


मयूरध्वज एवापि लक्षसैन्यसमन्वितः ।।
मकरंदं गृहे त्यक्त्वा विराटांशः समागतः ।3.3.32.५० ।।


वीरसेनः समायातः कामसेनसमन्वितः ।।
लक्षसेनान्वितस्तत्र चोग्रसेनांशसंभवः ।।५१।।


लक्षणश्च समायातः सप्तलक्षबलैर्युतः ।।
संत्यज्य पद्मिनीं नारीं महा कष्टेन भूपतिः ।।५२।।


तालनो धान्यपालश्च लल्लसिंहस्तथैव च ।।
भीमस्यांशो युयुत्सोश्च कुंतिभोजस्य वै क्रमात् ।।५३।


आह्लादश्च समायातः कृष्णांशेन समन्वितः ।।
जयन्तेन च वै वीरो लक्षसैन्यान्वितो बली ।। ५४ ।।


जगन्नायक एवापि शूरायुतसमन्वितः ।।
संप्राप्तो भगदत्तांशो गौतमान्वयसंभवः ।। ५५ ।।


अन्ये च क्षुद्रभूपाश्च सहस्राढ्याः पृथक्पृथक् ।।
कुरुक्षेत्रं परं स्थानं संययुर्मदविह्वलाः ।। ५६ ।।


मूलवर्मा च नृपतिः सपुत्रो लक्षसैन्यपः ।।
नृपं परिमलं प्राप्य संयुक्तो देहलीपतेः ।। ५७ ।।


कैकयो लक्षसेनाढ्यः सपुत्रो नृपतिः स्वयम् ।।
नृपं परिमलं प्राप्य स युद्धार्थमुपस्थितः ।। ५८ ।।


नेत्रसिंहश्च नृपतिः स वीरो लक्षसैन्यपः ।।
मयूरध्वज एवापि लक्षपः शशिवंशिनम् ।। ५९ ।।


वीरसेनश्च लक्षाढ्यः सपुत्रश्चांद्रिपक्षगः ।।
लक्षणः सप्तलक्षाढ्यो युद्धार्थं समुपस्थितः।3.3.32.६०। 


आह्लादो लक्षसैन्याढ्यः पक्षगश्चंद्रवंशिनः ।।
द्विलक्षसंयुतो राजा चन्द्रवंशो रणोन्मुखः ।।
एवं षोडशलक्षाढ्यः स्थितः परिमलो रणे ।। ६१ ।।


लहरो भूपतिश्रेष्ठो लक्षपः पुत्रसंयुतः ।।
महीराजमुपागम्य युद्धार्थं समुपस्थितः ।। ६२ ।।


अभिनन्दन एवापि सपुत्रो लक्षसैन्यपः ।।
मायावर्मा च नृपतिः सपुत्रो लक्षसैन्यपः ।। ६३ ।।


 नागवर्मा समायातः सपुत्रो लक्षसैन्यपः ।।
मद्रकेशः सपुत्रश्च लक्षसैन्यो रणोन्मुखः ।। ६४ ।।


पूर्णामलः सपुत्रश्च लक्षपश्चैव पक्षगः ।।
मंकणः किन्नरो नाम सपुत्रस्तत्र संस्थितः ।। ६५ ।।


गजराजः समायातो महीराजं हि लक्षपः ।।
धुंधुकारः समायातः पञ्चलक्षपतिः स्वयम् ।। ६६ ।।


पुत्रः कृष्णकुमारस्य भगदत्तः समागतः ।।
त्रिलक्षबलसंयुक्तो महीराजं महीपतिम् ।। ६७ ।।


बलवाहनपुत्रश्च दशगोपालसंस्थितः ।।
अंगदस्तत्र संप्राप्तः सायुतो देवकी प्रियः ।।
महीराजमुपागम्य युद्धार्थं समुपस्थितः ।।६८।।


कलिंगश्च नृपः प्राप्तस्त्रिकोणश्च तथैव च ।।
श्रीपतिश्च तथा राजा श्रीतारश्च तथा गतः ।। ६९ ।।

_______
मुकुन्दश्च सुकेतुश्च रुहिलो गुहिलस्तथा ।।
इन्दुवारश्च वलवाञ्जयंतश्च तथाविधः ।।
सर्वे दशसहस्राढ्या महीराजमुपस्थिताः ।।
3.3.32.७० ।।


महीराजस्य पक्षे तु सहस्रं क्षुद्रभूमिपाः ।।
ते तु साहस्रसेनाढ्या महीराजमुपस्थिताः ।। ७१ ।।


तेषां मध्ये च वै भूपान्द्विशतान्देहलीं प्रति ।।
ससैन्यान्प्रेषयामास राष्ट्ररक्षणहेतवे ।।
एवं स देहलीराजश्चतुर्विंशतिलक्षपः ।। ७२ ।।


युद्धमष्टादशाहानि सञ्जातं सर्वसंक्षयम् ।।
शृणु युद्धकथां रम्यां भृगुवर्य सुविस्तरात् ।। ७३ ।।


मार्गकृष्णद्वितीयायां महीराजो महाबलः ।।
आहूय लहरं भूपं वचनं प्राह निर्भयः ।।९।।


भवान्सपुत्रः सेनाढ्यो धुंधुकारेण रक्षितः ।।
चामुण्डेन युतो युद्धे गन्तुमर्हति सत्तम ।।
इति श्रुत्वा ययौ शीघ्रं कुरुक्षेत्रे महारणे ।। ७५ ।।


तदा परिमलो राजा मयूरध्वजमेव हि ।।
समाहूय वचः प्राह शृणु पार्थिवसत्तम ।। ७६ ।।


कृष्णांशेन जयंतेन देवसिंहेन रक्षितः ।।
स भवाँल्लक्षसैन्याढ्यो गंतुमर्हति वै रणे ।। ७७ ।।


इति श्रुत्वा तु वचनं मयूरध्वज एव हि ।।
लक्षसैन्यान्वितः प्राप्तो लहरं नृपतिं प्रति ।। ७८ ।।


तयोश्चासीन्महद्युद्धं सेनयोरुभयो रणे ।।
सेना तु लक्षवीरस्य तत्र युद्धे प्रकीर्तिता ।। ७९ ।।


एको रथो गजास्तत्र ज्ञेयाः पञ्चशतं रणे।।
हयाश्च पञ्चसाहस्रा पत्तयस्तद्गणा दश ।।
एते सैन्या नरा ज्ञेया सैन्यपांश्च शृणुष्व भोः।।3.3.32.८०।।


दशानां पच्चराणां च पतिर्नाम्ना स पत्तिपः ।।
पंचानां च हयानां च पतिर्नाम्ना स गुल्मपः।।८१।।


पंचानां च गजानां च पतिर्नाम्ना गजाधिपः ।।
एतैः सार्द्धं रथी ज्ञेयो रणेऽस्मिन्दारुणे कलौ ।।८२।।


उष्ट्रारूढाः स्मृता दूताश्चत्वारिंशच्च तद्बले ।।
शतघ्न्यस्तत्र साहस्रास्तेषां मध्ये पृथक्पृथक् ।।
षड्त्रिंशद्वै पदचरास्तेषां कर्माणि मे शृणु ।। ८३ ।।


दश गोलकदातारो दशतत्पुष्टिकारकाः ।।
दश चार्द्रकरास्तां वै त्रयस्ते वह्निदायिनः ।।
त्रयो दृष्टिकरा ज्ञेयास्त्रियामेषु पृथक्पृथक् ।। ८४ ।।


शेषाः शूद्रास्तु सेनानां शूरकृत्यपरायणाः ।।
एवं च लक्षवीराणां सेना तत्र प्रकीर्तिता ।। ८५ ।।


तत्रासीत्तुमुलं युद्धं धर्मेण च समन्ततः ।।
प्रातःकालात्समारभ्य मध्याह्नं सैन्ययोर्द्वयोः ।८६ ।।


तत्पश्चाद्याममात्रेण सैन्यपा युद्धमागताः ।।
तत्पश्चाच्च महाशूरा धुंधुकारादयो बलाः ।।८७।।


याममात्रं च युद्धाय संस्थिता रणमूर्धनि ।।
चामुण्डेन च कृष्णांशो धुंधुकारेण चेन्दुलः ।।८८ ।।


भगदत्तेन वै देवः कृतवान्युद्धमुत्तमम् ।।
सायंकाले तु संप्राप्ते सर्वे शूराः क्षयं गताः ।। ८९ ।।


कृष्णांशस्तत्र चामुण्डं जित्वा तु लहरात्मजान् ।।
षोडशैव जघानाशु घटीमात्रेण वीर्यवान् ।।
दध्मौ शंखं प्रसन्नात्मा लक्षणान्तमुपाययौ ।।3.3.32.९०।।


चामुंडो धुंधुकारश्च भगदत्तो युतः शतैः ।।
महीराजमुपागम्य सुषुपुर्निशि निर्भयाः ।। ९१ ।।


इंदुलो देवसिंहश्च सहस्रैः संयुतौ मुदा ।।
गत्वा परिमलं भूपं रात्रौ सुषुपतुस्तदा ।। ९२ ।।


प्रातःकाले तु संप्राप्ते तृतीयायां भयंकरे ।।
महीराजस्तदाहूय नृपं गजपतिं बली ।। ९३ ।।


वचनं प्राह भो राजँस्त्वं त्रिवीरैः सुरक्षितः ।।
स्वकीयैर्लक्षसैन्यैश्च गंतुमर्हसि वै रणे ।।९४ ।।


तदा परिमलो भूपो नेत्रसिंहं महीपतिम् ।।
युद्धायाज्ञापयामास कृष्णांशाद्यैः सुरक्षितम् ।। ९५ ।।


तयोश्चासीन्महयुद्धं सेनयोरुभयोः क्रमात् ।।
हया हयैः क्षयं जग्मुर्गजाश्चैव तथा गजैः ।।
पच्चराः पच्चरैः सार्द्धं शतघ्न्यश्च शतघ्निभिः ।।९६।।


अपराह्ने मुनिश्रेष्ठ नेत्रसिंहो महाबलः ।।
महागजं गजपतिं गत्वा युद्धमचीकरत् ।।९७।।


परस्परं च विरथौ संछिन्नधनुषौ तदा ।।
खड्गहस्तौ महीं प्राप्य चक्रतू रणमुल्बणम् ।।
अन्योन्येन वधं कृत्वा स्वर्गलोकमुपागतौ ।। ९८ ।।


इन्दुलस्तं तु चामुंडं देवो वै धुंधुकं तथा ।।
कृष्णांशो भगदत्तं च जित्वा राजानमाययुः ।। ९९ ।।


शेषैः पंचशतैः शूरैस्तैः सार्द्धं लक्षणं प्रति ।।
पराजिताश्च ते सर्वे सहस्रैः सहिता ययुः।3.3.32.१००।


प्रातःकाले तु संप्राप्ते महीराजो महाबलः ।।
मायावर्माणमाहूय वचनं प्राह निर्भयः ।। १०१ ।।


भवान्दशसुतैर्वीरैर्लक्षसैन्यैश्च संयुतः ।।
सर्वशत्रुविनाशाय गंतुमर्हति सत्तम ।।
इति श्रुत्वा स नृपतिर्वाद्यान्संवाद्य चाययौ ।। १०२ ।।


दृष्ट्वा परिमलो भूपो मायावर्माणमागतम् ।।
जगन्नायकमाहूय वचनं प्राह निर्भयः ।। १०३ ।।


भवान्दशसहस्रैश्च सार्द्धं तैस्त्रिभिरन्वितः ।।
गन्तुमर्हति युद्धाय शीघ्रं मद्विजयं कुरु ।। १०४ ।।


इति श्रुत्वा ययौ शीघ्रं सेनयोरुभयोर्महत् ।।
युद्धं चासीन्मुनिश्रेष्ठ याममात्रं भयानकम् ।। १०५ ।।


हतास्ते दशसाहस्रा कृष्णांशाद्यैः सुरक्षिताः ।। शंखान्दध्मुश्च ते सर्वे चांगदेशनिवासिनः ।। १०६ ।।


एतस्मिन्नंतरे धीराः कृष्णांशाद्यास्तुरीयकाः ।।
याममात्रेण संजघ्नुर्लक्षसैन्यं रिपोस्तदा ।। १०७ ।।


अपराह्णे महाराजो मायावर्मा सुतैः सह।।
कृष्णांशं देवसिंहं च संप्राप्तो जगनायकम् ।।१ ०८।।


अथाङ्गभूपं दशपुत्रयुक्तं कृष्णांश एवाशु जगाम शीघ्रम् ।।
हयस्थितो वीरवरः प्रमाथी कलैकजातो मधुसूदनस्य१०९।


ततोंगभूपस्त्रिभिरेव बाणैरताडयन्मूर्ध्नि च पार्श्वयोर्वै ।।
अमर्ष माणो बलवान्महीपतिर्दंडैर्हतः काल इवाशु सर्पः।। ।। 3.3.32.११० ।।


हयं समुड्डीय सु पुष्करान्तं ततोभ्यगात्तं नृपतिं रथस्थम् ।।
हयस्य पातैर्विरथी चकार स एव भूपोऽसिमुपादधानः। १११।


स्वेनासिना बिंदुलमंगशल्यं कृत्वा स कृष्णांशमुवाच वाक्यम् ।।
कल्लोलमायात्तव नाशनाय त्वया जिता भूपतयः प्रधानाः ।।१ १२।।


तदैव कीर्तिर्भविता ममाशु हत्वा भवंतं च सुखी भवामि ।।
इत्युक्तवन्तं नृपतिं महान्तं स्वेनासिना तस्य शिरो जहार ।। ११३ ।।


हतेऽङ्गभूपे दश तस्य पुत्रास्तमेव जग्मुर्युधि कौरवांशाः ।।
तानागतानिंदुल एव पंच जघान बाणैस्तु तदा समन्युः ।। ११४।।


उभौ च देवस्तु जघान तत्र भल्लेन सिद्धेन नृपात्मजौ च।।
ज्येष्ठं सुतं गौतम एव हत्वा द्वौ यौ स कृष्णांश उपाजघान।।११५।।


शंखान्प्रदध्मू रुचिराननास्ते प्रदोषकाले शिबिराणि जग्मुः।।


श्रमान्वितास्ते सुषुपुर्निशायां प्रातः समुत्थाय स्वकर्म कृत्वा।।११६।।


गत्वा सभायां नृपतिं प्रणम्य वाक्यं समूचुः शृणु चंद्रवंशिन्।।


अद्यैव सेनापतिरस्ति को वै चाज्ञापयास्मान्नृप तस्य गुप्त्यै।।११७।।


श्रुत्वाह भूपोद्य तु वीरसेनः सकामसेनः स्वबलैः समेतः।।
रणं करिष्यत्यचिरेण वीरास्तस्मात्सुरक्षध्वमरिभ्य एव।११८।


स वीरसेनो नृपतिं प्रणम्य लक्षैः स्वसैन्यैर्युधि संजगाम।।
तदा महीराजनृपः प्रतापी स नागवर्माणमुवाच तापी ।। ११९ ।।


रणाय गच्छाशु सुतैः समेतो लक्षैः स्वसैन्यैरुत भूपवर्य ।।
हत्वा रिपुं घोरतमं हि वीरं पतिं महान्तं युधि वीरसेनम् ।। 3.3.32.१२० ।।


इत्युक्तवंतं नृपतिं प्रणम्य सुवादयामास तदा हि वीरः ।।
तयोर्बभूवाशु रणो महान्वै सुसेनयोः संकुलयुद्धकर्त्रोः ।। १२१ ।।


त्रियाममात्रेण हताश्च सर्वे विमानमारुह्य ययुश्च नाकम् ।।
हतेषु सर्वेषु च नागवर्मा सुतेषु वै यादवभूपमाह ।१२२ ।।


भवान्विसैन्यश्च तथैव चाहं भवान्सपुत्रश्च तथाहमेव ।।
संस्मृत्य धर्मं कुरु युद्धमाशु ततो रथस्थः सुधनुर्गृहीत्वा १२३।


बाणैश्च बाणान्भुवि तौ च छित्त्वा बभूवस्तुस्तौ विरथौ नृपाग्र्यौ ॥
खड्गेन खड्गं च तथैव छित्त्वा विमानमारुह्य गतौ हि नाकम् ॥ १२४ ॥


स कामसेनः स्वरिपोश्च पुत्राञ्जघान बाणैश्च तदाष्टसंख्यान् ॥
ज्येष्ठौ तदा कोपसमन्वितौ तं गृहीतखड्गौ च समीयतुश्च ॥ १२५ ॥


रिपोः शिरो जह्रतुरुग्रवेगी स कामसेनश्च कबंध एव ॥
हत्वा रिपू तौ च तदा मिलित्वा स्वर्गं ययुस्ते च विमानरूढाः ।। १२६ ।।


हतेषु सर्वेषु तदा त्रयस्ते चामुंडकाद्या जगनायकं ते ।।
रुद्धा समेताः स्वशरैः कठोरैर्जघ्नुस्तमश्वं हरिनागरं च ।। १२७ ।।


स दिव्यवाजी च तदा स्वपक्षौ प्रसार्य्य खेनाशु रिपुं जगाम ।।
स पुंधुकारस्य गजं विहत्य चामुंडकस्यैव गजं विमर्द्य ।।१२८ ।।


रथं च भूमौ भगदत्तकस्य विचूर्ण्य शीघ्रं च नभो जगाम ।।
प्रवाद्य शंखं जगनायकश्च कृष्णांशमागम्य कथां चकार ।।१२९।।


निशामुषित्वा जगनायकाद्याः प्रातः समुत्थाय रणं प्रजग्मुः ।।
तदा महीराज उताशुका री स किन्नरेशं कणकं सपुत्रम् ।।3.3.32.१३०।।



उवाच राजञ्छृणु किन्नराणां महाबलास्ते रिपवो ममैते ।।
विनाशयाशु प्रबलारिघातान्देवैर्न सार्द्धं युधि वै मनुष्याः ।। १३१ ।।


इत्युक्तवान्मंकणभूपतिस्तु ययौ सपुत्रोऽयुतसैन्यपश्च ।।
तमागतं तत्र विलोक्य राजा वीरान्स्वकीयांश्च समादिदेश ।।१३२।।


मनोरथस्थो जगनायकश्च स तालनो वै वडवां विगृह्य ।।
करालसंस्थश्च तदा जयन्तो विगृह्य चापं तरसा जगाम।।१३३।।


पपीहकस्थश्च स रूपणो वै जगाम कृष्णांशसमन्वितश्च ।।
स लल्लसिंहो गजमत्तसंस्थः स धान्यपालो हयमारुरोह ।। १३४ ।।


समंततः किन्नरसैन्यघोरं विनाशयामासुरुपांशुखड्गैः।।
विनश्यमाने त्रिसहस्रसैन्ये स किन्नरेशस्तरसा जगाम ।।१३५।।


ध्यात्वा कुबेरं च गृहीतचापो नभोगतस्तत्र बभूव सूक्ष्मः।।१३६।।


अदृश्यमानः स्वशरैः कठोरैर्विनर्द्य सर्वान्हि ननर्द घोरम् ।।
विलप्यमाने च समस्तशूरे जयन्त एवाशु जगाम शत्रुम ।। १३७ ।।


ध्यात्वा महेंद्रं कणकं च बद्ध्वा कृष्णांशमागम्य पदौ ननाम ।।
तदा तु ते शत्रुसहस्रसैन्ये निशम्य बद्धं कणकं निजेंद्रम् ।। १३८ ।।


विनर्घ घोरं रुरुधुश्च सर्वान्माया विनो गुह्यकमस्त्रमूहुः ।।
दिनेषु सप्तेषु तथा निशासु बभूव युद्धं च समंततस्तैः ।। १३९ ।।


श्रमान्विताः सप्त महाप्रवीरा हतेषु सर्वेषु सुषुपुश्च वै यदा।।
तदा कुबेरं कणकश्च ध्यात्वा लब्ध्वा वरं बंधनमाशु छित्त्वा ।। 3.3.32.१४० ।।


सुप्तान्समुत्थाय च सप्त शूरान्निशीथकाले स चकार युद्धम् ।।
जित्वा च तान्षट् स वरप्रभावात्तदेंदुलेनैव रणं चकार ।। १४१ ।।


गृहीतखड्गौ रणघोरमत्तौ हत्वा ततो वै भुवि चेयतुश्च ।।
प्रजग्मतुर्नाकमुपान्तदेवौ संस्तूयमानौ सुरसत्तमैश्च ।। १४२ ।।


ततः प्रभाते विमले विजाते रुरोद रामांश उताललाप ।।
पापैः कलापैः परीपीड्यमानः कुलान्वितः सर्व युतो मुनींद्र ।। १४३ ।।


स पंचशब्दं गजमारुरोह त्रिलक्षसैन्यैस्तरसा जगाम ।।
तदा महीराज उताह शृण्वन्गच्छध्वमद्यैव मया समेताः ।। ।। १४४ ।।


स्वपंचलक्षैः प्रबलैश्च शूरैः सार्द्धं रुरोधाशु रिपोश्च सेनाम् ।।
तयोर्बभूवाशु रणः प्रघोरो विनर्दतोर्युदनिमित्तमाशु ।१४५ ।


त्रियाम मात्रेण हताश्च सर्वे द्वयोश्च पक्षा बलशालिनश्च ।।
तदा महीराज उताययौ वै समंडलीकश्च धनुर्विगृह्य ।। १४६ ।।


स धुंधुकारश्च तदाजगाम रथ स्थितं लक्षणमुग्रवीरम् ।।
तदोदयो वै भगदत्तमेव चामुंडकं भीष्मकराजसूनुः ।। १४७ ।।


स पंचशब्दं गजमास्थितो वै गतः स एवाशु जगाम भूपम् ।
धनुर्विगृह्याशुगमुल्बणं च नृपस्थितश्चाथ भयंकरं च ।। १४८ ।।


गजं प्रमत्तं शिवदत्तमुग्रमाह्लादहन्तारमुवाच वाक्यम् ।।
अये प्रमत्ताग्रगजेंद्र शूर जयं च मे देहि शिवप्रदत्त ।१४९ ।


स मंडलीको रणदुर्मदश्च रामांश आह्लाद इति प्रसिद्धः।।
तस्माच्च मां रक्ष जवेन हस्तिन्महाबलात्काल रसाच्च वीरात् ।। 3.3.32.१५० ।।


इत्येवमुक्तो नृपतिं स हस्ती वचस्तमाहाशु शृणुष्व राजन्।।
यावदहं वै तनुजीवधारी तावद्भवाञ्छत्रुभयंकरश्च।।१५१।


इत्युक्तवंतं च गजं प्रमत्तं स पंचशब्दश्च तदा स्वदंतैः ।।
मुखं चतुर्भिश्च विदार्य शत्रोर्ननर्द घोरं स महेंद्रदत्तः।१५२।


स रुद्रदत्तश्च गजः प्रमत्तो रुषान्वधावत्तरसा गजेंद्रम् ।।
रिपुं स्वपद्भ्यां च चखान कुंभैः स्वतुंडदंडेन तुदं प्रकुर्वन् ।। १५३ ।।


अवाप मूर्छां च स पंचशब्दस्तदाशु भूपं प्रति मंडलीकः ।।
स्वतोमरेणांगव्रणं प्रदाय खड्गेन हत्वा गजराजमुग्रम् ।।
जगाम पद्भ्यां स रिपुप्रमाथी यत्र स्थितश्चेन्दुल उग्रधन्वा।१५४।


उत्थाप्य पुत्रं च विलप्यमानां पत्नीं स्वकीयां प्रति चाजगाम ।।
तदा प्रमत्तौ च गजौ समूर्छां त्यक्त्वा पुनश्चक्रतुरेव युद्धम् ।। ।। १५५ ।।


स लक्षणः खड्गवरेण बाणान्रिपोश्च छित्त्वा निजवैष्णवास्त्रम् ।।
दधार चापे च सुमंत्रयित्वा सधुंधुकारं च गजं ददाह ।। १५६ ।।


 हते च तस्मिन्निजमुख्यबंधौ सभूमिराजश्च गृहीतचापः ।।
शरेण रौद्रेण च लक्षणं तं जघान तत्रादिभयंकरस्थः ।। १५७ ।।


स मूर्छितः शुक्ल कुलेषु सूर्यस्तदोदयो वै भगदत्तमेव ।।
सुमूर्छयित्वा च जगाम शीघ्रं यत्र स्थितो लक्षण एकवीरः ।। १५८।।


भयान्वितस्तं च विलोक्य राजा जवेन दुद्राव च रक्तबीजम् 
तदा सुदेवं च स रक्तबीजो जित्वा तु कृष्णांशयुतं जगाम ।। १५९ ।।


बाणेन शीघ्रं स च मूर्च्छयित्वा पुनश्च देवं च स मूर्छयित्वा ।
तद्बंधनायोद्यत आशुकारी स लक्षणस्तत्र तदा जगाम ।। 3.3.32.१६० ।।


प्रधाय चापे च स वैष्णवास्त्रं प्रचोदयामास च रक्तबीजे ।।
तदा स सामन्तसुतो बलीयान्रणं विहायाशु विलोक्य संध्याम् ।।
भयान्वितः स्वैश्च युतो ययौ वै यत्र स्थिता भूपतयः सकोपाः ।। १६१ ।।


विलोक्य शत्रुं च स रत्नभानोः सुतो ययौ वै शिबिराणि युक्तः ।।


निशाम्य भूपः स च चंद्रवंशी जयं 

स्वकीयं सुषुपुस्तु ते वै ।।
प्रातश्च काले स च चंद्रवंशी विलोक्य शुक्लान्वयमाह भूपम्।।१६२।।


अये गुर्जर देशीय मूलवर्मन्सुतैः सह।।
लक्षसैन्यान्वितो भूत्वा गन्तुमर्हतु वै भवान्।। १६३।।


इत्युक्तः स तु भूपालो युद्धभूमिमुपाययौ।।
महीराजाज्ञया प्राप्तो नाम्ना पूर्णामलो बली।। १६४।।


दशपुत्रान्वितो युद्धे सैन्य लक्षेण संयुत्ः।।
तयोश्चासीन्महद्युद्धं यामद्वयमुपस्थितम्।।१६५।।


हतेषु तेषु सर्वेषु तौ नृपौ ससुतैर्बलौ ।।
अनोन्येन रणं कृत्वा यमलोक मुपागतौ ।। १६६ ।।


मार्गकृष्णचतुर्दश्यां प्रभाते विमले रवौ ।।
कैकयो लक्षसेनाढ्यो दयापुत्रसमन्वितः ।।
लक्षणानुज्ञया प्राप्तस्तस्मिन्युधि भयानके ।। १६७ ।।


मद्रकेशस्तदा राजा दशपुत्रसमन्वितः ।।
लक्षसैन्यान्वितस्तत्र यत्र युद्धं समन्वभूत्।।
परस्परं हताः सर्वे दिनान्ते क्षत्रिया रणे ।। १६८ ।।


पुनः प्रभाते विमले भगदत्तो महाबली ।।
त्रिलक्षबलसंयुक्तो जगर्ज्ज रणमूर्द्धनि।। १६९।।


दृष्ट्वा तं लक्षणो वीरस्त्रिलक्षबलसंयुतः ।।
चकार तुमुलं घोरं सेनया च स्वकीयया ।3.3.32.१७०।।


अपराह्णे हताः सर्वे सैनिका नृपयोस्तदा ।।
भगदत्तः स्वयं क्रुद्धो रथस्थो लक्षणं ययौ ।। १७१ ।।


लक्षणो रथमारुह्य स्वपितुः शत्रुजं नृपम् ।।
त्रिभिर्बाणैश्च संतोद्य भल्लेन समताडयत् ।। ।१७२ ।।


भगदत्तस्तदा क्रुद्धो विरथं तं चकार ह ।।
क्रुद्धवंतं रिपुं घोरं लक्षणः खङ्गपाणिकः ।।
हत्वा हयांस्तथा सूतं भगदत्तमुपाययौ ।। १७३ ।।


मर्दयित्वा च तच्चर्म च्छित्त्वा वर्म तदुद्भवम् ।।
त्रिधा चकार बलवान्भगदत्तं रिपोस्सुतम् ।। १७४ ।।


संध्याकाले हते तस्मिँल्लक्षणस्त्वरयान्वितः ।।
एकाकी शिविरं प्राप्तो हस्तिन्युपरि संस्थितः ।। १७५ ।।


भगदत्ते हते तस्मिन्स राजा क्रोधमूर्छितः ।।
स्वकीयान्सर्वभूपांश्च चामुंडेन समन्वितान् ।।
प्रेषयामास युद्धाय मार्गे च प्रतिपद्दिने ।। १७६ ।।


अंगदश्च कलिंगश्च त्रिकोणः श्रीपतिस्तथा ।।
श्रीतारश्च मुकुंदञ्च रुहिलो गुहिलस्तथा ।। १७७ ।।


सुकेतुर्नव भूपास्ते नवायुतबलैर्युताः ।।
वाद्यानि वादयामासुस्तस्मिन्युद्धमहोत्सवे ।। १७८ ।।


दृष्ट्वा ताँल्लक्षणो वीरो राजभिश्च स्वकीयकैः ।।
सार्द्धं जगाम युद्धाय तथा व्यूह्यायुधद्रिपून् ।। १७९ ।।


रुद्रवर्मा च नृपतिः शूरैर्दशसहस्रकैः ।।
अंगदं वैरिणं मत्वा तेन सार्द्धमयुध्यत ।। 3.3.32.१८० ।।


कालीवर्माऽयुतैस्सार्धं कलिंगं प्रत्यबुध्यत ।।
वीरसिंहोऽयुतैस्सार्द्धं त्रिकोणं प्रत्ययुध्यत ।। १८१ ।।


ततोनुजः प्रवीरश्च श्रीपतिं सोऽयुतैस्सह ।।
नृपः सूर्यो धरो वीरोऽयुताढयो बलवान्रणे ।।
श्रीतारं नृपमासाद्य महद्युद्धमचीकरत् ।।१८२।।


वामनोयुतसंयुक्तो मुकुंदं प्रति सोऽगमत् ।।
गंगासिंहश्च बलवान्महिलं प्रति सायुतः ।।१८३।।


लल्लसिंहोयुतैस्सार्द्धं गुहिलं प्रति सोऽगमत् ।।
त्रिशतानि ततो भूपाः सहस्राढ्याः पृथक्पृथक् ।।१८४।।


क्षुद्रभूपाः क्षुद्रभूपांस्त्रिशतानि समाययुः ।।
अन्योन्येन हताः सर्वे कृत्वा युद्धं भयानकम्।। १८५ ।


चामुंडस्तु तदा दृष्ट्वा मृतकान्सर्वभूपतीन् ।।
लक्षणान्तमुपागम्य महद्युद्धं चकार ह ।।१८६।


लक्षणो रक्तबीजं तं ज्ञात्वा ब्राह्मणसंमतम् ।।
वैष्णवास्त्रं तदा तस्मै न ददौ तेन पीडित।।१८७।।


सायंकाले तु संप्राप्ते लक्षणो हस्तिनीस्थितः ।।
एकाकी शिविरं प्राप्तश्चामुंडं नृपमाययौ ।। १८८ ।।


द्वितीयायां प्रभाते च कृष्णांशो देवसंयुतः ।।
शूरैर्दशसहस्रैश्च युद्धभूमिमुपाययौ ।। १८९ ।।


तारकश्च सचामुंडो द्विलक्षबलसंयुतः ।।
द्विशतैश्च तथा भूपैः सार्द्धं युद्धमुपस्थितौ।।3.3.32.१९०।।


पुरस्कृत्य ,नृपान्सर्वान्ससैन्यौ बलवत्तरौ ।।
तेषामनु स्थितौ युद्धे तत्र जातो महारणः ।। १९१ ।।


याममात्रेण तौ वीरौ हत्वा सर्वमहीपतीन् ।।
लक्षसैन्यांस्तथा हत्वा संस्थितौ श्रमकर्षितौ।।१९२।।


चामुंडस्तारको धूर्तः संप्राप्तौ छिद्रदर्शिनौ ।।
ताभ्यां श्रमान्विताभ्यां च चक्रतुस्तौ समं रणम्।।१९३।।


तेषां त्रियाममात्रेण संबभूव महान्रणः ।।
सायंकाले तु संप्राप्ते कृष्णांशश्च निरायुधः ।।
तलप्रहारेण रिपुं मूर्च्छयामास वीर्यवान् ।।१९४।।


एतस्मिन्नंतरे वीरस्तारको देवसिंहकम् ।।
हयं मनोरथं हत्वा शंखशब्दमथाकरोत् ।। १९५ ।।


तच्छब्दात्स च चामुंडस्त्यक्त्वा मूर्छां महाबलः ।।
कृष्णांशस्य शिरः कायादपहृत्य च वेगवान् ।।
तयोर्गृहीत्वा शिरसी महीराजमुपाययौ ।। १९६ ।।


महीराजस्तु ते दृष्ट्वा परमानंदनिर्भरः ।।
दत्त्वा दानं द्विजातिभ्यो महोत्सवमकारयत् ।। १९७ ।।


लक्षणस्य तदा सैन्ये हाहाशब्दो महानभूत् ।।
श्रुत्वा कोलाहलं तेषां ज्ञात्वा तौ च हतौ नृपः ।।
ब्रह्मानंदस्तदा मूर्च्छां त्यक्त्वा वेलामुवाच ह ।। १९८ ।।


प्रिये गच्छ रणं शीघ्रं हरिनागरमास्थिता ।।
मम वेषं शुभं कृत्वा तारकं जहि मा चिरम् ।। १९९ ।।


इति श्रुत्वा तु सा वेला रामांशेन समन्विता ।।
सहस्रशूरसहिता युद्धभूमिमुपाययौ ।। 3.3.32.२०० ।।


श्रुत्वा स लक्षणो वीरस्तालनेन समन्वितः ।।
सैन्यैश्च दशसाहस्रैर्महीराजमुपाययौ ।।२०१।।


तृतीयायां प्रभाते च तारको बलवत्तरः ।।
ब्रह्मानंदं च तं मत्वा महद्युद्धमची करत् ।। २०२ ।।


रक्तबीजश्च चामुंडो रामांशो बलवत्तरः ।।
चकार दारुणं युद्धं तस्मिन्वीरसमागमे ।। २०३ ।।


याममात्रेण रामांशो हत्वा तस्य महागजम् ।।
तच्छस्त्राणि तथा च्छित्वा मल्लयुद्धमचीकरत् ।। २०४ ।।


त्रियाममात्रेण तदा सायंकाले समागते ।।
ममंथ भ्रातृहन्तारं स च वीरो ममार ह ।। २०५ ।।


तदा वेला महाशत्रुं तारकं बलवत्तरम् ।।
छित्त्वास्त्राणि स्वखड्गेन शिरः कायादपाहरत् ।। २०६ ।।


चितां कृत्वा विधानेन सा देवी द्रुपदात्मजा ।।
ब्रह्मानंदं नमस्कृत्य तच्चितायां समारुहत् ।। २०७ ।।


तेन सार्द्धं च सा शुद्धा श्वशुरस्याज्ञया मुदा ।।
सप्तजन्मकथां कृत्वा स्वपतेस्तु ददाह वै ।। २०८ ।।


तच्चितायां च भर्तारमिंदुलं बलवत्तरम् ।।
संस्थाप्य दाहयामास तेन सार्द्धं कलेवरम् ।। २०९ ।।


रात्रौ परिमलो राजा लक्षणेन समन्वितः ।।
महीराजमुपागम्य महद्युद्धमकारयत् ।। 3.3.32.२१० ।।


सपादलक्षाश्च तदा हतशेषा महाबलाः ।।
त्रिलक्षैर्हतशेषैश्च सार्द्धं योद्धुमुपस्थिताः।।२११।।


धान्यपालः शतं भूपाँल्लक्षणश्च तथा शतम्।।
तालनश्च शतं भूपान्हत्वा राजानमाययौ।।२१२।।


महीराजस्तदा दुःखी ध्यात्वा रुद्रं महेश्वरम्।।
निशीथे समनुप्राप्ते हतशेषैस्समागतः।।
एकाकी गजमारुह्य ययौ चादिभयंकरम्।। २१३।।


रुद्रदत्तेन बाणेन हत्वा परिमलं नृपम्।।
धान्यपालं तथा हत्वा तालनं बलवत्तरम् ।।
लक्षणान्तमुपागम्य महद्युद्धमचीकरत् ।। २१४ ।।


महीराजस्य रौद्रास्त्रैस्सैन्यास्सर्वे क्षयं गताः ।।
लक्षणं प्रति रौद्रास्त्रं महीराजः समादधे ।। २१५ ।।


तदा तु लक्षणो वीरो वैष्णवास्त्रं समादधे ।।
तेनास्त्रेण क्षयं जातो महीराजस्य सायकः ।।
तेनास्त्रतेजसा राजा महासंतापमाप्तवान् ।। २१६ ।।


ध्यात्वा रुद्रं महादेवं त्यक्त्वा विद्यां च वैष्णवीम् ।।
स्वभल्लेन शिरः कायादपाहरत भूमिपः ।। २१७ ।।


हस्तिनी च तदा रुष्टा गजमादिभयंकरम् ।।
गत्वा युद्धं मुहूर्तेन कृत्वा स्वर्गमुपाययौ ।। २१८ ।।


उषःकाले च संप्राप्ते मलना पतिमुत्तमम् ।।
तच्चितायां समारोप्य ददाह स्वं कलेवरम्।। २१९ ।।


तदा तु देवकी शुद्धं लक्षणं बलवत्तरम्।।
तालनादींस्तथा हुत्वा ददाह स्वं कलेवरम् ।। 3.3.32.२२० ।।


प्रभाते विमले जाते चतुर्थे भौमवासरे ।।
तथा हुत्वा स्वर्णवती कृत्वा तेषां तिलांजलिम् ।।
ध्यात्वा सर्वमयीं देवीं स्थिरीभूय स्वयं स्थितः ।। २२१ ।।


एतस्मिन्नंतरे तत्र कलिर्भार्यासमन्वितः ।।
वांछितं फलमागम्य तुष्टाव श्लक्ष्णया गिरा ।। २२२ ।।


                   ।। कलिरुवाच ।। 
नम आह्लाद महते सर्वानंदप्रदायिने ।।
योगेश्वराय शुद्धाय महावतीनिवासिने ।। २२३ ।।


रामांशस्त्वं महाबाहो मम पालनतत्परः ।।
कलैकया समागम्य भुवो भारस्त्वया हृतः ।। २२४ ।।


राजानः पावकीयाश्च तपोबलसमन्विताः ।।
हत्वा तान्पञ्चसाहस्रान्क्षुद्रभूपाननेकशः ।।
योगमध्ये समासीनो नमस्तस्मै महात्मने ।। २२५ ।।


तेषां सैन्याः षष्टिलक्षाः क्रमाद्वीर त्वया हताः ।।
वरं ब्रूहि महा भाग यत्ते मनसि वर्तते ।। २२६ ।।


इति श्रुत्वा स आह्लादो वचनं प्राह निर्भयः ।।
मम कीर्तिस्त्वया देव कर्तव्या च जने जने ।। २२७ ।।


पुनस्ते कार्यमतुलं करिष्यामि शृणुष्व भोः ।।
महीराजश्च धर्मात्मा शिवभक्तिपरायणः ।।
तस्य नेत्रे मया शुद्धे कर्तव्ये नीलरूपके ।। २२८ ।।


तव प्रियः सदा नीलस्तथैव च मम प्रियः ।।
देवानां दुःखदो देव दैत्यानां हर्षवर्द्धनः ।। २२९ ।।


इत्युक्त्वा स तु रामांशो गजमारुह्य वेगतः ।।
महीराजमुपागम्य महद्युद्धं चकार ह ।। 3.3.32.२३० ।।


रुद्रदत्तो गजस्तूर्णं पंचशब्दमुपस्थितः ।।
पद्मदंतान्समारुह्य युयुधाते परस्परम्।। २३१ ।।


अन्योन्येन तथा हत्वा गजौ स्वर्गमुपेयतुः ।। २३२ ।।


तदा भयातुरो राजा त्यक्त्वा युद्धं भयंकरम्।।
स तु दुद्राव वेगेन रामांशोऽनुययौ ततः ।। २३३ ।।


केशेषु च महीराजं गृहीत्वा तरसा बली ।।
कलिदत्तं महानीलं नेत्रयोस्तेन तत्कृतम् ।। २३४ ।।


तदाप्रभृति वै शम्भुरशुद्धं नृपतिं प्रियम् ।।
मत्वा त्यक्त्वा ययौ स्थाने कैलासे गुह्यकालये ।। २३५ ।।


आह्लादः कलिना सार्द्धं कदलीवनमुत्तमम्।।
गत्वा योगं चकाराशु पर्वते गंधमादने ।। २३६ ।।


तथाभूतं च रामांशं कलिर्दृष्ट्वा मुदान्वितः ।।
बलिपार्श्वमुपागम्य वर्णयामास सर्वशः ।। २३७ ।।


स वै बलिर्दैत्यराजोऽयुतैः सह विनिर्गतः ।।
गौर देशमुपागम्य सहोड्डीनमुवाच ह ।। २३८ ।।


गच्छ वीर बलैस्सार्द्धं निशायां रक्षितो मया ।।
हत्वा भूपं महीराजं विद्युन्मालां गृहाण भोः ।।२३९।।


इति श्रुत्वा वचस्तस्य षोडशाब्दांतरे गते ।।
सपादलक्षैश्च बलैः कुरुक्षेत्रमुपाययौ ।। 3.3.32.२४० ।।


महीराजसुताञ्जित्वा समाहूय महावतीम् ।।
महीपतिं प्रेषयित्वा लुण्ठयित्वा च तद्वसु ।।२४१।।


लिंगार्थं कृतवान्यत्नं स नृपः कीर्तिसागरे ।।
न प्राप्तस्स नृपस्तं वै स्वगेहाय तदा ययौ ।।२४२।।


लक्षचंडीं कारयित्वा परमानंदमाप्तवान्।।
जयचंद्रस्तु तच्छ्रुत्वा पुत्रशोकसमन्वितः ।। २४३ ।।


निराहारो यतिर्भूत्वा मृतः स्वर्गपुरं ययौ ।।
सहोड्डीनेन स नृपः कृत्वा युद्धं भयंकरम् ।। २४४ ।।


सप्ताहोरात्रमात्रेण म्लेच्छराजवशं गतः ।।
मारितो बहुयत्नेन महीराजो न वै मृतः ।। २४५ ।।


तदा म्लेच्छस्सहोड्डीनो निर्बंधनमथाकरोत् ।।
ज्योतिरूपस्थितं तत्र चंद्रभट्टो नृपाज्ञया ।।
क्षुरप्रेण च बाणेन हत्वा वह्नौ ददाह वै ।। २४६ ।।


विद्युन्मालां स च म्लेच्छो गृहीत्वा च धनं बहु ।।
तत्रास्थाप्य स्वदासं च कुतुकोड्डीनम् आगतः ।। २४७ ।।
_______________________

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये द्वात्रिंशोऽध्यायः।।३२ इति तृतीयखण्डं समाप्तम् ।।

इमे श्लोका: सम्पादयन्ते यादवो योगेश: कुमारा रोहिणा भविष्य पुराणेषु ....



कोई टिप्पणी नहीं:

एक टिप्पणी भेजें